Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 3

48 Mantra
7/3
Devata- विद्वांसो देवता Rishi- गोतम ऋषिः Chhand- विराट ब्राह्मी जगती, Swara- निषादः
Mantra with Swara
स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्यऽइन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा सुभव॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्यो॒ देवा॑शो॒ यस्मै॒ त्वेडे॒ तत्स॒त्यमु॑परि॒प्रुता॑ भ॒ङ्गेन॑ ह॒तोऽसौ फट् प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा॥३॥

स्वाङ्कृ॑त॒ इति॒ स्वाम्ऽकृ॑तः। अ॒सि॒। विश्वे॑भ्यः। इ॒न्द्रि॒येभ्यः॑। दि॒व्येभ्यः॑। पार्थि॑वेभ्यः। मनः॑। त्वा॒। अ॒ष्टु॒। स्वाहा॑। त्वा॒। सु॒भ॒वेति॑ सुऽभव। सूर्य्या॑य। दे॒वेभ्यः॑। त्वा॒। म॒री॒चि॒पेभ्य॒ इति॑ मरीचि॒ऽपेभ्यः॑। देव॑। अ॒शो॒ऽइत्य॑ऽशो॒। यस्मै॑। त्वा॒। ईडे॑। तत्। स॒त्यम्। उ॒प॒रि॒प्रुतेत्यु॑परि॒ऽप्रुता। भ॒ङ्गेन॑। ह॒तः। अ॒सौ। फट्। प्रा॒णाय॑। त्वा॒। व्या॒नायेति॑ विऽआ॒नाय॑। त्वा॒ ॥३॥

Mantra without Swara
स्वाङ्कृतोसि विश्वेभ्यऽइन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्त्वाष्टु स्वाहा त्वा सुभव सूर्याय । देवेभ्यस्त्वा मरीचिपेभ्यो देवाँशो यस्मै त्वेडे तत्सत्यमुपरिप्रुता भङ्गेन हतोसौ फट्प्राणाय त्वा व्यानाय त्वा ॥

स्वाङ्कृत इति स्वाम्ऽकृतः। असि। विश्वेभ्यः। इन्द्रियेभ्यः। दिव्येभ्यः। पार्थिवेभ्यः। मनः। त्वा। अष्टु। स्वाहा। त्वा। सुभवेति सुऽभव। सूर्य्याय। देवेभ्यः। त्वा। मरीचिपेभ्य इति मरीचिऽपेभ्यः। देव। अशोऽइत्यऽशो। यस्मै। त्वा। ईडे। तत्। सत्यम्। उपरिप्रुतेत्युपरिऽप्रुता। भङ्गेन। हतः। असौ। फट्। प्राणाय। त्वा। व्यानायेति विऽआनाय। त्वा॥३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(स्वाङ्कृतः) स्वयंकृत इव (असि) (विश्वेभ्यः) समस्तेभ्यः (इन्द्रियेभ्यः) श्रोत्रादिभ्यः (दिव्येभ्यः) दिवि भवेभ्यः (पार्थिवेभ्यः) पृथिव्यां विदितेभ्यः (मनः) शुद्धं विज्ञानम् (त्वा) त्वाम् (अष्टु) व्याप्नोतु (स्वाहा) वेदोक्ता वाक् (त्वा) त्वाम् (सुभव) भवतीति भवः शोभनश्चासौ भवश्व सुभवस्तत्संबुद्धौ (सूर्य्याय) सवित्रे (देवेभ्यः) शोधकेभ्यो वाय्वादिभ्यः (त्वा) त्वाम् (मरीचिपेभ्यः) किरणरक्षितृभ्य इव (देव) दिव्यात्मन् (अंशो) सूर्य्यवत् प्रकाशमान (यस्मै) (त्वा) त्वाम् (ईडे) स्तौमि (तत्) (सत्यम्) (उपरिप्रुता) उपरि प्रवते यस्तेन (भंगेन) मर्दनेन (हतः) नष्टः (असौ) शत्रुः (फट्) विशीर्ण:(प्राणाय) जीवनहेतवे (त्वा) (व्यानाय) विविधमानयति यस्मा इव (त्वा) त्वाम्॥ अयम्मन्त्रः शत० ४।१।१ ।२२-२८ व्याख्यातः ॥ ३॥
Essence
स्वयंभूमिर्जीवैर्देहप्राणेन्द्रियान्तःकरणानि निर्मलीकृत्य, धर्म्यव्यापारेषु प्रवर्त्त्य, परमेश्वरोपासने च संस्थाय, पुरुषार्थेन दुष्टान् हत्वा श्रेष्ठान् रक्षित्वानन्दितव्यमिति ॥ ७ । ३ ॥
Subject
पुनरात्मकृत्यमाह ॥
Meaning of Anvay
हे अंशो! सूर्यवत् प्रकाशमान देव!=दिव्यात्मन् ! यस्त्वं दिव्येभ्यः दिवि भवेभ्यः विश्वेभ्यः समस्तेभ्यः इन्द्रियेभ्यः श्रोत्रादिभ्यः पार्थिवेभ्यः पृथिव्यां विदितेभ्यः मरीचिपेभ्यः किरणरक्षितृभ्य इव देवेभ्यः शोधकेभ्यो वाय्वादिभ्यः स्वाङ्कृतः स्वयंकृत इव असि,तं [त्वा]=त्वां मनः शुद्धं विज्ञानं स्वाहा वेदोक्ता वाक् चाष्टु व्याप्नोतु।
हे सुभव! भवतीति भवः शोभनश्चासौ भवश्च सुभवस्तत्सम्बुद्धौ! यस्मै सूर्याय=चराचरात्मने परमेश्वराय सवित्रे [त्वा]= त्वामहमीडे स्तौमि, तत्सत्यं=परेशं गृहाण, उपरिप्रुतेव उपरि प्रवते यस्तेन येन त्वया भङ्गेन मर्दनेन असौ=शत्रुः फट् विशीर्णः हतः नष्टः तं त्वा=त्वां प्राणाय जीवनहेतवे ईडे स्तौमि, व्यानाय विविधमानयति यस्मा इव त्वा=त्वाम् ईडे स्तौमि ॥ ७ । ३॥
[हे अंशो देव=दिव्यात्मन्! यस्त्वं दिव्येभ्यो विश्वेभ्य इन्द्रियेभ्यः, पार्थिवेभ्यः......देवेभ्य: स्वाङ्कृतोऽसि, तं [त्वा]=त्वां मनः स्वाहा चाष्टु,......सूर्याय=चराचरात्मने परमेश्वराय [त्वा]=त्वामहमीडे, येन त्वया भङ्गेनासौ शत्रुः फड्ढतस्तं त्वा=त्वां प्राणायेडे]
Special
गोतमः। विद्वांसः=स्पष्टम्॥ विराट् ब्राह्मी जगती । निषादः ॥