Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 9

48 Mantra
7/9
Devata- मित्रावरुणौ देवते Rishi- गृत्समद ऋषिः Chhand- आर्षी गायत्री,आसुरी गायत्री Swara- षड्जः
Mantra with Swara
अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ऽऋतावृधा। ममेदि॒ह श्रु॑त॒ꣳ हव॑म्। उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाभ्यां त्वा॥९॥

अ॒यम्। वाम्। मि॒त्रा॒व॒रु॒णा॒। सु॒तः। सोमः॑। ऋ॒ता॒वृ॒धेत्यृ॑तऽवृधा। मम॑। इत्। इ॒ह। श्रु॒त॒म्। हव॑म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। मि॒त्रावरु॑णाभ्याम्। त्वा॒ ॥९॥

Mantra without Swara
अयँवाम्मित्रावरुणा सुतः सोमऽऋतावृधा । ममेदिह श्रुतँ हवम् । उपयामगृहीतोसि मित्रावरुणाभ्यां त्वा ॥

अयम्। वाम्। मित्रावरुणा। सुतः। सोमः। ऋतावृधेत्यृतऽवृधा। मम। इत्। इह। श्रुतम्। हवम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। मित्रावरुणाभ्याम्। त्वा॥९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अयम्) (वाम्) युवयोः (मित्रावरुणा) प्राणोदानाविव वर्त्तमानौ (सुतः) निष्पादितः (सोमः) योगैश्वर्य्यवृन्दः (ऋतावृधा) यौ ऋतं=विज्ञानं वर्द्धयतस्तौ (मम) योगविद्याप्रियस्य (इत्) इव (इह) अस्मिन् योगविद्याग्राहके व्यवहारे (श्रुतम्) शृणुतम् (हवम्) स्तुतिसमूहम् (उपयामगृहीतः) (असि) (मित्रावरुणाभ्याम्) (त्वा) त्वाम्॥ अयं मंत्रः शत० ४ । १ । ४ । ७ व्याख्यातः ॥ ९॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ मनुष्याणामुचितमेतद्--विद्यां गृहीत्वोपदेशं श्रुत्वा, यमनियमान् धृत्वा, योगाभ्यासेन सह वर्त्तितव्यम् ॥ ७। ९॥
Subject
पुनरध्यापकशिष्यकृत्यमाह॥
Meaning of Anvay
हे मित्रावरुणा प्राणोदानाविव वर्तमानौ ऋतावृधा यौ ऋतं=विज्ञानं वर्द्धयतस्तौअध्यापकाध्येतारौ! [वाम्]=युवयोरयं सोमः योगेश्वर्यवृन्दः सुतः निष्पादितःअस्ति, युवामिह मम हवं स्तुतिसमूहं श्रुतं शृणुतम्।
हे यजमान! यतस्त्वमुपयामगृहीत इत्=एव (इव) असि, अतोऽहं मित्रावरुणाभ्यां सह वर्त्तमानं त्वा=त्वां गृह्णामि॥ ७। ९॥
[हे.....ऋतावृधा अध्यापकाध्येतारौ......युवामिह मम हवं श्रुतं, हे यजमान!यतस्त्वमुपयामगृहीत इत्=एवासि, अतोऽहं मित्रावरुणाभ्यां सह वर्तमानं त्वा=त्वां गृह्णामि]
Meaning of Essence
ऋतावृधा=विद्याग्रहीतारौ । हवम्=उपदेशम्। उपयामगृहीतः=धृतयमनियमः। मित्रावरुणाभ्याम्= प्राणोदानाभ्याम्॥
Special
गृत्समदः।मित्रावरुणौ=अध्यापकाध्येतारौ। आर्षी गायत्री। उपयामगृहीतोसीत्यस्यासुरी गायत्री। षड्जः॥