Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 20

63 Mantra
8/20
Devata- गृहपतयो देवताः Rishi- अत्रिर्ऋषिः Chhand- स्वराट आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
व॒यꣳ हि त्वा॑ प्रय॒ति य॒ज्ञेऽअ॒स्मिन्नग्ने॒ होता॑र॒मवृ॑णीमही॒ह। ऋध॑गया॒ऽऋध॑गु॒ताश॑मिष्ठाः प्रजा॒नन् य॒ज्ञमुप॑याहि वि॒द्वान्त्स्वाहा॑॥२०॥

व॒यम्। हि। त्वा॒। प्र॒य॒तीति॑ प्रऽय॒ति। य॒ज्ञे। अ॒स्मिन्। अग्ने॑। होता॑रम्। अवृ॑णीमहि। इ॒ह। ऋध॑क्। अ॒याः॒। ऋध॑क्। उ॒त। अ॒श॒मि॒ष्ठाः॒। प्र॒जा॒नन्निति॑ प्रऽजा॒नन्। य॒ज्ञम्। उप॑। या॒हि॒। वि॒द्वान्। स्वाहा॑ ॥२०॥

Mantra without Swara
वयँ हि त्वा प्रयति यज्ञे अस्मिन्नग्ने होतारमवृणीमहीह ऋधगया ऋधगुताशमिष्ठाः प्रजानन्यज्ञमुप याहि विद्वान्त्स्वाहा ॥

वयम्। हि। त्वा। प्रयतीति प्रऽयति। यज्ञे। अस्मिन्। अग्ने। होतारम्। अवृणीमहि। इह। ऋधक्। अयाः। ऋधक्। उत। अशमिष्ठाः। प्रजानन्निति प्रऽजानन्। यज्ञम्। उप। याहि। विद्वान्। स्वाहा॥२०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वयम्) गृहाश्रमस्था: (हि) यतः (त्वा) विद्वांसम् (प्रयति) प्रयत्यते जनैर्यस्तस्मिन्। कृतो बहुलम् ॥ अ० ३ । ३ । १३ वा० ॥ इति कर्म्मणि क्विप्(यज्ञे) सम्यग्ज्ञातव्ये (अस्मिन्)(अग्ने) विज्ञापक विद्वन् ! (होतारम्) यज्ञनिष्पादकम् (अवृणीमहि) स्वीकुर्वीमहि । अत्र लिङर्थे लङ्(इह)अस्मिन् संसारे (ऋधक्) समृद्धिवर्द्धके (अयाः) यजे:=सङ्गच्छस्व। अत्र लिङर्थे लङ्(ऋधक्) समृद्धिर्यथास्यात्तथा (उत) अपि (अशमिष्ठाः) शमादिगुणान् गृहाण(प्रजानन्)(यज्ञम्)(उप)(याहि) उपगतं प्राप्नुहि (विद्वान) वेत्ति यज्ञविद्याक्रियाम् (स्वाहा) शास्त्रोक्तया क्रियया ॥ अयं मन्त्रः शत० ४।४ । ४ । १२ व्याख्यातः ॥२०॥
Essence
सर्वेषां व्यवहारतां योग्यतास्ति--यो मनुष्यो यत्र कर्मणि विचक्षणः स तस्मिन्नेव कार्येऽभिप्रयोज्यः ॥ ८ । २० ॥
Subject
अथ व्यवहारिणे गृहस्थायोपदिशति ॥
Meaning of Anvay
हे अग्ने ! विज्ञापक विद्वन् वयं गृहाश्रमस्थाः इह अस्मिन् संसारे [अस्मिन्] प्रयति प्रयत्यते जनैर्यस्तस्मिन्यज्ञे सम्यग्ज्ञातव्ये त्वा विद्वांसं [हि] यतः होतारं यज्ञनिष्पादकंअवृणीमहि स्वीकुर्वीमहि, विद्वान्वेत्ति यज्ञविद्याक्रियां प्रजानँस्त्वमस्मानयाः यजे:=संगच्छस्व, ऋधक् समृद्धिवर्द्धकं यज्ञं स्वाहा शास्त्रोक्तया क्रियया उपयाहि उपगतं प्राप्नुहि, उत=अपि याहि, ऋधक् समृद्धिर्यथा स्यात्तथा अशमिष्ठाः शमादिगुणान् गृहाण ॥ ८ । २० ॥
[हे अग्ने ! वयमिह [अस्मिन् ] प्रयति यज्ञेत्वा [हि] होतारमवृणीमहि]
Special
अत्रिः। गृहपतय:=गृहस्थाः ॥ स्वराडार्षी त्रिष्टुप् । धैवतः ॥