Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 28

48 Mantra
7/28
Devata- यज्ञपतिर्देवता देवता Rishi- देवश्रवा ऋषिः Chhand- ब्राह्मी बृहती, Swara- मध्यमः
Mantra with Swara
आ॒त्मने॑ मे वर्चो॒दा वर्च॑से पव॒स्वौज॑से मे वर्चो॒दा वर्च॑से पव॒स्वायु॑षे मे वर्चो॒दा वर्च॑से पवस्व॒ विश्वा॑भ्यो मे प्र॒जाभ्यो॑ वर्चो॒दसौ॒ वर्च॑से पवेथाम्॥२८॥

आ॒त्मने॑। मे॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। ओज॑से। मे॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। आयु॑षे। मे॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। विश्वा॑भ्यः। मे॒। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑। व॒र्चो॒दसा॒विति॑ वर्चः॒ऽदसौ॑। वर्च॑से। प॒वे॒था॒म् ॥२८॥

Mantra without Swara
आत्मने मे वर्चादा वर्चसे पवस्वौजसे मे वर्चादा वर्चसे पवस्वायुषे मे वर्चादा वर्चसे पवस्व विश्वाभ्यो मे प्रजाभ्यो वर्चादसौ वर्चसे पवेथाम् ॥

आत्मने। मे। वर्चोदा इति वर्चःऽदाः। वर्चसे। पवस्व। ओजसे। मे। वर्चोदा इति वर्चःऽदाः। वर्चसे। पवस्व। आयुषे। मे। वर्चोदा इति वर्चःऽदाः। वर्चसे। पवस्व। विश्वाभ्यः। मे। प्रजाभ्य इति प्रऽजाभ्यः। वर्चोदसाविति वर्चःऽदसौ। वर्चसे। पवेथाम्॥२८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आत्मने) इच्छादिगुणसमवेताय स्वस्वरूपाय (मे) मम (वर्चोदा:) योगब्रह्मविद्याप्रद ! (वर्चसे) निजात्मप्रकाशाय (पवस्व) प्रापय (ओजसे) आत्मबलाय। ओज इति बलनामसु पठितम् ॥ निघं० २ ।९ ॥ (मे) मम (वर्चोदा:) विद्याप्रद! (वर्चसे) योगबलप्रकाशाय (पवस्व) विज्ञापय (आयुषे) जीवनाय (मे) (वर्चोदा:) वर्चो=बलं ददाति तत्सम्बुद्धौ (वर्चसे) रोगापहारकायौषधाय (पवस्व) गमय (विश्वाभ्यः) समस्ताभ्यः (मे) मम ( प्रजाभ्यः) पालनीयाभ्यः (वर्चोदसौ) न्यायप्रकाशकौ सर्वाधिष्ठातारौ सभापतिन्यायाधीशाविव योगारूढयोगजिज्ञासू (वर्चसे) सद्गुणप्रकाशाय (पवेथाम्) प्रापयेथाम् ॥ अयं मन्त्रः शत० ४।५ । ६ । ३ व्याख्यातः ॥ २८ ॥
Essence
नैव योगेन विना कश्चिदपि पूर्णविद्यो भवति, न च पूर्णया विद्वत्तया विना स्वात्मपरमात्मनोर्बोधः कथंचिज्जायते, नापि तेन विना सत्पुरुषवत् प्रजाः पालयितुं कश्चिदपि शक्नोति, तस्माद् योगविधिरयं सर्वजनैः संसेव्यः ॥ ७।२८।।
Subject
पुनस्तदेवाह ।।
Meaning of Anvay
हे वर्चोदाः=विद्वन्! योगब्रह्मविद्याप्रद ! त्वं मे =ममात्मने इच्छादिगुणसमवेताय स्वस्वरूपाय वर्चसे निजात्मप्रकाशाय पवस्व प्रापय ।
हे वर्चोदा:! विद्याप्रद! मे मम ओजसे आत्मबलाय वर्चसे योगबलप्रकाशाय पवस्व विज्ञापय ।
हे वर्चोदा:! वर्च:=बलं ददाति तत्सम्बुद्धौ!
मे=ममाऽऽयुषे जीवनाय वर्चसे रोगापहारकायौषधाय पवस्व गमय ।
हे वर्चोदसौ! न्यायप्रकाशकौ सर्वाधिष्ठातारौ सभापतिन्यायधीशाविव योगारूढ-योगजिज्ञासू! युवां मे=मम विश्वाभ्यः समस्ताभ्यः प्रजाभ्यः पालनीयाभ्यः वर्चसे सद्गुणप्रकाशाय पवेथां प्रापयेथाम् ।। ७।२८ ।।
[हे वर्चोदा:=विद्वन्! त्वं मे=ममात्मने वर्चसे पवस्व,......हे वर्चोदसौ! युवां मे=ममविश्वाभ्यः प्रजाभ्यो वर्चसे पवेथाम्]
Special
देवश्रवाः । यज्ञपतिः=विद्वान्॥ ब्राह्मी बृहती । मध्यमः ॥