Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 47

48 Mantra
7/47
Devata- वरुणो देवता Rishi- आङ्गिरस ऋषिः Chhand- भूरिक् प्राजापत्या जगती,स्वराट प्राजापत्या जगती,निचृत् आर्ची जगती,विराट आर्ची जगती Swara- निषादः
Mantra with Swara
अ॒ग्नये॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सोऽमृत॒त्त्वम॑शी॒यायु॑र्दा॒त्रऽए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे रु॒द्राय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सोऽमृत॒त्त्वम॑शीय प्रा॒णो दा॒त्रऽए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे बृह॒स्पत॑ये त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सोऽमृत॒त्त्वम॑शीय॒ त्वग्दा॒त्रऽए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे य॒माय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सोऽमृत॒त्त्वम॑शीय॒ हयो॑ दा॒त्रऽए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे॥४७॥

अ॒ग्नये॑। त्वा॒। मह्य॑म्। वरु॑णः। द॒दा॒तु॒। सः। अ॒मृ॒त॒त्वमित्य॑मृत॒ऽत्वम्। अ॒शी॒य॒। आयुः॑। दा॒त्रे। ए॒धि॒। मयः॑। मह्य॑म्। प्र॒ति॒ग्र॒ही॒त्र इति॑ प्रतिऽग्रही॒त्रे। रु॒द्रा॑य। त्वा॒। मह्य॑म्। वरु॑णः। द॒दा॒तु॒। सः। अ॒मृ॒त॒त्वमित्य॑मृत॒ऽत्वम्। अ॒शी॒य॒। प्रा॒णः। दा॒त्रे। ए॒धि॒। वयः॑। मह्य॑म्। प्र॒ति॒ग्र॒ही॒त्र इति॑ प्रतिऽग्रही॒त्रे। बृह॒स्पत॑ये। त्वा॒। मह्य॑म्। वरु॑णः। द॒दा॒तु॒। सः। अ॒मृ॒त॒त्वमित्य॑मृत॒ऽत्वम्। अ॒शी॒य॒। त्वक्। दा॒त्रे। ए॒धि॒। मयः॑। मह्य॑म्। प्र॒ति॒ग्र॒ही॒त्र इति॑ प्रतिऽग्रही॒त्रे। य॒माय॑। त्वा॒। मह्य॑म्। वरु॑णः। द॒दा॒तु॒। सः। अ॒मृ॒त॒त्वमित्य॑मृत॒ऽत्वम्। अ॒शी॒य॒। हयः॑। दा॒त्रे। ए॒धि॒। वयः॑। मह्य॑म्। प्र॒ति॒ग्र॒ही॒त्र इति॑ प्रतिऽग्रही॒त्रे ॥४७॥

Mantra without Swara
अग्नये त्वा मह्यँवरुणो ददातु सो मृतत्वमशीयायुर्दात्रऽएधि मयो मह्यम्प्रतिग्रहीत्रे रुद्राय त्वा मह्यँवरुणो ददातु सो मृतत्वमशीय प्राणो दात्र एधि वयो मह्यम्प्रतिग्रहीत्रे बृहस्पतये त्वा मह्यँवरुणो ददातु सोमृतत्वमशीय त्वग्दात्रऽएधि मयो मह्यम्प्रतिग्रहीत्रे यमाय त्वा मह्यँवरुणो ददातु सोमृतत्वमशीय हयो दात्रऽएधि वयो मह्यम्प्रतिग्रहीत्रे ॥

