Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 45

48 Mantra
7/45
Devata- प्रजापतिर्देवता Rishi- आङ्गिरस ऋषिः Chhand- विराट जगती, Swara- निषादः
Mantra with Swara
रू॒पेण॑ वो रू॒पम॒भ्यागां॑ तु॒थो वो वि॒श्ववे॑दा॒ विभ॑जतु। ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा॒ वि स्वः॒ पश्य॒ व्यन्तरि॑क्षं॒ यत॑स्व सद॒स्यैः॥४५॥

रूपेण॑। वः॒। रू॒पम्। अ॒भि। आ। अ॒गा॒म्। तु॒थः। वः॒। वि॒श्ववे॑दा॒ इति॑ वि॒श्वऽवेदाः। वि। भ॒ज॒तु॒। ऋ॒तस्य॑। प॒था। प्र। इ॒त॒। च॒न्द्रद॑क्षिणा॒ इति॑ च॒न्द्रऽद॑क्षिणाः। वि। स्व॒रिति॒ स्वः᳖। पश्य॑। वि। अ॒न्तरि॑क्षम्। यत॑स्व। स॒द॒स्यैः᳖ ॥४५॥

Mantra without Swara
रूपेण वो रूपमभ्यागान्तुथो वो विश्ववेदा वि भजतु । ऋतस्य पथा प्रेत चन्द्रदक्षिणाः वि स्वः पश्य व्यन्तरिक्षँयतस्व सदस्यैः ॥

रूपेण। वः। रूपम्। अभि। आ। अगाम्। तुथः। वः। विश्ववेदा इति विश्वऽवेदाः। वि। भजतु। ऋतस्य। पथा। प्र। इत। चन्द्रदक्षिणा इति चन्द्रऽदक्षिणाः। वि। स्वरिति स्वः। पश्य। वि। अन्तरिक्षम्। यतस्व। सदस्यैः॥४५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(रूपेण) चक्षुर्ग्राह्येण प्रियेण (व:) युष्माकम् (रूपम्) स्वरूपम् (अभि) सम्मुखे (आ) समन्तात् (अगाम्) (तुथः) ज्ञानवृद्धः। अत्र तु गतिवृद्धिहिंसास्वित्यस्मादौणादिकस्थक् प्रत्ययः (वः) युष्मान् (विश्ववेदाः) यः परमात्मा विश्वं=सर्वं वेत्ति तद्वद्वर्त्तमानः (वि) (भजतु) विभागं करोतु (ॠतस्य) सत्यस्य (पथा) मार्गेण (प्र) (इत) प्राप्नुत (चन्द्रदक्षिणाः) चन्द्रं=सुवर्णं दक्षिणा=दानं येषां ते। चन्द्रमिति हिरण्यनामसु पठितम् ॥ निघं० १ । २ ॥ (वि) (स्व:) उपतपन्नादित्य इव। स्वरादित्यो भवति ॥ निरु० २ । १४ ॥ (पश्य) प्रचक्ष्व (वि) विविधार्थे (अन्तरिक्षम्) क्षयरहितमन्तर्यामिस्वाभाविकं ब्रह्मविज्ञानं वा। अन्तरिक्षम् कस्मादन्तरा क्षान्तं भवत्यन्तरेमे इति वा शरीरेष्वन्तरक्षयमिति वा। निरु० २ । १०।। (यतस्व) प्रयत्नं कुरु (सदस्यैः) सदसि भवैः सभ्यैर्जनैः सह।अयं मन्त्रः शत० ४ । ३ । ४ । १४-१८ व्याख्यातः ॥ ४५ ॥
Essence
सभापति राजा स्वात्मजानिव प्रजासेनासभ्यपुरुषान् प्रीणयेत्, तथा पक्षपातरहितः परमेश्वर इव सततं न्यायं कुर्यात्। धार्मिकाणां सभ्यानां जनानां तिस्नः सभा भवेयुः--
[तुथस्त्वं स्वरिवर्तस्य पथान्तरिक्षं विपश्य]
तास्वेका राजसभा=यया राजकार्याणि निष्पद्येरन् सर्वे विघ्ना निवर्तेरँश्च ।
[सभायां सदस्यैः सहर्तस्य यथा प्रयतस्व]
द्वितीया विद्यासभा--यया विद्याप्रचारः स्यादविद्या नश्येत्।
[चन्द्रदक्षिणा यूयमृतस्यधर्म्यं मार्गं वीत]
तृतीया धर्मसभा--यया धर्मोन्नतिरधर्महानिश्च सततं भवेत्।
सर्वे स्वात्मानं परमात्मानं समीक्ष्यान्यायमार्गात् पृथग् भूत्वा, धर्मं सेवित्वा, समयं पर्यालोच्य सत्यासत्यनिर्णये प्रयतेरन् ।। ७ । ४५ ।।
Subject
अथ सभात्रयेण राज्यं शासनीयमित्युपदिश्यते॥
Meaning of Anvay
हे सेनाप्रजाजनाः ! यथाहं रूपेण चक्षुर्ग्राह्येण प्रियेण वः=युष्माकं रूपं स्वरूपम् अभ्यागाम् अभिमुखं समन्तादगाम्, तथा विश्ववेदाः यः परमात्मा विश्वं=सर्वं वेत्ति तद्वद्वर्तमानः वः युष्मान् विभजतु विभागं करोतु।
तुथ: ज्ञानवृद्धः त्वं स्वः उपतपन्नादित्य इव ऋतस्य सत्यस्य पथा मार्गेण अन्तरिक्षं क्षयरहितमन्तर्यामिस्वाभाविकं ब्रह्मविज्ञानं वा विपश्य विविधं प्रचक्ष्व ।
सभायां सदस्यैः सदसिभवैः सभ्यैर्जनैः सह ॠतस्य सत्यस्य पथा मार्गेण प्रयतस्व प्रयत्नं कुरु।
चन्द्रदक्षिणाः चन्द्रं=सुवर्णं दक्षिणा=दानं येषां ते यूयम् ऋतस्य सत्यस्य धर्म्यं मार्गं वि+इत प्राप्नुत ।। ७ । ४५ ।।
[हे सेनाप्रजाजन:! यथाहं रूपेण वः=युष्माकं रूपमभ्यागां तथा विश्ववेदा वो विभजतु]
Special
आङ्गिरसः।प्रजापतिः=सभापती राजा। विराड् जगती । निषादः ॥