Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 8

48 Mantra
7/8
Devata- इन्द्रवायू देवते Rishi- मधुच्छन्दा ऋषिः Chhand- आर्षी गायत्री,आर्षी स्वराट् गायत्री, Swara- षड्जः
Mantra with Swara
इन्द्र॑वायूऽइ॒मे सु॒ताऽउप॒ प्रयो॑भि॒राग॑तम्। इन्द॑वो वामु॒शन्ति॒ हि। उ॒प॒या॒मगृ॑हीतोऽसि वा॒यव॑ऽइन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनिः॑ स॒जोषो॑भ्यां त्वा॥८॥

इन्द्र॑वायू॒ इ॒तीन्द्र॑ऽवायू। इ॒मे। सु॒ताः। उप॒ प्रयो॑भि॒रिति॒ प्रयः॑ऽभिः। आ॑गत॒म्। इन्द॑वः। वा॒म्। उ॒शन्ति॑। हि। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। वा॒यवे॑। इ॒न्द्रवा॒युभ्या॒मिती॑न्द्रवा॒युऽभ्या॑म्। त्वा॒। ए॒षः। ते। योनिः॑। स॒जोषो॑भ्यामिति॑ स॒जोषः॑ऽभ्याम्। त्वा॒ ॥८॥

Mantra without Swara
इन्द्रवायू इमे सुताऽउप प्रयोभिरागतम् इन्दवो वामुशन्ति हि उपयामगृहीतो सि वायव इन्द्रवायुभ्यात्वैष ते योनिः सजोषेभ्यां त्वा ॥

इन्द्रवायू इतीन्द्रऽवायू। इमे। सुताः। उप प्रयोभिरिति प्रयःऽभिः। आगतम्। इन्दवः। वाम्। उशन्ति। हि। उपयामगृहीत इत्युपयामऽगृहीतः। असि। वायवे। इन्द्रवायुभ्यामितीन्द्रवायुऽभ्याम्। त्वा। एषः। ते। योनिः। सजोषोभ्यामिति सजोषःऽभ्याम्। त्वा॥८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इन्द्रवायू) प्राणसूर्य्यसदृशौ योगस्योपदेष्ट्रभ्यासिनौ (इमे) समक्षा: (सुताः) निष्पन्नाः पदार्था: (उप) समीपे (प्रयोभिः) कमनीयैर्लक्षणैः (आगतम्) आगच्छतम् । गम्लृ गतावित्यस्माद्। बहुलं छन्दसि॥ अ० २ । ४ । ७३ ॥ इति शपो लुकि सतिशित्वाभावाच्छस्याभावः। अनुदात्तोपदेश०।। अ० ६ । ४ । ३७।। इत्यादिना मलोपश्च (इन्दवः) सुखकारका जलादिपदार्थाः। इन्दुरित्युदकनामसु पठितम् ॥ निघं० १ । १२ ।। (वाम्) युवाम् (उशन्ति) कामयन्ते (हि) सादृश्ये (उपयामगृहीतः) योगस्य यमनियमाङ्गैः सह स्वीकृतः (असि) (वायवे) वायुवद्गत्यादिसिद्धये यद्वा वाति=प्रापयति योगबलेन व्यवहारानिति वायुर्योगविचक्षणस्तस्मै तादृशसम्पन्नाय (इन्द्रवायुभ्याम्) विद्युत्प्राणाभ्यामिव योगाकर्षणनिष्कर्षणाभ्याम् (त्वा) त्वाम् (एषः) योगः (ते) तव (योनिः) गृहम् योनिरिति गृहनामसु पठितम् ॥ निघं. ३ । ४ ॥ (सजोषोभ्याम्) यौ जोषसा= सेवनेन सह वर्तमानौ ताभ्याम् (त्वा) त्वाम् ॥ अयं मन्त्रः शत० ४ । १।३।१८ व्याख्यातः ॥ ८ ॥
Essence
त एव जना योगिनस्सिद्धाश्च भवितुं शक्नुवन्ति ये योगविद्याभ्यासं कृत्वेश्वरमारभ्य भूमिपर्यन्तान् पदार्थान् साक्षात्कर्तुं प्रयतन्ते,
[भो योगमभीप्सो! त्वमनेनाध्यापकेन वायवे उपयामगृहीतोऽसि]
यमादिसाधनान्विताश्च योगे रमन्ते,
[हे भगवन्! योगाध्यापक! .......इन्द्रवायुभ्यां जुष्टं त्वा=त्वां.......वश्मि]
ये चैतान् सेवन्ते तेऽप्येतत्सर्वं प्राप्नुवन्ति;नेतरे ॥ ७ । ८ ॥
Subject
पुनः स योगी कीदृशो भवतीत्युच्यते ॥
Meaning of Anvay
हे इन्द्रवायू ! प्राणसूर्यसदृशौ योगस्योपदेष्ट्रभ्यासिनौ ! हिसादृश्ये यत इमे समक्षा: सुता: निष्पन्नाः पदार्थाः इन्दवः सुखकारका जलादिपदार्थाः वां युवाम् उशन्ति कामयन्ते तस्माद्युवामेतैः प्रयोभिः कथनीयैर्लक्षणैःपदार्थैः सहैवोप+आगतम्=उपागच्छतम् समीप आगच्छतम्।
भो योगमभीप्सो ! त्वमनेनाध्यापकेन वायवे वायुवद्गत्यादिसिद्धये यद्वा वाति=प्रापयति योगबलेन व्यवहारानिति वायुः=योगविचक्षणस्तस्मै तादृशसम्पन्नाय उपयामगृहीतः योगस्य यमनियमाङ्गै: सह स्वीकृतः असि।
हे भगवन् ! योगाध्यापक एष योगस्ते=तव योनिः=सर्वदुःखनिवारकं गृहमिवास्ति। इन्द्रवायुभ्यां विद्युत्प्राणाभ्यामिव योगाकर्षणनिष्कर्षणाभ्यां। जुष्टं त्वा=त्वांतथा [हे] योगमभीप्सो! सजोषोभ्यां यौ जोषसा=सेवनेन सह वर्तमानौ ताभ्याम् उक्तगुणाभ्यां जुष्टं त्वा=त्वां चाहं वश्मि ॥ ७ । ८ ॥
[हे इन्द्रवायू! हि यत इमे सुता इन्दवो वामुशन्ति तस्माद्युवामेतैः प्रयोभिः पदार्थै: सहैवोप+आगतम्=उपागच्छतम्]
Meaning of Essence
इन्द्रवायू=योगसिद्धजनौ। इन्दवः=ईश्वरमारभ्य भूमिपर्यन्ताः पदार्थाः। उशन्ति=साक्षात्कर्तुं प्रयतन्ते। उपयामगृहीतः=यमादिसाधनान्वितः॥
Special
मधुच्छन्दाः। इन्द्रवायू=योगोपदेष्टा, योगाभ्यासी च। इन्द्रवायू इत्यस्यार्षी गायत्री। उपयामगृहीत इत्स्यार्षी स्वराड् गायत्री। षड्जः॥