Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 23

63 Mantra
8/23
Devata- गृहपतयो देवताः Rishi- अत्रिर्ऋषिः । ऊरुमित्यस्य शुनः शेप ऋषिः Chhand- याजुषी उष्णिक्,निचृत् आर्षी त्रिष्टुप्,आसुरी गायत्री Swara- ऋषभः, षड्जः
Mantra with Swara
माहि॑र्भू॒र्मा पृदा॑कुः। उ॒रुꣳ हि राजा॒ व॑रुणश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वाऽउ॑। अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित्। नमो॒ वरु॑णाया॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाशः॑॥२३॥

मा। अहिः॑। भूः॒। मा। पृदा॑कुः। उ॒रुम्। हि। राजा॑। वरु॑णः। च॒कार॑। सूर्य्या॑य। पन्था॑म्। अन्वे॑त॒वा इत्युनु॑ऽएत॒वै। ऊँऽइत्यूँ॑। अ॒पदे॑। पादा॑। प्रति॑धातव॒ इति॒ प्रति॑ऽधातवे। अ॒कः॒। उ॒त। अपव॒क्तेत्य॑पऽवक्ता। हृ॒द॒या॒विधः॑। हृ॒द॒य॒विध॒ इति॑ हृदय॒ऽविधः॑। चि॒त्। नमः॑। वरु॑णाय। अ॒भिष्ठि॑तः। अ॒भिस्थि॑त॒ इत्य॒भिऽस्थि॑तः। वरु॑णस्य। पाशः॑ ॥२३॥

Mantra without Swara
माहिर्भूर्मा पृदाकुः । उरुँ हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा ऽउ । अपदे पादा प्रतिधातवेकरुतापवक्ता हृदयाविधश्चित् । नमो वरुणायाभिष्ठितो वरुणस्य पाशः ॥

मा। अहिः। भूः। मा। पृदाकुः। उरुम्। हि। राजा। वरुणः। चकार। सूर्य्याय। पन्थाम्। अन्वेतवा इत्युनुऽएतवै। ऊँऽइत्यूँ। अपदे। पादा। प्रतिधातव इति प्रतिऽधातवे। अकः। उत। अपवक्तेत्यपऽवक्ता। हृदयाविधः। हृदयविध इति हृदयऽविधः। चित्। नमः। वरुणाय। अभिष्ठितः। अभिस्थित इत्यभिऽस्थितः। वरुणस्य। पाशः॥२३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मा) निषेधे (अहिः) सर्प्पवत् क्रुद्धो विषधरः (भूः) भवे: (मा)(पृदाकुः) कुत्सितवाक् (उरुम्) बहुगुणान्वितं न्यायम् (हि) खलु (राजा) प्रशस्तगुणस्वभावैः प्रकाशमानः (वरुणः) वर: (चकार) कुर्य्याः। अत्र लिङर्थे लिट्(सूर्य्याय) चराचरात्मेश्वरप्रकाशाय (पन्थाम्) न्यायमार्गम् (अन्वेतवै) अनुक्रमेण गन्तुम् (उ) वितर्के(अपदे) चौरादिनिष्पादितेऽप्रसिद्धै व्यवहारे (पादा) चरणौ । अत्राकारादेशः(प्रतिधातवे) प्रतिधर्त्तुम् (अकः) कुरु (उत) अपि (अपवक्ता) मिथ्यावादी (हृदयाविधिः) यो हृदयमाविध्यति सः (चित्) इव (नमः) वज्रम् (वरुणाय) प्रशस्तैश्वर्या य(अभिष्ठितः) अभितः स्थितः जाज्वल्यमान: (वरुणस्य) वीरगुणोपेतस्य (पाशः) बन्धनम् ॥ अयं मन्त्रः शत० ४।४।४।३--११ व्याख्यातः ॥ २३ ॥
Essence
प्रजापुरुषाणां योग्यतास्तियो हि विद्वान्, जितेन्द्रियो, धार्मिकः, पिता पुत्रानिवप्रजापालने तत्पर:, सर्वेभ्यः सुखकारी भवेत् तं सभापतिं कुर्वीरन्,
[उत-अपवक्ता हृदयाविधश्चिदिव मा पृदाकुर्माहिर्भूः]
राजा, वा प्रजापुरुषः कदापि दुष्टकर्म्मकारी न भवेत्, कथंचिद्यति स्यात् तर्हि प्रजा यथापराधं राजानं दण्डयेत् राजा च प्रजापुरुषं, कदाप्यपरोधिनं दण्डेन विना न त्यजेत्, अनपराधिनं च वृथा न पीडयेत्।
[सूर्याय पन्थां हि चकार]
एवं--सर्वे न्यायाचरणतत्परा भूत्वा प्रयतेरन्, यतोऽधिका मित्रोदासीनशत्रवो न स्युः, पुनर्विद्याधर्म्ममार्गान् शुद्धान् प्रचार्य्य सर्वे परमात्मभक्तिपरायणा भूत्वा सदा सुखिनः स्युः ॥८ । २३॥
Subject
अथ राजोपदेशमाह ॥
Meaning of Anvay
हे राजन् सभेश्वर ! त्वं [वरुणः] वरः [राजा] प्रशस्तगुणस्वभावैः प्रकाशमान: वरुणाय प्रशस्तैश्वर्याय उरुंबहुगुणान्वितंन्यायं कुर्वन्नन्वेतवै अनुक्रमेण गन्तुम् अपदे चौरादिनिष्पादितेऽप्रसिद्धे व्यवहारे पादा चरणौ प्रतिधातवे प्रतिधर्त्तुम् अकः कुरु ।
सूर्य्याय चराचरात्मेश्वरप्रकाशाय पन्थां न्यायमार्गं [हि] खलु चकार कुर्य्याः ।
उत अपि--अपवक्ता मिथ्यावादी हृदयाविधः यो हृदयमाविध्यति सः चित्=इवमा पृदाकुः कुत्सितवाक्मा अहि: सर्प्पवत् क्रुद्धो विषधरः भूः भवेः ।
यथा वरुणस्य वीरगुणोपेतस्य तवाभिष्ठितः अभितः स्थितो जाज्वल्यमानः नमः वज्रंपाशः बन्धनं च प्रकाशेत तथा सततं प्रयतस्व ॥ ८ । २३॥
[हे राजन् सभेश्वर ! त्वं......न्यायं कुर्वन्नन्वेतवै अपदे पादा प्रतिधातवेऽकः, सूर्याय पन्थां [हि] चकार]
Special
अत्रिः । गृहपतय:=गृहस्थाः । आद्यस्य याजुष्युष्णिक्। ऋषभः । उरुमित्यस्य शुनःशेप । भुरिगार्षी त्रिष्टुप् । धैवतः । नम इत्यस्यासुरी गायत्री। षड्ज: ॥