Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 26

63 Mantra
8/26
Devata- गृहपतयो देवताः Rishi- अत्रिर्ऋषिः Chhand- स्वराट आर्षी बृहती, Swara- मध्यमः
Mantra with Swara
देवी॑रापऽए॒ष वो॒ गर्भ॒स्तꣳ सुप्री॑त॒ꣳ सुभृ॑तं बिभृत। देव॑ सोमै॒ष ते॑ लो॒कस्तस्मि॒ञ्छञ्च॒ वक्ष्व॒ परि॑ च वक्ष्व॥२६॥

देवीः॑। आ॒पः॒। ए॒षः। वः॒। गर्भः॑। तम्। सुप्री॑त॒मिति॒ सुऽप्री॑तम्। सुभृ॑त॒मिति॒ सुऽभृ॑तम्। बि॒भृ॒त॒। देव॑ सो॒म॒। ए॒षः। ते॒। लो॒कः। तस्मि॑न्। शम्। च॒। वक्ष्व॑। परि॑। च॒। व॒क्ष्व॒ ॥२६॥

Mantra without Swara
देवीरापऽएष वो गर्भस्तँ सुप्रीतँ सुभृतम्बिभृत । देव सोमैष ते लोकस्तस्मिञ्छञ्च वक्ष्व परि च वक्ष्व ॥

देवीः। आपः। एषः। वः। गर्भः। तम्। सुप्रीतमिति सुऽप्रीतम्। सुभृतमिति सुऽभृतम्। बिभृत। देव सोम। एषः। ते। लोकः। तस्मिन्। शम्। च। वक्ष्व। परि। च। वक्ष्व॥२६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवीः) देदीप्यमाना विदुष्यः (आपः) सर्वाः शुभगुणकर्म्मविद्याव्यापिन्यः (एषः)(वः) युष्माकं (गर्भः)(तम्)(सुप्रीतम्) सुष्ठु प्रीतिनिबद्धम्(सुभृतम्) सुष्ठु धारितम्(बिभृत) धरत, पुष्यत (देव) दिव्यगुणैः कमनीय ! (सोम) ऐश्वर्याढ्य गृहस्थजन ! (एषः) प्रत्यक्ष: (ते) तव (लोक:) लोकनीय: पुत्रपत्यादिसंबन्धमुखकरो गृहाश्रमः (तस्मिन्)(शम्) कल्याणकारकं ज्ञानम्(च) शिक्षाम् (वक्ष्व) प्रापय (परि)(च) अनुक्तसमुच्चये (वक्ष्व) वह ॥ अयं मन्त्रः शत० ४ । ४ । ५ । २१ व्याख्यातः ॥ २६ ॥
Essence
विदुषी स्त्री यथोक्तविवाहविधिना विद्वांसं पतिं प्राप्य तन्मनोरञ्जनपुरःसरं गर्भमादधीत,
[हे......सोम ! य एष ते=तव लोकोऽस्ति तस्मिन् शं [च] चाच्छिक्षां वक्ष्व [च] चादरक्षणं परिवक्ष्व]
सच पतिः स्त्रीरक्षणे तन्मनोरञ्जने च नित्यमुत्सहेत ॥ ८ । २६ ॥
Subject
अथ विवाहितस्त्रीभ्यः कर्त्तव्यमुपदिश्यते ॥
Meaning of Anvay
हे आपः सर्वाः शुभगुणकर्म्म विद्याव्यापिन्यः देवी:=देव्यः ! देदीप्यमाना विदुष्यः यूयं वः=युष्माकं य एषः गर्भो लोक: लोकनीय:=पुत्रपत्यादिसम्बन्धसुखकरो गृहाश्रमः तं सुप्रीतं सुष्ठु प्रीतिनिबद्धंसुभृतं सुष्ठुधारितं यथा स्यात्तथाबिभृत धरत पुष्यत ।
हे देव ! दिव्यगुणैः कमनीय सोम ऐश्वर्य्याढ्य गृहस्थजन ! य एष ते=तव लोक: लोकनीय:= पुत्रपत्यादिसम्बन्धसुखकरो गृहाश्रमः अस्ति, तस्मिन् शं कल्याणकारकं ज्ञानं [च] चात्-शिक्षां वक्ष्व प्रापय[च] चाद् रक्षणं परिवक्ष्व वह ॥ ८ । २६ ॥
[हे.....देवी:=देव्यः ! यूयं वः=युष्माकं य एष गर्भो लोकस्तं सुप्रीतं.....बिभृत]
Special
अत्रिः। गृहपतय:=गृहस्थाः ॥ स्वराडार्षी बृहती । मध्यमः ॥