Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 14

63 Mantra
8/14
Devata- गृहपतयो देवताः Rishi- भरद्वाज ऋषिः Chhand- विराट आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सꣳशि॒वेन॑। त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम्॥१४॥

सम्। वर्च॑सा पय॑सा। सम्। त॒नूभिः॑। अग॑न्महि। मन॑सा। सम्। शि॒वेन॑। त्वष्टा॑। सु॒दत्र॒ इति॑ सु॒ऽदत्रः॑। वि। द॒धा॒तु॒। रायः॑। अनु॑। मा॒र्ष्टु॒। त॒न्वः᳖। यत्। विलि॑ष्ट॒मिति॒ विऽलि॑ष्टम् ॥१४॥

Mantra without Swara
सँवर्चसा पयसा सन्तनूभिरगन्महि मनसा सँ शिवेन । त्वष्टा सुदत्रो वि दधातु रायो नु मार्ष्टु तन्वो यद्विलिष्टम् ॥

सम्। वर्चसा पयसा। सम्। तनूभिः। अगन्महि। मनसा। सम्। शिवेन। त्वष्टा। सुदत्र इति सुऽदत्रः। वि। दधातु। रायः। अनु। मार्ष्टु। तन्वः। यत्। विलिष्टमिति विऽलिष्टम्॥१४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सम्) क्रियायोगे (वर्चसा) अध्ययनाध्यापनप्रकाशेन (पयसा) जलेनान्नेन वा । पय इत्युदकनामसु पठितम् ॥ निघं० १ । १२॥अन्ननामसु च ॥ निघं० २ । ९ ॥(सम्)(तनूभिः) शरीरैः (अगन्महि) प्राप्नुयाम। अत्र गम्लृधातोर्लिङर्थे लुङ्। मन्त्रे घसह्वर० ॥ अ० २ । ४ । ८० ॥ इत्यादिना च्लेर्लुक् । म्वोश्च ॥ अ० ८ । २ । ६५ ॥ इति मस्य नः(मनसा) विज्ञानवतान्तःकरणेन (सम्)(शिवेन) कल्याणकारकेण(त्वष्टा) सर्वव्यवहाराणां तनुकर्त्ता (सुदत्रः) सुदानः (वि)(दधातु) करोतु (रायः) धनानि (अनु)(मार्ष्टु)पुनः पुनः शुन्धतु (तन्वः) शरीरस्य (यत्)(विलिष्टम्) विशेषेण न्यूनमङ्गम् । अयं मन्त्रः शत०। ४ । ४ । ४ । १४--१५ व्याख्यातः ॥ १४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः ॥ मनुष्याणां योग्यतास्तिपुरुषार्थेन विद्यां सम्पाद्य, विधिवदन्नोदकं संसेव्य, शरीराण्यरोगीकृत्य, मनो धर्मे निवेश्य, सदा सुखोन्नतिं कृत्वा, याकाचिन्न्यूनतास्ति तां सम्पूरयन्तु ।
यथा कश्चित् सुहृत् सख्युः सुखाय वर्त्तेत तथा तत्सुखाय स्वयमपि वर्त्तेत ॥ ८ । १४॥
Subject
पुनस्तदेवाह ॥
Meaning of Anvay
हे अध्यापक ! त्वष्टा सर्वव्यवहाराणां तनुकर्ता सुदत्रः सुदानः विद्वान् भवान् संशिवेन कल्याणकारकेणमनसा विज्ञानवताऽन्तःकरणेन संवर्चसा अध्ययनाध्यापनप्रकाशेन पयसा जलेनान्नेन वा यत्तन्वः शरीरस्य विलिष्टं विशेषेण न्यूनमङ्गम् अनुमार्ष्टु पुनः पुनः शुन्धतु । रायः धनानि विदधातु करोतु तत्तानि च वयन्तनूभिः शरीरैः सम-अगन्महि प्राप्नुयाम ॥८ । १४॥
[हे अध्यापक! त्वष्टा सुदत्रो विद्वान् भवान् संशिवेन मनसा, संवर्चसा पयसा यत्तन्वो विलिष्टमनुमार्ष्टु]
Special
भरद्वाजः । गृहपतय:=गृहस्थाः ॥ विराडार्षी त्रिष्टुप् । धैवतः ॥