Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 44

48 Mantra
7/44
Devata- प्रजापतिर्देवता Rishi- आङ्गिरस ऋषिः Chhand- भूरिक् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
अ॒यं नो॑ऽअ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒रऽए॑तु प्रभि॒न्दन्। अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यꣳ शत्रू॑ञ्जयतु॒ जर्हृ॑षाणः॒ स्वाहा॑॥४४॥

अ॒यम्। नः॒। अग्निः॒। वरि॒॑वः। कृ॒णो॒तु॒। अ॒यम्। मृधः॑। पु॒रः। ए॒तु॒। प्र॒भि॒न्दन्निति॑ प्रऽभि॒न्दन्। अ॒यम्। वाजा॑न्। ज॒य॒तु॒। वाज॑साता॒विति॒ वाज॑ऽसातौ। अ॒यम्। शत्रू॑न्। ज॒य॒तु॒। जर्हृ॑षाणः। स्वाहा॑ ॥४४॥.

Mantra without Swara
अयन्नोऽअग्निर्वरिवस्कृणोत्वयम्मृधः पुर एतु प्रभिन्दन् । अयँ वाजाञ्जयतु वाजसातावयँ शत्रून्जयतु जर्हृषाणः स्वाहा ॥

अयम्। नः। अग्निः। वरिवः। कृणोतु। अयम्। मृधः। पुरः। एतु। प्रभिन्दन्निति प्रऽभिन्दन्। अयम्। वाजान्। जयतु। वाजसाताविति वाजऽसातौ। अयम्। शत्रून्। जयतु। जर्हृषाणः। स्वाहा॥४४॥.

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अयम्) सर्वाभिरक्षकः (नः) अस्माकम् (अग्निः) वैद्यविद्याप्रकाशकः सर्वरोगनिवारकः सद्यः (वरिवः) सुखकारकं सेवनम् (कृणोतु) करोतु (अयम्) मुख्ययोद्धा (मृधः) संग्रामात् (पुरः) पुरस्तात् (एतु) गच्छतु (प्रभिन्दन्) विदारयन् (अयम्) वक्तृत्वेनोपदेष्टुं कुशलो योद्धा (वाजान्) वेगादिगुणयुक्तान् स्वसेनास्थान् वीरान् (जयतु) उत्कर्षतु (वाजसातौ) वाजानां= संग्रामाणां संविभागे (अयम्) सर्वोत्कृष्टः (शत्रून्) धर्मशातकान् (जयतु) स्वोत्कर्षाय तिरस्करोतु (जर्हृषाणः) भृशमाह्लादितः (स्वाहा) वैद्यकयुद्धविद्यया शिक्षितया वाचा। स्वाहेति वाङ्नामसु पठितम् ॥ निघं० १ । ११ ॥ अयं मंत्रः शत० ४ । ३। ४।१३ व्याख्यातः ॥ ४४ ॥
Essence
यदा युद्धकर्मणि चत्वारो वीरा अवश्यमेव भवेयुस्तेष्वेको वैद्यकक्रियाकुशलः सर्वरक्षकः,
[अयं वाजान् जयतु]
द्वितीयो हि शौर्यादिगुणप्रदेनव्याख्यानेन हर्षयिता,
[अयंजर्हृषाणःसन्शत्रून्जयतु]
तृतीयः शत्रूणां तिरस्कर्ता,
[अयं प्रभिन्दन् मृधः पुर एतु]
चतुर्थ: शत्रुघातकः स्यात् तदा सर्वा युद्धक्रिया प्रशस्ता भवेत् ।। ७ । ४४।।
Subject
अथ संग्रामे ब्रह्मोपासकैः शूरवीरैः कथं योद्धव्यमित्युपदिश्यते॥
Meaning of Anvay
अयं सर्वाभिरक्षकः अग्निः वैद्यविद्याप्रकाशकः सर्वरोगनिवारकः सद्वैद्यः स्वाहा वैद्यक युद्धविद्यया शिक्षितया वाचा वाजसातौ वाजानां=सङ्ग्रामाणां संविभागेनः अस्माकं वरिवः सुखकारकं सेवनः कृणोतु करोतु।
अयं मुख्ययोद्धा प्रभिन्दन् विदारयन् मृधः सङ्ग्रामात् पुरः पुरस्तात् एतु गच्छतु ।
अयं वक्तृत्वेनोपदेष्टुं कुशलो योद्धा वाजान् वेगादिगुणयुक्तान् स्वसेनास्थान् वीरान् जयतु उत्कर्षतु।
अयं सर्वोत्कृष्टः जर्हृषाणः भृशमाह्लादितः सन् शत्रून् धर्मशातकान्जयतु स्वोत्कर्षाय तिरस्करोतु ॥ ७।४४॥
[अयमग्निः स्वाहा वाजसातौनो वरिवः कृणोतु]
Meaning of Essence
अग्निः=वैद्यकः क्रियाकुशलः सर्वरक्षकः।।
Special
आंगिरसः। प्रजापतिः=सद्वैद्यः। भुरिगार्षी त्रिष्टुप्। धैवतः॥