Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 5

48 Mantra
7/5
Devata- ईश्वरो देवता Rishi- गोतम ऋषिः Chhand- आर्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अ॒न्तस्ते॒ द्यावा॑पृथि॒वी द॑धाम्य॒न्तर्द॑धाम्यु॒र्वन्तरि॑क्षम्। स॒जूर्दे॒वेभि॒रव॑रैः॒ ॒परै॑श्चान्तर्या॒मे म॑घवन् मादयस्व॥५॥

अ॒न्तरित्य॒न्तः। ते॒। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। द॒धा॒मि॒। अ॒न्तः। द॒धा॒मि॒। उ॒रु। अ॒न्तरि॑क्षम्। स॒जूरिति॑ स॒ऽजूः। दे॒वेभिः॑। अव॑रैः। परैः॑। च॒। अ॒न्त॒र्य्याम इत्य॑न्तःऽया॒मे। म॒घ॒वन्निति॑ मघऽवन्। मा॒द॒य॒स्व॒ ॥५॥

Mantra without Swara
अन्तस्ते द्यावापृथिवी दधाम्यन्तर्दधाम्युर्वन्तरिक्षम् । सजूर्देवेभिरवरैः परैश्चान्तर्यामे मघवन्मादयस्व ॥

अन्तरित्यन्तः। ते। द्यावापृथिवीऽइति द्यावापृथिवी। दधामि। अन्तः। दधामि। उरु। अन्तरिक्षम्। सजूरिति सऽजूः। देवेभिः। अवरैः। परैः। च। अन्तर्य्याम इत्यन्तःऽयामे। मघवन्निति मघऽवन्। मादयस्व॥५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अन्तः) आकाशाभ्यन्तर इव (ते) तव (द्यावापृथिवी) भूमिसूर्य्याविव (दधामि) स्थापयामि (अन्तः) शरीराभ्यन्तरे (दधामि) स्थापयामि (उरु) बहु (अन्तरिक्षम्) अन्तरालमवकाशम् (सजू:) मित्र इव (देवेभिः) विद्वद्भिः (अवरैः) निकृष्टैः (परैः) उत्तमैश्वर्य्यव्यवहारैः (च) समुच्चये (अन्तर्य्यामे) यमानामयं यामः, अन्तश्चासौ यामश्च तस्मिन् (मघवन्) परमोत्कृष्टधनितुल्य (मादयस्व) हर्षयस्व॥ अयं मन्त्रः शत० ४ । १ । २ । १६ व्याख्यातः ॥ ५ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ईश्वर उपदिशति--ब्रह्माण्डे यादृशा यावन्तः पदार्थाः सन्ति, तादृशास्तावन्तो मम ज्ञाने वर्तन्ते, योगविद्यारहितस्तान् द्रष्टुं न शक्नोति, नहीश्वरोपासनया विना कश्चिद्योगी भवितुमर्हति ॥ ७। ५ ॥
Subject
अथेश्वरः प्राथमकल्पिकाय योगिने विज्ञानमाह॥
Meaning of Anvay
हे मघवन् परमोत्कृष्टधनितुल्य योगिन् ! अहं ते=तव अन्तः आकाशाभ्यन्तर इव द्यावापृथिवी भूमिसूर्यौइव विज्ञानादिपदार्थान् दधामि, स्थापयामि, उरु बहु अन्तरिक्षम् अन्तरालमवकाशम् अन्तः शरीराभ्यन्तरे दधामि स्थापयामि, सजू: मित्र इव त्वं देवेभिः=आप्तैः विद्वद्भिः अवरैः निकृष्टैःपरैः उत्तमैश्वर्यव्यवहारैः च सहान्तर्यामे यमानामयं यामः, अन्तश्चासौ यामश्च तस्मिन् वर्त्तमानःसन्नन्यान्मादयस्व हर्षयस्व ॥ ७ । ५ ॥
[हे मघवन् योगिन्नहं ते=तवान्तर्द्यावापृथिवी इव विज्ञानादिपदार्थान् दधामि]
Special
गोतमः। ईश्वरः=स्पष्टम्।। आर्षी पंक्तिः। पंचमः।।