Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 19

63 Mantra
8/19
Devata- विश्वेदेवा गृहपतयो देवताः Rishi- अत्रिर्ऋषिः Chhand- भूरिक् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
याँ२ऽआव॑हऽउश॒तो दे॑व दे॒वाँस्तान् प्रेर॑य॒ स्वेऽअ॑ग्ने स॒धस्थे॑। ज॒क्षि॒वासः॑ पपि॒वास॑श्च॒ विश्वेऽसुं॑ घ॒र्मꣳ स्व॒राति॑ष्ठ॒तानु॒ स्वाहा॑॥१९॥

यान्। आ। अव॑हः। उ॒श॒तः। दे॒व॒। दे॒वान्। तान्। प्र। ई॒र॒य॒। स्वे। अ॒ग्ने॒। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। ज॒क्षि॒वास॒ इति॑ जक्षि॒ऽवासः॑। प॒पि॒वास॒ इति॑ पपि॒ऽवासः॑। च॒। विश्वे॑। असु॑म्। घ॒र्म्मम्। स्वः॑। आ। ति॒ष्ठ॒त॒। अनु॑। स्वाहा॑ ॥१९॥

Mantra without Swara
याँ ऽआवह उशतो देव देवाँस्तान्प्रेरय स्वे अग्ने सधस्थे । जक्षिवाँसः पपिवाँसश्च विश्वे सुङ्धर्मँ स्वरातिष्ठतानु स्वाहा ॥

यान्। आ। अवहः। उशतः। देव। देवान्। तान्। प्र। ईरय। स्वे। अग्ने। सधस्थ इति सधऽस्थे। जक्षिवास इति जक्षिऽवासः। पपिवास इति पपिऽवासः। च। विश्वे। असुम्। घर्म्मम्। स्वः। आ। तिष्ठत। अनु। स्वाहा॥१९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यान्) वक्ष्यमाणान् (आ)(अवहः) प्राप्नुयाः (उशतः) विद्यादिसद्गुणन् कामयमानान् (देव) दिव्यशीलयुक्ताध्यापक ! (देवान) विदुषः (तान्)(प्र)(ईरय) नियोजय (स्वे) स्वकीये (अग्ने) विज्ञानाढ्य विद्वन्! (सधस्थे) सहस्थाने (जक्षिवांसः) अन्न जग्धवन्तः (पपिवांसः) पीतवन्तः (च) अन्यसुखसेवनसमुच्चये (विश्वे) सर्वे (असुम्) प्रज्ञाम् । असुरिति प्रज्ञानामसु पठितन् ॥ निघं० ३ ।९॥ अस्यति दोषाननेन सोऽसुः=प्रज्ञा ताम् (धर्म्मम्) अन्नं यज्ञं वा । धर्म्म इत्यन्ननामसु पठितम् ॥ निघं० १ । ९ ॥ यज्ञानामसु च ॥ निघं० ३ । १७ ॥(स्वः) सुखम् (आ) सर्वतः (तिष्ठत)(अनु)(स्वाहा) सत्यया वाचा ॥ अयं मन्त्र: शत० ४ । ४ । ४ । ११ व्याख्यातः ॥ १९ ॥
Essence
इहाध्यापकेनोपदेष्ट्रा ये जना विद्यां शिक्षां प्रापिताः सत्यधर्म्म कर्माचारिणो भवेयुस्ते सुखभाजिनः स्युर्नेतरे ॥ ८। १९॥
Subject
पुनर्गृहकृत्यमाह ॥
Meaning of Anvay
हे देव ! दिव्यशीलयुक्ताध्यापक अग्ने ! विज्ञानाढ्य विद्वन् ! त्वं स्वे स्वकीये सधस्थे सहस्थाने यान् वक्ष्यमाणान् उशतः विद्यादिसद्गुणान् कामयमानान् देवान् विदुषः आ-अवहः प्राप्नुयाः तान् धर्म्मे प्रेरय नियोजय ।
हे गृहस्थाः ! जक्षिवांसःअन्नं जग्धवन्तः पपिवांस: पीतवन्तः विश्वे सर्वे यूयं स्वाहा सत्यया वाचा धर्म्मम् अन्नं यज्ञं वा असुं प्रज्ञाय अस्यति दोषाननेन सोऽसु:=प्रज्ञा ताम्, स्वः सुखं चानु-आ-तिष्ठत्सर्वतस्तिष्ठत ॥ ८ । १९॥
[हे देवाग्ने ! त्वं.....देवानावहस्तान् धर्मे प्रेत्य, हे गृहस्थाः !.....यूयं स्वाहा धर्ममसुंस्वश्चान्त्वातिष्ठ]
Special
अत्रिः । विश्वेदेवा गृहपतय:=विद्वांसो गृहस्थाः ॥ भुरिगार्षी त्रिष्टुप् । धैवतः ॥