Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 18

63 Mantra
8/18
Devata- गृहपतयो देवताः Rishi- अत्रिर्ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
सु॒गा वो॑ देवाः॒ सद॑नाऽअकर्म॒ यऽआ॑ज॒ग्मेदꣳ सव॑नं जुषा॒णाः। भ॑रमाणा॒ वह॑माना ह॒वीष्य॒स्मे ध॑त्त वसवो॒ वसू॑नि॒ स्वाहा॑॥१८॥

सु॒गेति॑ सु॒ऽगा। वः॒। दे॒वाः॒। सद॑ना। अ॒क॒र्म॒। ये। आ॒ज॒ग्मेत्या॑ऽज॒ग्म। इ॒दम्। सव॑नम्। जु॒षा॒णाः। भर॑माणाः। वह॑मानाः। ह॒वीꣳषि॑। अ॒स्मेऽइत्य॒स्मे। ध॒त्त॒। व॒स॒वः॒। वसू॑नि। स्वाहा॑ ॥१८॥

Mantra without Swara
सुगा वो देवाः सदना अकर्म य आजग्मेदँ सवनञ्जुषाणाः । भरमाणा वहमाना हवीँष्यस्मे धत्त वसवो वसूनि स्वाहा ॥

सुगेति सुऽगा। वः। देवाः। सदना। अकर्म। ये। आजग्मेत्याऽजग्म। इदम्। सवनम्। जुषाणाः। भरमाणाः। वहमानाः। हवीꣳषि। अस्मेऽइत्यस्मे। धत्त। वसवः। वसूनि। स्वाहा॥१८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सुगा) सुष्ठु गन्तुम्=प्राप्तुं योग्यानि । अत्र शेश्छन्दसि बहुलम् ॥ अ० ६ । १ । ७० ॥ इति लुक्(वः) युष्माकम् (देवाः) व्यवहारमाणाः (सदना) सीदन्ति=गच्छन्ति पुरुषार्थेन येषु तानि गृहाणि(अकर्म्म)अकार्ष्म कुर्याम । अत्र डकृञ् धातोर्लुंङि मन्त्रे घस० ॥ अ० २ । ४ । ८० ॥ इत्यादिना च्लेर्लुक्(ये)(आजग्म) प्राप्नुवन्तु (इदम्) प्रत्यक्षम् (सवनम्) ऐश्वर्यम् (जुषाणाः) सेवमाना: (भरमाणाः) धरमाणा: (वहमानाः) प्राप्नुवन्तः (हवींषि) दातुमादातुमर्हाणि(अस्मे)अस्मभ्यम् । अत्र भ्यसः स्थाने सुपां सुलुक् ॥ अ० ७ ।१ । ३९ ॥ इति शे इत्यादेश:(धत्त) धरत (वसवः) ये वसन्ति सद्गुणकर्मसु ते (वसूनि)धनानि । वस्विति धननामसु पठितम् । निघं० २। १० ॥(स्वाहा) श्रेष्ठक्रियया। अयं मन्त्रः शत० ४।४।४। व्याख्यातः ॥ १८ ॥यास्कमुनित्राह--सुगा वो देवाः सदनमकर्म्म य आजग्गुः सवनमिदं जुषाणाः जक्षिवांसः पपिवांसश्च विश्वेऽस्मे धत्त वसवो वसूनि स्वाहा मनानि वो देवाः सुपथान्यकर्म्म य आगच्छत सवनानीमानि जुषाणाः स्वादितवन्तः पीतवन्तश्च सर्वेऽस्मासु धत्त वसवो वसूनि ॥ निरु० १२ । ४२ । १८ ॥
Essence
यथा पितृपतिश्वशुरश्वश्रूमित्रस्वामिन: पदार्थैःपुत्रपुत्रीस्त्रीसखिभृत्यानां पालनं कुर्वन्तः सुखं ददति तथैव पुत्रादयोऽप्येतेषां सेवनं कुर्य्युः ॥ ८ । १८ ॥
Subject
पुनर्गृहकृत्यमाह ॥
Meaning of Anvay
हे वसवः ! ये वसन्ति सद्गुणकर्मसु ते देवाः ! व्यवहारमाणाः, ये वयं स्वाहा श्रेष्ठक्रियाया इदं प्रत्यक्षंसवनम् ऐश्वर्यंजुषाणा: सेवमाना: भरमाणा:धरमाणा: वहमानाः प्राप्नुवन्तः वः=युष्मभ्यं यानि सुगा सुष्ठु गन्तुं=प्राप्तुं योग्यानि सदना सीदन्ति=गच्छन्ति पुरुषार्थेन येषु तानि गृहाणि हवींषिदातुमादातुमर्हाणि वसूनि धनानि अकर्म्मअकार्ष्म, कुर्याम, आजग्म प्राप्नुवन्तु तेभ्योऽस्मे अस्मभ्यं तानि यूयमपि धत्त धरत ॥ ८॥ १८ ॥
[हे वसवः ! देवा ये वयं......इदं सवनं जुषाणा......सदना.......वसून्यकर्माजग्म तेभ्योऽस्मे तानि यूयमपिधत्त]
Meaning of Essence
देवाः=पितृपतिश्वशुरश्वश्रूमित्रस्वामिनः ॥
Special
अत्रिः। गृहपतय:=गृहस्थाः ॥ आर्षी त्रिष्टुप् । धैवतः ॥