Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 37

48 Mantra
7/37
Devata- प्रजापतिर्देवता Rishi- विश्वामित्र ऋषिः Chhand- निचृत् आर्षी त्रिष्टुप्,विराट आर्ची पङ्क्ति Swara- धैवतः
Mantra with Swara
स॒जोषा॑ऽइन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान्। ज॒हि शत्रूँ॒२रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते॥३७॥

स॒जोषा॒ इ॒ति॑ स॒ऽजोषाः॑। इ॒न्द्र॒। सग॑ण इति॒ सऽग॑णः। म॒रुद्भि॒रिति॑ म॒रुत्ऽभिः॑। सोम॑म्। पि॒ब॒। वृ॒त्र॒हेति॑ वृत्र॒ऽहा। शू॒र॒। वि॒द्वान्। ज॒हि। शत्रू॑न्। अप॑। मृधः॑। नु॒द॒स्व॒। अथ॑। अ॒भय॑म्। कृ॒णु॒हि॒। वि॒श्वतः॑। नः॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते ॥३७॥

Mantra without Swara
सजोषाऽइन्द्र सगणो मरुद्भिः सोमम्पिब वृत्रहा शूर विद्वान् । जहि शत्रूँरप मृधो नुदस्वाथाभयङ्कृणुहि विश्वतो नः । उपयामगृहीतो सीन्द्राय त्वा मरुत्वतऽएष ते योनिरिन्द्राय त्वा मरुत्वते ॥

सजोषा इति सऽजोषाः। इन्द्र। सगण इति सऽगणः। मरुद्भिरिति मरुत्ऽभिः। सोमम्। पिब। वृत्रहेति वृत्रऽहा। शूर। विद्वान्। जहि। शत्रून्। अप। मृधः। नुदस्व। अथ। अभयम्। कृणुहि। विश्वतः। नः। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। मरुत्वते। एषः। ते। योनिः। इन्द्राय। त्वा। मरुत्वते॥३७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सजोषाः) समानं जोषः=प्रीतिर्यस्य (इन्द्र) सर्वसुखधारक सेनापते! (सगणः) गणेन=स्वजनसेनापरिकरेण सहितः (मरुद्भिः) वायुभिरिव (सोमम्) सकलपदार्थरसम् (पिब) (वृत्रहा) यो वृत्रं=मेघं हन्ति स वृत्रहा सूर्य्यस्तद्वत् (शूर) शत्रुविनाशक निर्भय (विद्वान्) सकलविद्यावेत्ता (जहि) विनाशय (शत्रून्) सत्यन्यायविरोधे प्रवर्त्तमानान् (अप) दूरीकरणे (मृधः) मर्द्धन्ति=उन्दन्ति परसुखैः स्वमनांसि येषु तान् संग्रामान् (नुदस्व) प्रेरय (अथ) अनन्तरम् (अभयम्) (कृणुहि) (विश्वतः) सर्वतः (नः) अस्मभ्यम् (उपयामगृहीतः) सेनासु नियमस्वीकृतः (असि) (इन्द्राय) परमैश्वर्यप्रापकाय युद्धाय (त्वा) त्वाम् (मरुत्वते) प्रशस्तानि मरुदस्त्राणि विद्यन्ते यस्मिंस्तस्मै (एष:) सेनाकृत्यव्यवहारः (ते) (योनिः) (इन्द्राय) (त्वा) (मरुत्वते) ।। ३७ ।।
Essence
अत्रोपमालङ्कारः॥ यथा जीवः प्रेम्णा स्वस्य मित्रस्य वा शरीरस्य रक्षणं करोति तथा राजा प्रजां पालयेत्, यथा वा--सूर्यो वायुविद्युद्भ्यां संहत्य मेघान्निहत्यं जलेन सर्वस्मै सुखं ददाति तथा राजा युद्धसाधनानि सम्पाद्य शत्रून् निहत्य प्रजायै सुखं दद्यात्।

[अथ मृधोऽपनुदस्व, नः=अस्मभ्यं विश्वतोऽभयं कृणुहि]

धर्मात्मभ्योऽभयं दुष्टेभ्यो भयं च दद्यात्।। ७ । ३७ ।।
Subject
अथ सेनापतिकृत्यमाह॥
Meaning of Anvay
हे इन्द्रः=सेनापते! सर्वसुखधारक सेनापते! शूर! शत्रुविनाशक निर्भय यतस्त्वमुपयामगृहीतः सेनासु नियमस्वीकृत: असि, अतो मरुत्वते प्रशस्तानि मरुदस्त्राणि विद्यन्ते यस्मिंस्तस्मै इन्द्राय परमैश्वर्यप्रापकाय युद्धाय त्वा= त्वामुपदिशामि, किमित्यपेक्षायामाह ते=तवैषः सेनाकृत्यव्यवहारः योनिरस्ति, अतः [त्वा]=त्वां मरुत्वत इन्द्राय प्रयत्नमानमङ्गीकरोमि। सजोषाः समानं जोष:=प्रीतिर्यस्यसगणः गणेन=स्वजनसेनापरिकरेण सहितः त्वं मरुद्भिः वायुभिरिव वृत्रहा यो वृत्रं=मेघं हन्ति स वृत्रहा सूर्य्य इव सोमं सकलपदार्थरसंपिब, तं पीत्वा विद्वान् सकलविद्यावेत्ता सन् शत्रून् सत्यन्यायविरोधे प्रवर्त्तमानान् जहि विनाशय। अथ अनन्तरं मृधः मर्द्धन्ति=उन्दन्ति परसुखैः स्वमनांसि येषु तान् संग्रामान्अपनुदस्व दूरीकरणाय प्रेरय, नः=अस्मभ्यं विश्वतः सर्वतः अभयं कृणुहि।। ७ । ३७ ।। [हे इन्द्र=सेनापते!.......सजोषाः सगणस्त्वं वृत्रहाइव सोमं पिब, तं पीत्वा विद्वान् सन् शत्रुन् जहि]
Special
विश्वामित्रः। प्रजापतिः=सभापतिः, सेनाध्यक्षस्व। आद्यस्य निचृदार्षी त्रिष्टुप्, उपयामेत्यस्य प्राजापत्या त्रिष्टुप्। धैवतः।।