Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 21

63 Mantra
8/21
Devata- गृहपतयो देवताः Rishi- अत्रिर्ऋषिः Chhand- स्वराट आर्षी उष्णिक्, Swara- ऋषभः
Mantra with Swara
देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त। म॒न॑सस्पतऽइ॒मं दे॑व य॒ज्ञꣳ स्वाहा॒ वाते॑ धाः॥२१॥

देवाः॑। गा॒तु॒वि॒द॒ इति॑ गातुऽविदः। गा॒तुम्। वि॒त्त्वा। गा॒तुम्। इ॒त॒। मन॑सः। प॒ते॒। इ॒मम्। दे॒व॒। य॒ज्ञम्। स्वाहा॑। वाते॑। धाः॒ ॥२१॥

Mantra without Swara
देवा गातुविदो गातुँ वित्त्वा गातुमित । मनसस्पत इमन्देव यज्ञँ स्वाहा वाते धाः ॥

देवाः। गातुविद इति गातुऽविदः। गातुम्। वित्त्वा। गातुम्। इत। मनसः। पते। इमम्। देव। यज्ञम्। स्वाहा। वाते। धाः॥२१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवाः) सत्यासत्यस्तावका गृहस्थाः (गातुविदः) स्वगुणकर्मस्वभावेन गातुं=पृथ्वीं विदन्तः । गातुरिति पृथ्वीनामसु पठितम् ॥ निघं० १ । १॥(गातुम्) भूगर्भ विद्यान्वितं भूगोलम्(वित्त्वा) विज्ञाय (गातुम्) पृथिवीराज्यादिनिष्पन्नमुपकारम्(इत्) प्राप्नुत (मनसस्पते) निगृहीतमनाः (इमम्) प्राप्तम् (देव) दिव्यविद्याव्युत्पन्न (यज्ञम्)सर्वसुखावहंगृहाश्रमम् (स्वाहा) धर्म्मया क्रियया (वाते) विज्ञातव्ये व्यवहारे। वात इति पदनामसु पठितम्॥ निघं० ५ । ४ ॥(धा)धेहि। अत्राडभावः ॥ अयं मन्त्रः शत० ४ । ४ । ४ । १३ व्याख्यातः ॥ २१ ॥
Essence
गृहस्थानां योग्यतास्ति अतिप्रयत्नेन भूगर्भादिविद्याः संप्राप्य जितेन्द्रियाः परोपकारिणो भूत्वा सद्धर्मेण गृहाश्रमव्यवहारानुन्नीय सर्वान् प्राणिनः सुखयेयुः ॥८ । २१॥
Subject
पुनर्गृहस्थकर्म्मविधिमाह ॥
Meaning of Anvay
हे गातुविदःस्वगुणकर्मस्वभावेन गातुं=पृथ्वीं विदन्तःदेवाः! सत्यासत्यस्तावकागृहस्था: यूयं गातुं भूगर्भविद्यान्वितं भूगोलं वित्त्वा विज्ञाय गातुं¬¬¬¬¬¬पृथिवीराज्यादिनिष्पन्नमुपकारम् इत प्राप्नुत ।
हे मनसस्पते निगृहीतमना: देव ! दिव्यविद्या व्युत्पन्न प्रतिगृहस्थस्त्वंस्वाहा धर्म्मया क्रियया इमं प्राप्तं यज्ञं सर्वसुखावहं गृहाश्रमं वाते विज्ञातव्ये व्यवहारे धा: धेहि ॥ ८ । २१॥
[हे गातुविदो देवाः ! यूयं गातुं वित्त्वा गातुमित, हे मनसस्ते देव ! प्रतिगृहस्थस्त्वं स्वाहमें यज्ञं वाते धा:]
Meaning of Essence
मनसस्पते=जितेन्द्रिय ॥
Special
अत्रिः। गृहपतय:=गृहस्थाः । स्वराडार्ष्युष्णिक्। ऋषभः ॥