Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 24

63 Mantra
8/24
Devata- गृहपतिर्देवता Rishi- अत्रिर्ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ॒ग्नेरनी॑कम॒पऽआवि॑वेशा॒पां नपा॑त् प्रति॒रक्ष॑न्नसु॒र्यम्। दमे॑दमे स॒मि॑धं यक्ष्यग्ने॒ प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्य॒त् स्वाहा॑॥२४॥

अ॒ग्नेः। अनी॑कम्। अ॒पः। आ। वि॒वे॒श॒। अ॒पाम्। नपा॑त्। प्र॒ति॒रक्ष॒न्निति॑ प्रति॒ऽरक्ष॑न्। अ॒सु॒र्य्य᳖म्। दमे॑दम॒ इति॒ दमे॑ऽदमे। स॒मिध॒मिति॑ स॒म्ऽइध॑म्। य॒क्षि॒। अ॒ग्ने॒। प्रति॑। ते॒। जि॒ह्वा। घृ॒तम्। उत्। च॒र॒ण्य॒त्। स्वाहा॑ ॥२४॥

Mantra without Swara
अग्नेरनीकमपऽआ विवेशापान्नपात्प्रतिरक्षन्नसुर्यम् । दमेदमे समिधँ यक्ष्यग्ने प्रति ते जिह्वा घृतमुच्चरण्यत्स्वाहा ॥

अग्नेः। अनीकम्। अपः। आ। विवेश। अपाम्। नपात्। प्रतिरक्षन्निति प्रतिऽरक्षन्। असुर्य्यम्। दमेदम इति दमेऽदमे। समिधमिति सम्ऽइधम्। यक्षि। अग्ने। प्रति। ते। जिह्वा। घृतम्। उत्। चरण्यत्। स्वाहा॥२४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्नेः) पावकस्य (अनीकम्) सैन्यमिव ज्वालासमूहम् (अपः) जलानि (आ)(विवेश)(अपाम्)आप्नुवन्ति याभिस्तासामुदकानाम्(नपात्) नाधःपतनशीलः (प्रति)(रक्षन्) पालयन् (असुर्य्यम्) असुरेषु=मेघेषु प्राणक्रीडासधनेषु भवं द्रव्यम् (दमेदमे) दाम्यन्ति जना यस्मिन् तस्मिन् गृहे गृहे । दम इति गृहनामसु पठितम् ॥ निघं० ३ । ४ ॥वीप्सया द्वित्वम्(समिधम्) समिध्यते=प्रकाश्यतेऽर्थ- तत्त्वमनया क्रियया ताम् (यक्षि) यजसि=संगच्छसे । अत्र बहुलं छन्दसि ॥ अ० २ । २ । ७३ ॥ इति शपो लुक्(अग्ने) विज्ञानयुक्त ! (प्रति)(ते) तव (जिह्वा) रसेन्द्रियम् (घृतम्) आज्यम् (उत्)(चरण्यत्)चरणमिवाचरेत् । वा छन्दसि ॥ अ० १ । ४ । ९।भा॰ ॥ इत्यत्राल्लोप ईत्वाऽभावश्च(स्वाहा) सत्यया क्रियया ॥ अयं मन्त्र: शत० ४ । ४ । ५ । १२ व्याख्यातः ॥ २४ ॥
Essence
अग्निजले सर्वेषां सांसारिकपदार्थानां हेतू स्तः, अतो गृहस्थो विशेषतोऽनयोर्गुणान् ज्ञात्वा,
[ते जिह्वा घृतमुत स्वाहोच्चरण्यत्]
गृहस्य सर्वाणिकार्य्याणि सत्यव्यवहारेण कुर्यात् ॥८। २४ ॥
Subject
अथोभयेषां गृहस्थानामुपदेशमाह॥
Meaning of Anvay
हे [अग्ने] विज्ञानयुक्त गृहस्थ ! त्वमग्नेः पावकस्य अनीकं सैन्यमिव ज्वालासमूहम् अपः जलानि च आविवेश ।
अपाम् प्राप्नुवन्ति याभिस्तासाम्=उदकानां नपात् नाध:पतनशीलः त्वमसुर्यम् असुरेषु=मेधेषु प्राणक्रीडासधनेषु भव द्रव्यं प्रतिरक्षन् पालयन् दमे दमे दामयन्ति जना यस्मिन् तस्मिन् गृहे गृहे समिधं समिध्यते=प्रकाशतेऽर्थतत्त्वमनया क्रियया तां यक्षि यजसि=सङ्गच्छसे ।
ते तव जिह्वा रसनेन्द्रियंघृतम् आज्यम् उत स्वाहा सत्यया क्रियया उत्-चरण्यत् चरणमिवाचरेत् ॥ ८ । २४॥
[हे [अग्ने] गृहस्थ ! त्वमग्नेरनीकमयश्चाविवेश, अपान्नपात्त्वमसुर्यं प्रतिरक्षन् दमे दमे समिधं यक्षि]
Special
अत्रिः। गृहपति:=गृहस्थः ॥ आर्षी त्रिष्टुप् । धैवतः ।