Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 42

48 Mantra
7/42
Devata- सूर्य्यो देवता Rishi- कुत्स ऋषिः Chhand- भूरिक् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः। आप्रा॒ द्यावा॑पृथि॒वीऽअ॒न्तरि॑क्ष॒ꣳ सूर्य॑ऽआ॒त्मा जग॑तस्त॒स्थुष॑श्च॒ स्वाहा॑॥४२॥

चित्र॒म्। दे॒वाना॑म्। उत्। अ॒गा॒त्। अनी॑कम्। चक्षुः॑। मि॒त्रस्य॑। वरु॑णस्य। अ॒ग्नेः। आ। अ॒प्राः॒। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। अ॒न्तरि॑क्षम्। सूर्य्यः॑। आ॒त्मा। जग॑तः। त॒स्थुषः॑। च॒। स्वाहा॑ ॥४२॥

Mantra without Swara
चित्रन्देवानामुदगादनीकञ्चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षँ सूर्य ऽआत्मा जगतस्तस्थुषश्च स्वाहा ॥

चित्रम्। देवानाम्। उत्। अगात्। अनीकम्। चक्षुः। मित्रस्य। वरुणस्य। अग्नेः। आ। अप्राः। द्यावापृथिवीऽइति द्यावापृथिवी। अन्तरिक्षम्। सूर्य्यः। आत्मा। जगतः। तस्थुषः। च। स्वाहा॥४२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(चित्रम्) अद्भुतम् (देवानाम्) चक्षुरादीनामिव विदुषाम् (उत्) उद्गमने (अगात्) प्राप्नोति (अनीकम्) बलवत्तरं सैन्यमिव प्रसिद्धम्, अनिति=जीवयति सर्वान् प्राणिनः सः । अनिहृषिभ्यां किच्च ॥ उ० ४ । १७ ॥ अनेन ईकन् प्रत्ययः (चक्षुः) दर्शकम् (मित्रस्य) सख्युः प्राणस्य वा (वरुणस्य) श्रेष्ठस्योदानस्य वा (अग्नेः) विद्युतः (आ) समन्तात् (अप्राः) यः प्राति=पिपर्त्ति। अत्र लडर्थे लुङ् (द्यावापृथिवी) भूमिवियतौ (अन्तरिक्षम्) सर्वन्निर्गतमनन्तमाकाशम् (सूर्य्य:) स्वयंप्रकाशः (आत्मा) अतति=सर्वत्र व्याप्नोति (जगतः) जङ्गमस्य (तस्थुषः) स्थावरस्य (च) जीवानां समुच्चये (स्वाहा) सत्यया क्रियया॥इमं मन्त्रं यास्कमुनिरेवं समाचष्टे--चायनीयं देवानामुदगमदनीकं ख्यानं मित्रस्य वरुणस्याग्नेश्चापृपुरद् द्यावापृथिव्यौ चान्तरिक्षं च महत्त्वेन तेन सूर्य आत्मा जङ्गमस्य च स्थावरस्य च ॥ निरु० १२ । १६ ॥ अयं मंत्रः शत ४ । ३।४ । १० व्याख्यातः॥ ४२॥
Essence
यतः परमेश्वर आकाश इव सर्वत्र व्याप्तः, सवितेव स्वयम्प्रकाशः, प्राण इव सर्वान्तर्याम्यस्त्यतः सर्वेभ्यो जीवेभ्यः सत्यासत्यविज्ञापकोऽस्ति।
यस्य परमेश्वरस्य ज्ञीप्सा भवेत् स योगमभ्यस्य स्वात्मन्येव तं द्रष्टुं शक्नोति; नान्यत्रेति ॥ ७ । ४२।।
Subject
पुनरित्यमेवेश्वरस्य गुणा उपदिश्यन्ते॥
Meaning of Anvay
हे मनुष्याः ! युष्माभिः--सूर्य्यः स्वयंप्रकाश: स्वाहा सत्यया क्रियया देवानां चक्षुरादीनामिव विदुषां मित्रस्य सख्युः प्राणस्य वा वरुणस्य श्रेष्ठस्योदानस्य वा अग्ने: विद्युतः चित्रम् अद्भुतम् अनीकं बलवत्तरं सैन्यमिव प्रसिद्धम् अनिति= जीवयति सर्वान् प्राणिनः सः चक्षुः दर्शकम् उद्-अगात् उदगस्य प्राप्नोति, जगतः जङ्गमस्य तस्थुषः स्थावरस्य च जीवानां आत्मा अतति=सर्वत्र व्याप्नोति सन् द्यावापृथिवी भूमिवियतौ अन्तरिक्षं सर्वन्निर्गतमनन्तमाकाशम् आ+अप्राः समन्ताद् यः प्राति=पिपर्त्तिइव यो जगदीश्वरोऽस्ति, स एव सततमुपासनीयः ॥ ७ । ४२ ॥
[हे मनुष्याः! युष्माभिः—सूर्यः......'मित्रस्य......चक्षुरुदगात्। जगतस्तस्थुषश्चात्मा सन् द्यावापृथिव्यन्तरिक्षमाप्रा इव यो जगदीश्वरोऽस्ति, स एव सततमुपासनीयः]
Special
कुत्सः।सूर्य्य:=आदित्यः, ईश्वरश्च । भुरिगार्षी त्रिष्टुप्। धैवतः॥

