Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 34

48 Mantra
7/34
Devata- विश्वेदेवा देवताः Rishi- गृत्समद ऋषिः Chhand- आर्षी गायत्री,निचृत् आर्षी उष्णिक् Swara- ऋषभः, षड्जः
Mantra with Swara
विश्वे॑ देवास॒ऽआग॑त शृणु॒ता म॑ऽइ॒मꣳ हव॑म्। एदं ब॒र्हिर्निषी॑दत। उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ऽए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑॥३४॥

विश्वे॑। दे॒वा॒सः॒। आ। ग॒त॒। शृ॒णु॒त। मे॒। इ॒मम्। हव॑म्। आ। इ॒दम्। ब॒र्हिः। नि। सी॒द॒त॒। उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑। ए॒षः। ते॒। योनिः॑। विश्वे॑भ्यः। त्वा। दे॒वेभ्यः॑ ॥३४॥

Mantra without Swara
विश्वे देवास आ गत शृणुता म इमँ हवम् । एदम्बर्हिर्नि षीदत । उपयामगृहीतोसि विश्वेभ्यस्त्वा देवेभ्यऽएष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः ॥

विश्वे। देवासः। आ। गत। शृणुत। मे। इमम्। हवम्। आ। इदम्। बर्हिः। नि। सीदत। उपयामगृहीत इत्युपयामऽगृहीतः। असि। विश्वेभ्यः। त्वा। देवेभ्यः। एषः। ते। योनिः। विश्वेभ्यः। त्वा। देवेभ्यः॥३४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(विश्वे) सर्वे (देवासः) विद्वांसः (आ) (गत) आगच्छत (शृणुत) अत्र संहितायाम् ॥ अ० ६ । ३ । ११४ ॥ इति दीर्घः। (मे) मम विद्यार्थिनः (इमम्) वक्ष्यमाणम् (हवम्) स्तुतिवादम् (आ) समन्तात् (इदम्) अस्माभिर्दत्तम् (बर्हिः) उत्तममासनम् (नि) नितराम् (सीदत) आध्वम् (उपयामगृहीतः) (असि) (विश्वेभ्यः) समस्तेभ्यः (त्वा) त्वाम् (देवेभ्य:) अध्यापकेभ्यः (एषः) सकलविद्यासंग्रहः (ते) तव (योनि:) गृहम् (विश्वेभ्यः) (त्वा) त्वाम् (देवेभ्यः) ॥ अयं मन्त्रः शत० ४ । २ । ५। २६ व्याख्यातः ॥ ३४ ॥
Essence
एके विद्वांसोऽन्वहं विद्यार्थिनः पाठयेयुरपरे विपश्चितो विद्वांसः प्रतिमासमध्येतॄणां परीक्षणं च कुर्युः। तत्कृत्वाऽध्यापकाः प्रतिततीव्रबुद्धीन् परिश्रमं कुर्वतोऽध्येतृनतिश्रमेण पाठयेयुरिति ।। ७ । ३४।।
Subject
अथ प्रत्यहमध्यापनविषयमाह।।
Meaning of Anvay
हे पूर्वमन्त्रप्रतिपादितगुणकर्म्मस्वभावाविश्वे सर्वे देवासः! विद्वांसः ! यूयमस्माकं निकटमागत आगच्छत, अस्माभिर्दत्तमिदं बर्हिः=आसनम् उत्तममासनम् आनिषीदत समन्तान्नितराम् माध्वम्; मे=मम विद्यार्थिनः इमं वक्ष्यमाणं हवं स्तुतिवादं शृणुत।
गृहस्थाः स्वपुत्रादीन् प्रत्येवं ब्रूयुः--यतस्त्वमुपयामगृहीतोऽसि तस्मात् त्वा=त्वां विश्वेभ्यः समस्तेभ्य: देवेभ्यः अध्यापकेभ्यः प्रयच्छेम, ते=तवैषः सकलविद्यासङ्ग्रहः योनिः गृहम्अस्ति, त्वा=त्वां विश्वेभ्यो देवेभ्योऽधिकां विद्यां दापयेम।। ७ । ३४।।
[हे........विश्वे देवासः! यूयमस्माकं निकटमागत, अस्माभिर्दत्तमिदं बर्हिः=आसनमानिषीदत, मे=ममेमं हवं शृणुत]
Special
गृत्समदः। विश्वेदेवाः=विद्वांसः। आद्यस्यार्षी गायत्री। षड्जः। उपयाम इत्यस्य निचृदार्ष्युष्णिक्। ऋषभः॥