Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 1

63 Mantra
8/1
Devata- बृहस्पतिस्सोमो देवता Rishi- आङ्गिरस ऋषिः Chhand- आर्ची पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
उ॒प॒या॒मगृ॑हीतोऽस्यादि॒त्येभ्य॑स्त्वा। विष्ण॑ऽउरुगायै॒ष ते॒ सोम॒स्तꣳ र॑क्षस्व॒ मा त्वा॑ दभन्॥१॥

उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। आ॒दि॒त्येभ्यः॑। त्वा॒। विष्णो॒ऽइति॒ विष्णो॒। उ॒रु॒गा॒येत्यु॑रुऽगाय। ए॒षः। ते॒। सोमः॑। तम्। र॒क्ष॒स्व॒। मा। त्वा॒। द॒भ॒न् ॥१॥

Mantra without Swara
उपयामगृहीतोस्यादित्येभ्यस्त्वा । विष्णऽउरुगायैष ते सोमस्तँ रक्षस्व मा त्वा दभन् ॥

उपयामगृहीत इत्युपयामऽगृहीतः। असि। आदित्येभ्यः। त्वा। विष्णोऽइति विष्णो। उरुगायेत्युरुऽगाय। एषः। ते। सोमः। तम्। रक्षस्व। मा। त्वा। दभन्॥१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उपयामगृहीतः) शास्त्रनियमोपनियमा गृहीता येन सः (असि)(आदित्येभ्यः) कृताष्टचत्वारिंशद्वर्षब्रह्मचर्य्यभ्यः पुंभ्यः (त्वा) त्वां सेविताष्टचत्वारिंशद्वर्षब्रह्मचर्यम् (विष्णो) सर्वशुभविद्या-गुणकर्मस्वभावव्याप्ताप्त ! (उरुगाय) उरुणि=बहूनि शास्त्राणि गायति=पठति तत्सम्बुद्धौ (एषः) प्रत्यक्षो गृहाश्रमः (ते) तव (सोमः) मृदुगुणवर्द्धकः (तम्)(रक्षस्व) मा (निषेध)(त्वा) त्वाम् (दभन्) दभ्नवन्तु=हिंसन्तु । अथ लोडर्थे लुङडभावश्च ॥ अयं मन्त्र: शत० ४।३।५।६-८ व्याख्यातः ॥ १॥
Essence
सर्वासांसेवितब्रह्मचर्याणां युवतीनां कन्यानामिदमवश्यमभीप्सितव्यम्--ता स्वस्वसदृशरूपगुणकर्मस्वभावविद्यावान् बलाधिकान् स्वाभीष्टान् हृद्यान् पतीन् स्वयंवरविधिनोरीकृत्य परिचरेयु: । एवं--ब्रह्मचारीभिरपि स्वतुल्ययुवत्यः स्त्रीत्वोङ्गीकर्त्तव्याः । एवं द्वाभ्यां सनातनो गृहस्थधर्मः पालनीय: ।
[हे उरुगाय ! त्वां कामबाणा मा दभन्=हिंसन्तु]
परस्परमत्यन्तं विषयभोगलोलुपवीर्यक्षयाः कदाचिन्न विधेयाः। किन्तु--सदार्तुगामिनौ सन्तौ दशसन्तानानुत्पाद्य तान् सुशिक्ष्यैश्वर्यमुन्नीय प्रीत्या रमेताम् ।
[हे विष्णो ! ते=तवैष सोमोऽस्ति, तं त्वं [रक्षस्व]=रक्ष]
यथेतरेतरस्मिन्नप्रसन्नता वियोगसिव्यभिचारादयो दोषा न भवेयुः, तथानुष्ठाय परस्परं सर्वथा सर्वदा रक्षा कार्या ॥ ८ ॥१॥
Subject
तस्य प्रथममन्त्रेण गृहस्थधर्माय ब्रह्मचारिण्या कन्यया कुमारो ब्रह्मचारी स्वीकरणीय इत्युपदिश्यते ॥
Meaning of Anvay
हे कुमारब्रह्मचारिन् ! सेवितचतुर्विंशतिवर्षब्रह्मचर्या ब्रह्मचारिण्यहमादित्येभ्यः कृताष्टचत्वारिंशद्वर्षब्रह्मचर्य्यभ्यः पुंभ्यः [त्वा]=त्वां सेविताष्टचत्वारिंशद्वर्षब्रह्मचर्यम् अङ्गीकरोमि, त्वमुपयामगृहीतः शास्त्रनियमोपनियमा गृहीता येन सः असि ।
हे विष्णो ! सर्वशुभविद्यागुणकर्मस्वभावव्याप्ताप्तते=तवैषः प्रत्यक्षो गृहाश्रमोसोमः मृदुगुणवर्द्धकः अस्ति तं त्वं [रक्षस्व]=रक्ष।
हे उरुगाय! उरुणि=बहूनि शास्त्राणि गायति=पठति तत्सम्बुद्धौ, त्वां कामबाणा मा दभन्=मा हिंसन्तु ॥ ८ । १ ॥
[हे कुमारब्रह्मचारिन् ! सेवितचतुर्विंशतिवर्षब्रह्मचर्या ब्रह्मचारिण्यहमादित्येभ्यः [त्वा]=त्वामङ्गीकरोमि, त्वमुपयामगृहीतोऽसि]
Special
आङ्गिरसः। बृहस्पतिस्सोमः=विद्वान् ब्रह्मचारी। आर्ची पंक्तिः । पञ्चमः ॥