Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 43

48 Mantra
7/43
Devata- अन्तर्यामी जगदीश्वरो देवता Rishi- आङ्गिरस ऋषिः Chhand- भूरिक् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
अग्ने॒ नय॑ सु॒पथा॑ रा॒येऽअ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ऽउक्तिं विधेम॒ स्वाहा॑॥४३॥

अग्ने॑। नय॑। सु॒पथेति॑ सु॒ऽपथा॑। रा॒ये। अ॒स्मान्। विश्वा॑नि। दे॒व॒। व॒युना॑नि। वि॒द्वान्। यु॒यो॒धि। अ॒स्मत्। जु॒हु॒रा॒णम्। एनः॑। भूयि॑ष्ठाम्। ते॒। नम॑उक्ति॒मिति॒ नमः॑ऽउक्तिम्। वि॒धे॒म्। स्वाहा॑ ॥४३॥

Mantra without Swara
अग्ने नय सुपथा रायेऽअस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठान्ते नमउक्तिँ विधेम स्वाहा ॥

अग्ने। नय। सुपथेति सुऽपथा। राये। अस्मान्। विश्वानि। देव। वयुनानि। विद्वान्। युयोधि। अस्मत्। जुहुराणम्। एनः। भूयिष्ठाम्। ते। नमउक्तिमिति नमःऽउक्तिम्। विधेम्। स्वाहा॥४३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) सर्वेषां प्रकाशक! (नय) प्रापय (सुपथा) योगमार्गेण (राये) योगसिद्धये (अस्मान्) योगिनः (विश्वानि) अखिलानि (देव) योगप्रद! (वयुनानि) योगविज्ञानानि (विद्वान्) यो वेत्ति सर्वं योग सः (युयोधि) वियोजय (अस्मत्) अस्माकं योगानुष्ठातृणां सकाशात् (जुहुराणम्) अस्मदन्तःकरणस्य कौटिल्यम् (एनः) दुष्कृतात्मकमपराधम् (भूयिष्ठाम्) भूयसीम् (ते) तव योगोपदेष्टुः परमगुरोः (नमउक्तिम्) नतिपुरःसरां स्तुतिम् (विधेम) कुर्य्याम (स्वाहा) सत्यया स्वकीयया वाचा वेदवाचा वा॥ अयं मन्त्रः श० ४ । ३ । ४ । १२ व्याख्यातः ॥ ४३॥
Essence
न कश्चिदपि पुरुषः परमात्मनः सत्यप्रेमभक्त्या विना योगसिद्धिं प्राप्नोति। यश्चेत्थं भूतो योगबलेन परमेश्वरं स्मरति तस्मै स दयालुः शीघ्रं योगसिद्धिं ददाति।।७ । ४३ ।।
Subject
अथैतदीश्वरप्रार्थनामाह॥
Meaning of Anvay
हे अग्ने! सर्वेषां प्रकाशक !त्वं राये योगसिद्धये अस्मान् योगिनः विश्वानि अखिलानि वयुनानि योगविज्ञानानि [सुपथा] योगमार्गेण नय प्रापय, यतो वयं स्वाहा सत्यया स्वकीयया वाचा वेदवाचा वा ते तव योगोपदेष्टुः परमगुरोः भूयिष्ठां भूयसी नम उक्तिं नतिपुरःसरां स्तुतिं विधेम कुर्याम ।
हे देव ! योगप्रद [विद्वान्] यो वेत्ति सर्वं योगं सः त्वं कृपया जुहुराणम् अस्मदन्तःकरणस्य कौटिल्यम् एनः दुष्टतात्मकमपराधं च अस्मद् अस्माकं योगानुष्ठातृणां सकाशात् युयोधि वियोजय ॥ ७ । ४३ ।।
[हे अग्ने! त्वं राये अस्मान् विश्वानि वयुनानि [सुपथा] नय, यतो वयं स्वाहा तेभूयिष्ठां नम उक्तिं विधेम]
Special
आङ्गिरसः। अन्तर्यामी जगदीश्वर:=स्पष्टम्। भुरिगार्षी त्रिष्टुप् । धैवतः।।