अग्नये। त्वा। मह्यम्। वरुणः। ददातु। सः। अमृतत्वमित्यमृतऽत्वम्। अशीय। आयुः। दात्रे। एधि। मयः। मह्यम्। प्रतिग्रहीत्र इति प्रतिऽग्रहीत्रे। रुद्राय। त्वा। मह्यम्। वरुणः। ददातु। सः। अमृतत्वमित्यमृतऽत्वम्। अशीय। प्राणः। दात्रे। एधि। वयः। मह्यम्। प्रतिग्रहीत्र इति प्रतिऽग्रहीत्रे। बृहस्पतये। त्वा। मह्यम्। वरुणः। ददातु। सः। अमृतत्वमित्यमृतऽत्वम्। अशीय। त्वक्। दात्रे। एधि। मयः। मह्यम्। प्रतिग्रहीत्र इति प्रतिऽग्रहीत्रे। यमाय। त्वा। मह्यम्। वरुणः। ददातु। सः। अमृतत्वमित्यमृतऽत्वम्। अशीय। हयः। दात्रे। एधि। वयः। मह्यम्। प्रतिग्रहीत्र इति प्रतिऽग्रहीत्रे॥४७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्नये) चतुर्विंशतिवर्षपर्य्यन्तं ब्रह्मचर्यं संसेव्याग्निवत्तेजस्विभवाय (त्वा) वसुसंज्ञकमध्यापकम् (मह्यम्) (वरुणः) वरः= सर्वोत्तमः प्रशस्तविद्योऽनूचानो विद्वानध्यापकः (ददातु) (सः) विद्यार्थी (अमृतत्वम्) क्रियासिद्धं नित्यं विज्ञानम् (अशीय) प्राप्नुयाम् (आयु:) अधिकं जीवनम् (दात्रे) विद्यादानशीलाय वरुणाय (एधि) वर्धयिता भव (मयः) सुखम्। मय इति सुखनानसु पठितम् ॥ निघं. ३ ।६॥ (मह्यम्) विद्यार्थिने (प्रतिग्रहीत्रे) प्रतिग्रहकर्त्रे स्वस्तु (रुद्राय) चतुश्चत्वारिंशद्वर्षपर्यन्तं ब्रह्मचर्यं सुसेव्यं रुद्रगुणधारणाय (त्वा) रुद्राख्यमध्यापकम् (मह्यम्) विद्यार्जनतत्पराय (वरुणः) वरगुणप्रदः (ददातु) (सः) (अमृतत्वम्) (अशीय) (प्राणः) योगसिद्धबलयुक्तः (दात्रे) (एधि) वर्धय (वयः) अवस्थात्रये सुखभोगं जीवनम् (मह्यम्) विद्याग्रहणप्रवृत्ताय (प्रतिग्रहीत्रे) अध्यापकादागताया विद्यायाः संचेत्रे(बृहस्पतये) अष्टचत्वारिंशद्वर्षपर्यन्तं ब्रह्मचर्य्यं सेवित्वा बृहत्या=वेदविद्यावाचः पालकाय (त्वा) पूर्णविद्याध्यापयितारम् (मह्यम्) पूर्णविद्यामभीप्सवे (वरुण:) (ददातु) (सः) (अमृतत्वम्) (अशीय) (त्वक्) स्पर्शेन्द्रियसुखम् (दात्रे) (एधि) (मयः) सुखविशेषम् (मह्यम्) (प्रतिग्रहीत्रे) (यमाय) गृहाश्रमजन्यविषयसेवनादुपरताय यमनियमादियुक्ताय (त्वा) सर्वदोषरहितमुपदेशकम् (मह्यम्) सत्यासत्ययोर्निश्चयकरणशीलाय (वरुणः) सत्योपदेष्टाप्तः (ददातु) (सः) (अमृतत्वम्) (अशीय) (हयः) ज्ञानवर्द्धनम्। हिगतिवृद्ध्योरित्यस्मादौणादिकोऽसुन् प्रत्ययः (दात्रे) (एधि) (वय:) चिरजीवनसुखम् (मह्यम्) सर्ववृद्धिचिकीर्षवे (प्रतिग्रहीत्रे) ।। अयं मन्त्रः शत० ४ । ३ । ४ । २८-३१ व्याख्यातः ॥ ३७॥
Essence
सर्वेषां जनानां योग्यमस्ति--यः सर्वोत्कृष्टोऽनूचानो विद्वान् भवेत्तस्य सकाशादितरानध्यापकान् परीक्ष्य स्व स्वकन्याः पुत्रान् तत्तत्सदृशादध्यापकात्पाठयेयुः।
