Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 35

48 Mantra
7/35
Devata- प्रजापतिर्देवता Rishi- विश्वामित्र ऋषिः Chhand- आर्षी त्रिष्टुप्,विराट आर्ची पङ्क्ति, Swara- धैवतः, ऋषभः
Mantra with Swara
इन्द्र॑ मरुत्वऽइ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒तेऽअपि॑बः सु॒तस्य॑। तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्नावि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते॥३५॥

इन्द्रः॑। म॒रु॒त्वः॒। इ॒ह। पा॒हि॒। सोम॑म्। यथा॑। शा॒र्य्या॒ते। अपि॑बः। सु॒तस्य॑। तव॑। प्रणी॑ती। प्रनी॑तीति॒ प्रऽनी॑ती। तव॑। शू॒र॒। शर्म्म॑न्। आ। वि॒वा॒स॒न्ति॒। क॒वयः॑। सु॒य॒ज्ञा इति॑ सुऽय॒ज्ञाः। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते ॥३५॥

Mantra without Swara
इन्द्र मरुत्वऽइह पाहि सोमँयथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः सुयज्ञाः । उपयामगृहीतो सीन्द्राय त्वा मरुत्वतेऽएष ते योनिरिन्द्राय त्वा मरुत्वते ॥

इन्द्रः। मरुत्वः। इह। पाहि। सोमम्। यथा। शार्य्याते। अपिबः। सुतस्य। तव। प्रणीती। प्रनीतीति प्रऽनीती। तव। शूर। शर्म्मन्। आ। विवासन्ति। कवयः। सुयज्ञा इति सुऽयज्ञाः। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। मरुत्वते। एषः। ते। योनिः। इन्द्राय। त्वा। मरुत्वते॥३५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इन्द्र) सर्वविघ्नविदारकसकलैश्वर्य्ययुक्त सम्राट्! (मरुत्व:) मरुतः=प्रशस्ता धर्मसम्बद्धाः प्रजा यस्य तत्सम्बुद्धौ (इह) अस्मिन् संसारे (पाहि) रक्ष (सोमम्) सकलगुणैश्वर्य्यकल्याणकर्माध्ययनाध्यापनाख्यं यज्ञम् (यथा) (शार्यतते) शर्य्याभिरंगुलिभिर्निर्वृत्तानि कर्म्माणिशार्य्याणि तान्यतति=व्याप्नोति स शार्य्यातस्तस्मिन्। शर्य्या इत्यङ्गुलिनामसु पठितम् ॥ निघं० २ । ५ ॥ (अपिबः) (सुतस्य) (तव) (प्रणीती) प्रकृष्टां नीतिम्। अत्र सुपां सुलुक् ॥ अ० ७ । १ । ३९ ॥ इति पूर्वसवर्णादेश: (तव) (शूर) धर्मविरोधिहिंसक (शर्मन्) न्यायगृहे। अत्र सुपां सुलुगिति ङेर्लुक्। न ङि सम्बुद्ध्योः ॥ अ०८ । २। ८ ॥इति नलोपाभाव: (आ) (विवासन्ति) परिचरन्ति। विवासतीति परिचरणकर्म्मसु पठितम् ॥ निघं० ३ । ५ ॥ (कवयः) मेधाविनः। कविरिति मेधाविनामसु पठितम् ।। निघं० ३ । १५ ।। (सुयज्ञाः) शोभनोऽध्ययनाध्यापनाख्यो यज्ञो येषां त इव (उपयामगृहीतः) (असि) (इन्द्राय) परमैश्वर्याय (त्वा) त्वाम् (मरुत्वते) प्रजा सम्बन्धाय। अत्र सम्बन्धे मतुप् झय इति मस्य वत्वम् (एष:) (ते) (योनिः) (इन्द्राय) (त्वा) (मरुत्वते)॥अयं मंत्रः शत० ४ । ३ । ३ । १३ व्याख्यातः ॥ ३५॥
Essence
सर्वेषां विदुषामुचितमस्ति--न्यायराजसभाज्ञां नोल्लङ्घेरन्, तथैते राजसभासभ्यजना अपि विद्वदाज्ञां नोल्लङ्घेरन्।
[[त्वा]=त्वामिन्द्रायमरुत्वते मन्यामहे]
यः सर्वोत्कृष्टस्तं सभापतिं कुर्युः। स सभापतिरुत्तमनीत्या सर्वराज्यप्रबन्धं कुर्यात् ।। ७ । ३५ ।।
Subject
अथ राजाऽध्यापनादिव्यवहाररक्षणं कथं कुर्य्यादित्युपदिश्यते।।
Meaning of Anvay
हे मरुत्वः! मरुतः=प्रशस्ता धर्मसम्बद्धाः प्रजा यस्य तत्सम्बुद्धौ इन्द्र! सर्वविघ्नविदारक सकलैश्वर्ययुक्त सम्राट्! त्वमिह अस्मिन् संसारे यथा शार्य्याते शर्य्याभिरङ्गुलिभिर्निर्वृत्तानि कर्माणि शर्य्याणि तान्यतति=व्याप्नोति स शार्य्यातस्तस्मिन् सुतस्यापिबः, तथा सोमं सकलगुणैश्वर्य्यकल्याणकर्माध्ययनाध्यापनाख्यं यज्ञं पाहि रक्ष।
हे शूर! धर्मविरोधिहिंसक! तव शर्म्मन्=न्यायगृहे सुयज्ञा शोभनोऽध्ययनाध्यापनाख्यो यज्ञो येषां त इव कवयः मेधाविनः तव प्रणीतिं प्रकृष्टां नीतिम् आविवासन्ति परिचरन्ति, यतस्त्वमुपयामगृहीतोऽसि, तस्मात् [त्वा]=त्वामिन्द्राय परमैश्वर्याय मरुत्वते प्रजासम्बन्ध्याय वयं सेवेमहि।
ते=तवैष=विद्याप्रचारो योनिरस्ति, अतः [त्वा] त्वामिन्द्राय परमैश्वर्य्याय मरुत्वते प्रजासम्बन्धाय मन्यामहे ॥ ७। ३५ ॥
[हे शूर! तव शर्मन्=न्यायगृहे सुयज्ञा इव कवयस्तव प्रणीतिमाविवासन्ति]
Special
विश्वामित्रः। प्रजापतिः=राजा। निचृदार्षीत्रिष्टुपः। धैवतः। उपयाम इत्यस्यार्ष्युष्णिक्। ऋषभः ॥