अन्यत्र व्याख्यातः--
भाष्यम्--स एव देव: सूर्यः (जगतः) जङ्गमस्य (तस्थुषः) स्थावरस्य च (अस्य) अतति=नैरन्तर्येण सर्वत्र व्याप्नोतीत्यात्मा तथा (आप्रा०) द्यौः पृथिवी अन्तरिक्षं चैतदादि सर्वं जगद् रचयित्वा आसमन्ताद् धारयन् सन् रक्षति (चक्षुः) एष एवैतेषां प्रकाशकत्वाद् बाह्याभ्यन्तरयोश्चक्षुः प्रकाशको विज्ञानमयो विज्ञापकश्चास्ति। अतएव (मित्रस्य) सर्वेषु द्रोहरहितस्य मनुष्यस्य सूर्यलोकस्य प्राणस्य वा (वरुणस्य) वरेषु=श्रेष्ठेषु कर्मसु गुणेषु वर्त्तमानस्य च (अग्नेः) शिल्पविद्याहेतो रूपगुणदाहप्रकाशकस्य विद्युतो भ्राजमानस्यापि चक्षुः सर्वसत्योपदेष्टा प्रकाशकश्च (देवानाम्) स दिव्यगुणवतां विदुषामेव हृदये (उदगात्) उत्कृष्टतया प्राप्तोऽस्ति प्रकाशको वा तदेव ब्रह्म (चित्रम्) अद्भुतस्वरूपम्। अत्र प्रमाणम्--"आश्चर्यो वक्ता कुशलोऽस्य लब्धाऽऽश्चयों ज्ञाता कुशलानुशिष्ट:" (कठोपनि० वल्ली-२) ॥" आश्चर्यस्वरूपत्वाद् ब्राह्मणः। तदेव ब्रह्म सर्वेषां चास्माकं (अनीकम्) सर्वदुःखनाशार्थं कामक्रोधादिशत्रुविनाशार्थं बलमस्ति। तद्विहाय मनुष्याणां सर्वसुखकरं शरणमन्यन्नास्त्येवेति वेद्यम्।
(स्वाहा) अथात्र स्वाहाशब्दार्थे प्रमाणम्। निरुक्तकारा आहुः--"स्वाहाकृतयः स्वाहेत्येत्, सु आहेति वा, स्वां वागाहेति वा, स्वं प्राहेति वा, स्वाहुतं हविर्जुहोतीति वा" (निरु० अ० ८ ।खं० २) ॥
स्वाहाशब्दस्यमर्थ:--(सु आहेत वा) सु=सुष्ठु कोमलं मधुरं कल्याणकरं प्रियं वचनं सर्वैर्मनुष्यैः सदा वक्तव्यम् । (स्वा वागहेति वा) या स्वकीया वाग् ज्ञानमध्ये वर्त्तते, सा यदाह तदेव वागिन्द्रियेण सर्वदा वाच्यम्। (स्वं प्राहेति वा) स्वं स्वकीयपदार्थं प्रत्येव स्वत्वं वाच्यम्, न परपदार्थं प्रति चेति। (स्वाहुतं ह०) सुष्ठुरीत्या संस्कृत्य संस्कृत्य हविः सदा होतव्यमिति स्वाहाशब्दपर्यायार्थाः। स्वमेव पदार्थं प्रति वयं सर्वदा सत्यं वदाम इति, न कदाचित् परपदार्थं प्रति मिथ्या वदेमेति ॥ ३॥