Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 39

48 Mantra
7/39
Devata- प्रजापतिर्देवता Rishi- भरद्वाज ऋषिः Chhand- भूरिक् पङ्क्ति,साम्नी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
म॒हाँ२ऽइन्द्रो॑ नृ॒वदा च॑र्षणि॒प्राऽउ॒त द्वि॒बर्हा॑ऽअमि॒नः सहो॑भिः। अ॒स्म॒द्र्यग्वावृधे वी॒र्यायो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत्। उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा॥३९॥

म॒हान्। इन्द्रः॑। नृ॒वदिति॑ नृ॒ऽवत्। आ। च॒र्ष॒णि॒प्रा इति॑ चर्षणि॒ऽप्राः। उ॒त। द्वि॒बर्हा॒ इति॑ द्वि॒बर्हाः॑। अ॒मि॒नः। सहो॑भि॒रिति॒ सहः॑ऽभिः। अ॒स्म॒द्र्य᳖क्। वा॒वृ॒धे॒। व॒वृ॒ध॒ इति॑ ववृधे। वी॒र्य्या᳖य। उ॒रुः। पृ॒थुः। सुकृ॑त॒ इति॒ सुऽकृ॑तः। क॒र्तृभि॒रिति॑ क॒र्तृ॒ऽभिः॑। भू॒त्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। म॒हे॒न्द्रायेति॑ महाऽइ॒न्द्रा॑य। त्वा॒। ए॒षः। ते॒। योनिः॑। म॒हे॒न्द्रायेति॑ महाऽइ॒न्द्राय॑। त्वा॒ ॥३९॥

Mantra without Swara
महाँ इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । अस्मर्द्यग्वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् । उपयामगृहीतो सि महेन्द्राय त्वैष ते योनिर्महेन्द्राय त्वा ॥

महान्। इन्द्रः। नृवदिति नृऽवत्। आ। चर्षणिप्रा इति चर्षणिऽप्राः। उत। द्विबर्हा इति द्विबर्हाः। अमिनः। सहोभिरिति सहःऽभिः। अस्मद्र्यक्। वावृधे। ववृध इति ववृधे। वीर्य्याय। उरुः। पृथुः। सुकृत इति सुऽकृतः। कर्तृभिरिति कर्तृऽभिः। भूत्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। महेन्द्रायेति महाऽइन्द्राय। त्वा। एषः। ते। योनिः। महेन्द्रायेति महाऽइन्द्राय। त्वा॥३९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(महान्) सर्वोत्कृष्टः पूज्यतमश्च (इन्द्रः) अत्युत्कृष्टैश्वर्यः (नृवत्) न्यायशीलैर्मनुष्यैस्तुल्यः (आ) (चर्षणिप्राः) चर्षणीन्= मनुष्यान् प्राति=सुखैः प्रपूरयति सः (उत) अपि (द्विबर्हाः) द्वे बर्हसी=व्यावहारिकपारमार्थिकवृद्धिकरे विज्ञाने यस्य सः । द्विबर्हा इति पदनामसु पठितम् ॥ निघं० ४ । ३ ॥ (अमिनः) अनुपमोऽतुलपराक्रमः। अमिनो मितमात्रो महान् भवत्यमितो वा ॥ निरु० ६ । १६ ॥ (सहोभिः) बलैः (अस्मद्र्यक् ) अस्मानञ्चति सर्वज्ञतया जानाति (वावृधे) वर्द्धते वर्द्धयति वा (वीर्य्याय) पराक्रमाय (उरु:) बहुः (पृथुः) विस्तीर्णः (सुकृतः) शोभनं कृतं क्रियते येन सः (कर्तृभिः) सुकर्म्मकारिभिर्जीवैः सह (भूत्) भवति, अत्राडभावः (उपयामगृहीतः) योगाभ्यासेन स्वीकर्त्तुं योग्यः (असि) (महेन्द्राय) अनुत्तमायैश्वर्य्याय (त्वा) (एष:) (ते) (योनिः) (महेन्द्राय) (त्वा) त्वाम् । अयं मन्त्रः शत० ४ । ३ । ३ । १८ व्याख्यातः ।। ३९।।
Essence
अत्रोपमालङ्कारः।।ईश्वरमनाश्रित्य कश्चिदपि पुरुषः प्रजाः पालयितुं न शक्नोति, यथेश्वरः शाश्वतं न्यायमाश्रित्य सर्वान् प्राणिनः सुखयति, तथैव राजापि सर्वान् तर्पयेत् ।। ७ । ३९।।
Subject
अथेश्वरः स्वगुणानाह॥
Meaning of Anvay
हे भगवन् जगदीश्वर ! यतस्त्वमुपयामगृहीतः योगाभ्यासेन स्वीकर्तुं योग्यः असि, तस्मान्महेन्द्राय अनुत्तमायैश्वर्याय त्वा वयमुपास्महे, उत= श्रपि यतस्ते तवैष योनिरस्ति, तस्मात् [त्वा] त्वां महेन्द्राय अनुत्तमायैश्वर्य्याय वयं सेवामहे ।
यो महान् सर्वोत्कृष्टः पूज्यतमश्च नृवत् न्यायशीलैर्मनुष्यैस्तुल्यः आचर्षणिप्राः चर्षणीन्=मनुष्यान् प्राति=सुखैः प्रपूरयति सः द्विबर्हाः द्वे बर्हसी=व्यावहारिकपारमार्थिकवृद्धिकरे विज्ञाने यस्य सः अस्मद्र्यक् अस्मानञ्चति=सर्वज्ञतया जानाति अमिन: अनुपमोऽतुलपराक्रमः उरुः बहुः पृथुः विस्तीर्णः कर्तृभिः सुकर्म्मकारिभिर्जीवैःसह सुकृतः शोभनं कृतं क्रियते येन सः इन्द्रः अत्युत्कृष्टैश्वर्यः भूत् भवति, तमेवाश्रितः सर्वोजनः सहोभिः बलैः सह वीर्य्याय पराक्रमाय वावृधे वर्द्धते वर्द्धयति वा ॥ ७ । ३९।।
[यो महान्.......इन्द्रो भूत्, तमेवाश्रितः सर्वोजनः सहोभिः सह वीर्याय वावृधे]
Special
महानित्यस्य भरद्वाजः। प्रजापतिः=जगदीश्वरः।आद्यस्य भुरिक् पङ्क्तिः। पञ्चमः। उपयामेत्यस्य साम्नी त्रिष्टुप्। धैवतः॥ अथेश्वरः स्वगुणानाह॥