Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 48

48 Mantra
7/48
Devata- आत्मा देवता Rishi- आङ्गिरस ऋषिः Chhand- आर्षी उष्णिक् Swara- ऋषभः
Mantra with Swara
को॑ऽदा॒त् कस्मा॑ऽअदा॒त् कामो॑ऽदा॒त् कामा॑यादात्। कामो॑ दा॒ता कामः॑ प्रतिग्रही॒ता कामै॒तत्ते॑॥४८॥

कः। अ॒दा॒त्। कस्मै॑। अ॒दा॒त्। कामः॑। अ॒दा॒त्। कामा॑य। अ॒दा॒त्। कामः॑। दा॒ता। कामः॑। प्र॒ति॒ग्र॒ही॒तेति॑ प्रतिऽग्रही॒ता। काम॑। ए॑तत्। ते॒ ॥४८॥

Mantra without Swara
को दात्कस्मा ऽअदात्कामो दात्कामायादात् । कामो दाता कामः प्रतिग्रहीता कामैतत्ते ॥

कः। अदात्। कस्मै। अदात्। कामः। अदात्। कामाय। अदात्। कामः। दाता। कामः। प्रतिग्रहीतेति प्रतिऽग्रहीता। काम। एतत्। ते॥४८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(कः) (अदात्) कर्मफलानि ददाति (कस्मै) (अदात्) (कामः) कामयते यः परमेश्वरः (अदात्) ददाति (कामाय) कामयमानाय जीवाय (अदात्) ददाति (कामः) यः काम्यते सर्वैर्योगिभिः स परमेश्वरः (दाता) सर्वपदार्थप्रदायकः (कामः) जीव: (प्रतिग्रहीता) (काम) कामयते असौ तत्सम्बुद्धौ (एतत्) आज्ञापनम् (ते) त्वदर्थम् ॥ अयं मन्त्रः शत० ४ । ३ । ४ । ३२ व्याख्यातः ॥ ४८॥
Essence
अस्मिञ्जगति कर्मकर्त्तारो जीवः फलप्रदातेश्वरोऽस्तीति विज्ञेयम्।
[हे काम=जीव ! ते=त्वदर्थमेतत्सर्वं मयाऽऽज्ञप्तमिति त्वं निश्चिनुहि]
न हि कामनया विना केनचित् चक्षुषो निमेषोन्मेषनङ्कर्त्तुं शक्यते, तत्सर्वैर्मनुष्यैर्विचारेण धर्मस्यैव कामना कार्या; नेतरस्य चेतीश्वराज्ञाऽस्ति। अत्राहमनु:--
कामात्मता न प्रशस्ता न चैवेहास्त्यकामता।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः॥
अकामस्य क्रिया काचिद् दृश्यते नेह कर्हिचित् ।
यद्यद्धि कुरुते किञ्चित्तेत्तत्कामस्य चेष्टितम् ।।

पूर्वापराध्यायसंगतिमाह--
अस्मिन्नध्याये--बाह्याभ्यन्तरव्यवहारो, मनुष्याणां परस्परं वर्तमानमात्मकर्मात्मनि मनसः प्रवर्त्तनं प्रथमकल्पाय योगिन ईश्वरोपदेशो जिज्ञासुं प्रति च, योगिकृत्यं, तल्लक्षणमध्यापकशिष्यकर्म, योगविद्याभ्यासिनां कृत्यं, योगेनान्तःकरणशोधनं,योगाभ्यासिलक्षणं, शिष्याध्यापकव्यवहारः, स्वामिसेवककृत्यं, न्यायाधीशेन प्रजारक्षणप्रकारो, राजसभ्यजनकृत्यं, राजोपदेशकरणं, राजभिः कार्यं, परीक्ष्य सेनापतिकरणं, पूर्णविद्यस्य सभापतित्वाधिकारो, विद्वत्कृत्यमीश्वरोपासकोपदेशो, यज्ञानुष्ठातुर्विषयः, प्रजादीन् प्रति सभापतेर्वर्त्तनं, राजप्रजाजनसत्कारोऽध्यापकाध्येतॄणां परस्परं प्रवृत्तिः, प्रतिदिनं पठनविषयो विद्यावृद्धिकरणं राज्ञः कर्त्तव्यं कर्म सेनापतिकृत्यं, सभाध्यक्षादिक्रियेश्वरगुणवर्णनं, तत्प्रार्थना, शूरवीरैर्युद्धानुष्ठानं, सेनास्थपुरुषकृत्यं ब्रह्मचर्यसेवनप्रकारः, ईश्वरस्य जीवान् प्रत्युपदेशश्चोक्तोऽतएतदध्यायार्थस्योक्तषष्ठाध्यायार्थेन सह सङ्गतिरिति बोध्यम् ॥ ७ ॥
Subject
अथेश्वरो जीवानुपदिशति ॥
Meaning of Anvay
कोऽदात् कर्मफलानि ददाति, कस्मा अदात्, कामः कामयते यः परमेश्वरः अदात् ददाति, कामाय कामयमानाय जीवाय अदात् ददाति, कामः यः काम्यते सर्वैर्योगिभिः स परमेश्वर: दाता सर्वपदार्थदायकः कामः जीवः प्रतिग्रहीता।
हे काम=जीव! कामयतेऽसौ तत्सम्बुद्धौ ते त्वदर्थमेतद्आज्ञापनं सर्वं मयाऽऽज्ञप्तमिति त्वं निश्चिनुहि ॥ ७ । ४८ ॥
[कोऽदात्, कस्या अदात्, कामोऽदात्, कामायादात्, कामो दाता, कामः प्रतिग्रहीता]
Special
आङ्गिरसः। आत्मा=परमेश्वरः। आर्ष्युष्णिक्। ऋषभः।।