Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 29

48 Mantra
7/29
Devata- प्रजापतिर्देवता Rishi- देवश्रवा ऋषिः Chhand- आर्ची पङ्क्ति,भूरिक् साम्नी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
को॑ऽसि कत॒मोऽसि॒ कस्या॑सि॒ को नामा॑सि। यस्य॑ ते॒ नामाम॑न्महि॒ यं त्वा॒ सोमे॒नाती॑तृपाम। भूर्भुवः॒ स्वः सुप्र॒जाः प्र॒जाभिः॑ स्या सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑॥२९॥

कः। अ॒सि॒। क॒त॒मः। अ॒सि॒। कस्य॑। अ॒सि॒। कः। नाम॑। अ॒सि॒। यस्य॑। ते॒। नाम॑। अम॑न्महि। यम्। त्वा॒। सोमे॑न। अती॑तृपाम। भूरिति॒ भूः। भुव॒रिति॑ भु॒वः। स्व॒रिति॒ स्वः॑। सु॒प्र॒जा इति॑ सुऽप्र॒जाः। प्र॒जाभि॒रिति॑ प्र॒ऽजाभिः॑। स्या॒म्। सु॒वीर॒ इति॑ सु॒ऽवीरः॑। वी॒रैः। सु॒पोष॒ इति॑ सु॒ऽपोषः॑। पोषैः॑ ॥२९॥

Mantra without Swara
को सि कतमोसि कस्यासि को नामासि । यस्य ते नामामन्महि यन्त्वा सोमेनातीतृपाम । भूर्भुवः स्वः सुप्रजाः प्रजाभिः स्याँ सुवीरो वीरैः सुपोषः पोषैः ॥

कः। असि। कतमः। असि। कस्य। असि। कः। नाम। असि। यस्य। ते। नाम। अमन्महि। यम्। त्वा। सोमेन। अतीतृपाम। भूरिति भूः। भुवरिति भुवः। स्वरिति स्वः। सुप्रजा इति सुऽप्रजाः। प्रजाभिरिति प्रऽजाभिः। स्याम्। सुवीर इति सुऽवीरः। वीरैः। सुपोष इति सुऽपोषः। पोषैः॥२९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(कः) (असि) (कतमः) बहूनां मध्ये कः (असि) (कस्य) (असि) (क:) (नाम) ख्यातिः (असि) (यस्य) (ते) तव (नाम) (अमन्महि) विजानीमहि। अत्र लिङर्थे लङ्। बहुलं छन्दसि॥अ० २ । ४ । ७३ ॥ इतिविकरणलुक् (यम्) (त्वा) त्वाम् (सोमेन) ऐश्वर्य्येण (अतितृपाम) तर्प्पयाम (भूः) भूमेः (भुव:) अन्तरिक्षस्य (स्व:) आदित्यलोकस्य (सुप्रजाः) सुष्ठुप्रजासहित: (प्रजाभिः) अनुकूलाभि पालनीयाभिः सह (स्याम्) भवेयम् (सुवीरः) प्रशस्तवीरयुक्तः (वीरैः) शरीरात्मबलयुक्तैर्युद्धकुशलैः सह (सुपोष:) प्रशस्तपुष्टि: (पोषैः) पुष्टिभिः॥ अयं मंत्रः शत० ४ । ५ । ६ । ४ व्याख्यातः ॥ २९॥
Essence
सभापती राजा सत्यन्यायप्रियव्यवहारेण सभ्यसैन्यप्रजाजनानभिरक्ष्य वर्द्धयेत्, प्रबलतरवीरान् सेनासु सम्पादयेद्यत उत्कृष्टसुखवर्द्धकेन राज्येन भूम्यादिसुखं प्राप्नुयादिति ॥ ७ । २९॥
Subject
सभापती राजा प्रजासेनासभ्यजनान् प्रति किं किं वदेदित्याह।।
Meaning of Anvay
सभ्यसेनास्थप्रजाजनावयं, त्वं कोऽसि, कतमः बहूनां मध्ये कः असि, कस्यासि, को नामासि=किन्नाम्ना प्रसिद्धः ख्यातिः असि, यस्य ते=तव नाम वयममन्महि विजानीमहि, यं त्वा=त्वां सोमेन ऐश्वर्येण अतीतृपाम तर्प्ययाम इति पृच्छामो, ब्रूहि । तान् प्रति सभापतिराह--भूः भूमेः भुवः अन्तरिक्षस्य स्वः आदित्यलोकस्य लोकसुखमिवात्मसुखमभीप्सुरहं युष्माभिः प्रजाभिः अनुकूलाभिः पालनीयाभिः सह सुप्रजाः सुष्ठुप्रजासहितः वीरैः शरीरात्मबलयुक्तैर्युद्धकुशलैः सह सुवीरः प्रशस्तवीरयुक्तः पोषैः पुष्टिभिः सुपोषः प्रशस्तपुष्टिः च स्यां भवेयम् इति प्रतिजाने ॥ ७ । २९ ॥
[सभापतिराह--भूर्भुवःस्वर्लोकसुखमिवात्मसुखमभीप्सुरहं युष्माभिः प्रजाभिः सुप्रजा वीरैः सुवीरःपोषैः सुपोषश्च स्यामिति प्रतिजाने]
Special
देवश्रवाः। प्रजापतिः=सभापती राजा ॥ आर्चीपंक्तिः। भूर्भुवस्स्वरित्यस्य भुरिक्साम्नी पंक्तिश्छन्दः। पंचमः स्वरः॥