Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 6

48 Mantra
7/6
Devata- योगी देवता Rishi- गोतम ऋषिः Chhand- भूरिक् त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्यऽइन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा सुभव॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ऽउदा॒नाय॑ त्वा॥६॥

स्वाङ्कृ॑त॒ इति॒ स्वाम्ऽकृ॑तः। अ॒सि॒। विश्वे॑भ्यः। इ॒न्द्रि॒येभ्यः। दि॒व्येभ्यः॑। पार्थि॑वेभ्यः। मनः॑। त्वा॒। अ॒ष्टु॒। स्वाहा॑। त्वा॒। सु॒भ॒वेति॑ सुऽभव। सूर्य्या॑य। दे॒वेभ्यः॑। त्वा॒। म॒री॒चि॒पेभ्य॒ इति॑ मरीचि॒पेभ्यः॑। उ॒दा॒नायेत्यु॑त्ऽआ॒नाय॑। त्वा॒ ॥६॥

Mantra without Swara
स्वाङ्कृतोसि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्त्वाष्टु स्वाहा त्वा सुभव सूर्याय । देवेभ्यस्त्वा मरीचिपेभ्यः उदानाय त्वा ॥

स्वाङ्कृत इति स्वाम्ऽकृतः। असि। विश्वेभ्यः। इन्द्रियेभ्यः। दिव्येभ्यः। पार्थिवेभ्यः। मनः। त्वा। अष्टु। स्वाहा। त्वा। सुभवेति सुऽभव। सूर्य्याय। देवेभ्यः। त्वा। मरीचिपेभ्य इति मरीचिपेभ्यः। उदानायेत्युत्ऽआनाय। त्वा॥६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(स्वाङ्कृतः) स्वयंसिद्धोऽनादिस्वरूपः (असि) (विश्वेभ्यः) अखिलेभ्यः (इन्द्रियेभ्यः) कार्य्यसाधकतमेभ्यः (दिव्येभ्यः) निर्मलेभ्यः (पार्थिवेभ्यः) पृथिव्यां विदितेभ्यः (मनः) योगमननम् (त्वा) त्वां योगमभीप्सुम् (अष्टु) प्राप्नोतु (स्वाहा) सत्यवचनरूपा क्रिया (त्वा) त्वाम् (सुभव) सुष्ठ्वैश्वर्य्य (सूर्य्याय) सूर्य्यस्येव योगप्रकाशाय (देवेभ्यः) प्रशस्तगुणपदार्थेभ्यः (त्वा) त्वाम् (मरीचिपेभ्यः) रश्मिभ्यः। मरीचिपा इति रश्मिनामसु पठितम् ॥ निघं० १ । ५ ॥ (उदानाय) उत्कृष्टाय जीवनबलसाधनायैव (त्वा) त्वाम्॥ अयम्मन्त्रः शत० ४ । १ । २ । २१-२४ व्याख्यातः॥६॥
Essence
यावन्मनुष्यः श्रेष्ठाचारी न भवति तावदीश्वरोऽपितं न स्वीकरोति, यावदयं न स्वीकरोति तावत्तस्यात्मबलं पूर्णं न भवति, यावदिदं न जायते तावन्नात्यन्तं सुखं भवतीति ॥ ७।६॥
Subject
पुनरीश्वरो योगजिज्ञासु प्रत्याह।।
Meaning of Anvay
हे सुभव ! सुष्ठ्वैश्वर्य योगिन् ! त्वं स्वाङ्कृतः स्वयंसिद्धोऽनादिस्वरूपः असि, अहं दिव्येभ्यः निर्मलेभ्य: विश्वेभ्यः अखिलेभ्यः [इन्द्रियेभ्यः] कार्यसाधकतमेभ्यः देवेभ्यः प्रशस्तगुणपदार्थेभ्यः मरीचिपेभ्यः, रश्मिभ्यः च त्वा=त्वां योगमभीप्सुं स्वीकरोमि, पार्थिवेभ्यः पृथिव्यां विदितेभ्यः त्वा=त्वां स्वीकरोमि, [सूर्याय] सूर्यस्येव योगप्रकाशाय [उदानाय] उत्कृष्टाय जीवनबलसाधनायैव [त्वा]=त्वां [स्वीकरोमि], यतस्त्वा त्वां मनः योगमननं स्वाहा=सत्यारूढा क्रिया सत्यवचनरूपा क्रिया चाष्टु प्राप्नोतु ॥ ७ । ६ ॥
[हे सुभव योगिंस्त्वं स्वाङ्कृतोऽसि, अहं दिव्येभ्यो विश्वेभ्यः [इन्द्रियेभ्यः]......त्वा स्वीकरोमि,[उदानाय त्वा स्वीकरोमि]]
Special
गोतमः। योगी:=योगजिज्ञासुः । भुरिक् त्रिष्टुप्। धैवतः।।