Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 16

63 Mantra
8/16
Devata- गृहपतिर्देवता Rishi- अत्रिर्ऋषिः Chhand- विराट आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सꣳशि॒वेन॑। त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम्॥१६॥

सम्। वर्च॑सा। पय॑सा। सम्। त॒नूभिः॑। अग॑न्महि। मन॑सा। सम्। शि॒वेन॑। त्वष्टा॑। सु॒दत्र॒ इति॑ सु॒ऽदत्रः॑। वि। द॒धा॒तु॒। रायः॑। अनु॑। मा॒र्ष्टु॒। त॒न्वः᳖। यत्। विलि॑ष्ट॒मिति॒ विऽलि॑ष्टम् ॥१६॥

Mantra without Swara
सँवर्चसा पयसा सन्तनूभिरगन्महि मनसा सँ शिवेन । त्वष्टा सुदत्रो विदधातु रायोनु मार्ष्टु तन्वो यद्विलिष्टम् ॥

सम्। वर्चसा। पयसा। सम्। तनूभिः। अगन्महि। मनसा। सम्। शिवेन। त्वष्टा। सुदत्र इति सुऽदत्रः। वि। दधातु। रायः। अनु। मार्ष्टु। तन्वः। यत्। विलिष्टमिति विऽलिष्टम्॥१६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सम्) एकीभावे (वर्चसा) तेजसा (पयसा) रात्र्या । पय इति रात्रिनामसु पठितम् ॥ निघं० १ । ७ ॥(सम्)(तनुभिः) बलविशिष्टशरीरैर्विद्वद्भिः । (अगन्महि) प्राप्नुयाम (मनसा) मननेन (सम्)(शिवेन) सुखप्रदेन(त्वष्टा) अविद्याविच्छेदक: (सुदत्रः) सुष्ठुज्ञानकर्ता (विदधातु)(रायः) विद्यादिधनानि (अनु)(मार्ष्टु)(तन्वः) शरीरस्य (यत्)(विलिष्टम्) रोमादिमललेशम् ॥ अयं मन्त्रः शतः ४ । ४ । ४ । ८ व्याख्यातः ॥ १६ ॥
Essence
मनुष्यैरहर्निशमाप्तसंगेन धर्मार्थकाममोक्षाः सम्यक् साधनीयाः ॥ ८ । १६ ॥
Subject
पुनस्तदेवाह ॥
Meaning of Anvay
हे आप्ता विद्वांस:! युष्माकं सुमतौ प्रवृत्ता वयं--यो युष्माकं मध्ये श्रेष्ठःसुदत्रः सुष्ठुज्ञानकर्ता त्वष्टाअविद्याविच्छेदक: विद्वानस्मभ्यं संवर्चसा तेजसा पयसा रात्र्या संतनूभि: बलविशिष्टशरीरैर्विद्वद्भिःसं शिवेन सुखप्रदेनमनसा मननेन यान् राय: विद्यादिधनानि विदधातु, यत्तन्वः शरीरस्य विलिष्टं रोमादिमललेशम् अनुमार्ष्टु, तैस्ताँस्तच्चागन्महि प्राप्नुयाम ॥ ८ । १६ ॥
[हे आप्ता विद्वांसः ! युष्माकं सुमतौ प्रवृत्ता वयं--यो युष्माकं मध्ये विद्वानस्मभ्यं संवर्चसा पयसा...... यान् रायो विदधातु यत्तन्वो विलिष्टमनुमार्ष्टु, तैस्ताँस्तच्चागन्महि]
Meaning of Essence
संवर्चसा=अह्ना। रायः=धर्मार्थकाममोक्षान् ॥
Special
संवर्चसा इत्यस्यात्रिः । गृहपति:=गृहस्थः ॥ विराडार्षी त्रिष्टुप् । धैवतः ॥