Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 36

48 Mantra
7/36
Devata- प्रजापतिर्देवता Rishi- विश्वामित्र ऋषिः Chhand- विराट आर्षी त्रिष्टुप्,विराट आर्ची पङ्क्ति,साम्नी उष्णिक् Swara- धैवतः, ऋषभः
Mantra with Swara
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं॑ दि॒व्यꣳ शा॒समिन्द्र॑म्। वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रꣳ स॑हो॒दामि॒ह तꣳ हु॑वेम। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते। उ॒प॒या॒मगृ॑हीतोऽसि म॒रुतां॒ त्वौज॑से॥३६॥

म॒रुत्व॑न्तम्। वृ॒ष॒भम्। वा॒वृ॒धा॒नम्। वा॒वृ॒धा॒नमिति॑ ववृधा॒नम्। अक॑वारि॒मित्यक॑वऽअरिम्। दि॒व्यम्। शा॒सम्। इन्द्र॑म्। वि॒श्वा॒साह॑म्। वि॒श्व॒सह॒मिति॑ विश्व॒ऽसह॑म्। अव॑से। नूत॑नाय। उ॒ग्रम्। स॒हो॒दामिति॑ सहः॒ऽदाम्। इ॒ह। तम्। हु॒वे॒म॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। म॒रुता॑म् त्वा॒। ओज॑से ॥३६॥

Mantra without Swara
मरुत्वन्तँवृषभँवावृधानमकवारिं दिव्यँ शासमिन्द्रम् । विश्वासाहमवसे नूतनायोग्रँसहोदामिह तँ हुवेम । उपयामगृहीतो सीन्द्राय त्वा मरुत्वतऽएष ते योनिरिन्द्राय त्वा मरुत्वते । उपयामगृहीतो सि मरुतान्त्वौजसे ॥

मरुत्वन्तम्। वृषभम्। वावृधानम्। वावृधानमिति ववृधानम्। अकवारिमित्यकवऽअरिम्। दिव्यम्। शासम्। इन्द्रम्। विश्वासाहम्। विश्वसहमिति विश्वऽसहम्। अवसे। नूतनाय। उग्रम्। सहोदामिति सहःऽदाम्। इह। तम्। हुवेम। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। मरुत्वते। एषः। ते। योनिः। इन्द्राय। त्वा। मरुत्वते। उपयामगृहीत इत्युपयामऽगृहीतः। असि। मरुताम् त्वा। ओजसे॥३६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मरुत्वन्तम्) प्रशस्तप्रजायुक्तम् (वृषभम्) सर्वोत्तमम् (वावृधानम्) अतिशयेन शुभगुणकर्मसु वर्द्धमानम् (अकवारिम्) कौति=धर्ममुपदिशतीति कवो न कवोऽकवोऽधर्म्मात्मा तस्यारिः=शत्रुस्तम् (दिव्यम्) शुद्धम् (शासम्) शासितारम् (इन्द्रम्) ऐश्वर्य्यवन्तम् (विश्वासाहम्) विश्वान्=सर्वान् सहते तम्। अत्र विश्वपूर्वात् सहधातोः। छन्दसि सहः ॥ ३ । २ । ६३ ॥ इति ण्विः। अन्येषामपि दृश्यते ।। अ० ६ । ३ । १३७ ।। इति दीर्घश्च (अवसे) रक्षणाद्याय (नूतनाय) नवीनाय (उग्रम्) प्रचण्डपराक्रमम् (सहोदाम्) यः सहो=बलं ददाति तम् (इह) अस्यां प्रजायाम् (तम्) (हुवेम) स्वीकुर्वीमहि (उपयामगृहीतः) सर्वनियमोपनियमसामग्रीसहितः (असि) (इन्द्राय) परमैश्वर्याय (त्वा) त्वाम् (मरुत्वते) प्रशंसितप्रजायुक्ताय (एषः) (ते) (योनिः) (इन्द्राय) (त्वा) (मरुत्वते) (उपयामगृहीतः) (असि) (मरुताम्) (त्वा) त्वाम् (ओजसे) बलाय॥ अयं मन्त्रः शत० ४ । ३ । ३ । १४ व्याख्यातः ॥ ३६॥
Essence
अत्र पूर्वस्मान्मन्त्रात् ‘कवयः'इत्येतत् पदमनुवर्त्तते।
[कवयो वयं........तं पूर्वोक्तमिन्द्रंहुवेम]
प्रजाजनानां योग्यतास्ति यः सर्वोत्तमः सकलगुणयुक्तो विपश्चिच्छूरवीरो भवन्तं सभाया मुख्यकर्मणि संस्थापयेयुः।
[हे मुख्यसभासद्!......मरुतामोजसे च त्वा=त्वां हुवेम]
स सभायां सत्यन्यायधर्मयुक्तराज्यकर्मणाप्रजाबलं वर्द्धयेत् ।। ७ । ३६ ।।
Subject
पुनः राजप्रजाकृत्यमाह ।।
Meaning of Anvay
कवयो वयं नूतनाय नवीनायअवसे रक्षणाद्याय मरुत्वन्तं प्रशस्तप्रजायुक्तं वृषभं सर्वोत्तमं वावृधानम् अतिशयेन शुभगुणकर्मसु वर्द्धमानम् अकवारिं कौति=धर्ममुपदिशतीति कवः, न कवोऽकवोऽधर्म्मात्मा तस्यारिः=शत्रुस्तं दिव्यं शुद्धं विश्वासाहं विश्वान्=सर्वान् सहते तम् उग्रं प्रचण्डपराक्रमं सहोदां यः सहः=बलं ददाति तं शासं शासितारं तं पूर्वोक्तमिन्द्रम् ऐश्वर्य्यवन्तं हुवेम स्वीकुर्वीमहि।
हे मुख्यसभासद्! यतस्त्वमुपयामगृहीतः सर्वनियमोपनियमसामग्रीसहितः असि, तस्मात्त्वा=त्वां मरुत्वते प्रशंसितप्रजायुक्ताय इन्द्राय परमैश्वर्याय यतस्ते=तवैष योनिरस्ति, अतस्त्वा मरुत्वते प्रशंसितप्रजायुक्ताय इन्द्राय परमैश्वर्य्याय यतस्त्वमुपयामगृहीतः सर्वनियमोपनियमसामग्रीसहितः असि, तस्मान्मरुतामोजसे बलायच त्वा=त्वां हुवेम स्वीकुर्वीमहि ।। ७ । ३६ ।।
[अनुवृत्तिमाह --]
Meaning of Essence
ओजसे=प्रजाबलाय॥
Special
विश्वामित्रः। प्रजापतिः=राजा। विराडार्षी त्रिष्टुप्। धैवतः। उपयामेत्यस्य द्वितीयभागस्यार्षी उष्णिक् तृतीयस्य साम्न्युष्णिक्। ऋषभः ।।