अध्येतारश्च स्व स्वबुद्धिं न्यूनाधिकां ज्ञात्वा स्वस्वसदृशानध्यापकान् प्रीत्या सेवमानास्तेभ्यो नैरन्तर्येण विद्याग्रहणं कुर्युः: ।। ७ । ४७ ।।
Subject
अथ कस्मै प्रयोजनाय दानं प्रतिग्रहणं च सेवितव्यमित्युपदिश्यते।।
Meaning of Anvay
हे वसुसंज्ञकाध्यापक! यस्मा अग्नये चतुर्विंशतिवर्षपर्यन्तं ब्रह्मचर्य्यं संसेव्याग्निवत्तेजस्विभवाय मह्यं त्वावसुसंज्ञकमध्यापकं वरुणः वरः=सर्वोत्तमः प्रशस्तविद्योऽनूचाना विद्वानध्यापकः ददातु, सः विद्यार्थी अहं यदमृतत्वं क्रियासिद्धं नित्यं विज्ञानम् अशीय प्राप्नुयां तत्तस्मै दात्रे विद्यादानशीलाय वरुणाय आयु:=चिरजीवनम् अधिकं जीवनंएधि वर्धयिता भव, प्रतिग्रहीत्रे प्रतिग्रहकर्त्रेःमह्यं=शिष्याय विद्यार्थिने मयः सुखं च।
हे रुद्रसंज्ञकाध्यापक ! यस्मै रुद्राय चतुश्चत्वारिंशद्वर्षपर्यन्तं ब्रह्मचर्यं सुसेव्यं रुद्रगुणधारणाय मह्यं विद्यार्जनतत्पराय त्वा रुद्राख्यामध्यापकंवरुणः वरगुणप्रदः ददातु, सोऽहं यदमृतत्वमशीय तत्तस्मै दात्रे वरुणाय प्राणः योगसिद्धबलयुक्तःत्वमेधि वर्धय, प्रतिग्रहीत्रे अध्याकादागताया विद्यायाः संचेत्रे मह्यं विद्याग्रहणप्रवृत्ताय वयः अवस्थात्रये सुखभोगं जीवनं च।
हे आदित्यनामाध्यापक! यस्मै बृहस्पतयेअष्टचत्वारिंशद्वर्षपर्यन्तं ब्रह्मचर्यं सेवित्वा बृहत्याः=वेदविद्यावाचः पालकाय मह्यं पूर्णविद्यामभीप्सवे त्वा पूर्णविद्याऽध्यापयितारं वरुणो ददातु, सोऽहं यदमृतत्वम् अशीय तत्तस्मै दात्रे वरुणाय [त्वक्]= त्वगिन्द्रियसुखं स्पर्शेन्द्रियमुखम् त्वम् एधि, प्रतिग्रहीत्रे मह्यं पूर्णविद्यामभीप्सवे सुखं च,
यस्मै [यमाय] जितेन्द्रिययमाय गृहाश्रमजन्यविषयसेवनादुपरताय यमनियमादियुक्ताय मह्यं सत्यासत्ययोर्निश्चयकरणशीलाय त्वा सर्वदोषरहितमुपदेशकंवरुणः सत्योपदेष्टाऽऽप्तःददातु, सोऽहं यदमृतत्वमशीय तत्तस्मै दात्रे वरुणाय वयः=ज्ञानवर्द्धनं त्वमेधि, प्रतिग्रहीत्रे मह्यं सर्ववृद्धिं चिकीर्षवे वयः=अवस्थात्रयसुखं चिरजीवनसुखं च ।। ७ । ४७ ।।
[हे वसुसंज्ञकाध्यापक! यस्मा अग्नये मह्यं त्वा वरुणो ददातु]
Special
आङ्गिरसः। वरुणः=वेदवेत्ताऽध्यापकः।। आद्यस्य भुरिक् प्राजापत्या, रुद्राय त्वेत्यस्य स्वराट् प्राजापत्या, जगती, बृहस्पते त्वेत्यस्य निचृदार्ची, जगती:, जगती! यमाय त्वेत्यस्य विराडार्ची जगत्यश्छन्दांसि। निषादः।।