Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 27

48 Mantra
7/27
Devata- यज्ञपतिर्देवता देवता Rishi- देवश्रवा ऋषिः Chhand- आसुरी अनुष्टुप्,आसुरी उष्णिक्,साम्नी गायत्री,आसुरी गायत्री Swara- ऋषभः, षड्जः
Mantra with Swara
प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्व व्या॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्वोदा॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्व वा॒चे मे॑ वर्चो॒दा वर्च॑से पवस्व॒ क्रतू॒दक्षा॑भ्यां मे वर्चो॒दा वर्च॑से पवस्व॒ श्रोत्रा॑य मे वर्चो॒दा वर्च॑से पवस्व॒ चक्षु॑र्भ्यां मे वर्चो॒दसौ॒ वर्च॑से पवेथाम्॥२७॥

प्रा॒णाय॑। मे॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। व्या॒नायेति॑ विऽआ॒नाय॑। मे॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। उ॒दा॒नायेत्यु॑त्ऽआ॒नाय॑। मे॒। व॒र्चो॒दा इति॑ वर्च॒ऽदाः। वर्च॑से। प॒व॒स्व॒। वा॒चे। मे॒। व॒र्चो॒दा इति वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। क्रतू॒दक्षा॑भ्याम्। मे॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। श्रोत्रा॑य। मे॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। वर्च॑से। प॒व॒स्व॒। चक्षु॑र्भ्या॒मिति॒ चक्षुः॑ऽभ्याम्। मे॒। व॒र्चो॒दसा॒विति॑ वर्चः॒ऽदसौ॑। वर्च॑से। प॒वे॒था॒म् ॥२७॥

Mantra without Swara
प्राणाय मे वर्चादा वर्चसे पवस्व व्यानाय मे वर्चादा वर्चसे पवस्व उदानाय मे वर्चादा वर्चसे पवस्व वाचे मे वर्चादा वर्चसे पवस्व क्रतूदक्षाभ्याम्मे वर्चादा वर्चसे पवस्व श्रोत्राय मे वर्चादा वर्चसे पवस्व चक्षुर्भ्याम्मे वर्चादसौ वर्चसे पवेथाम् ॥

प्राणाय। मे। वर्चोदा इति वर्चःऽदाः। वर्चसे। पवस्व। व्यानायेति विऽआनाय। मे। वर्चोदा इति वर्चःऽदाः। वर्चसे। पवस्व। उदानायेत्युत्ऽआनाय। मे। वर्चोदा इति वर्चऽदाः। वर्चसे। पवस्व। वाचे। मे। वर्चोदा इति वर्चःऽदाः। वर्चसे। पवस्व। क्रतूदक्षाभ्याम्। मे। वर्चोदा इति वर्चःऽदाः। वर्चसे। पवस्व। श्रोत्राय। मे। वर्चोदा इति वर्चःऽदाः। वर्चसे। पवस्व। चक्षुर्भ्यामिति चक्षुःऽभ्याम्। मे। वर्चोदसाविति वर्चःऽदसौ। वर्चसे। पवेथाम्॥२७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(प्राणाय) प्राणिति=जीवयतीति प्राणो=हृदयस्थो वायुस्तस्मै (मे) मम (वर्चोदा:) यथायोग्यं प्रकाशं ददाति, तत्संबुद्धौ (वर्चसे) विद्याप्रकाशाय (पवस्व) पवित्रतया प्राप्नुहि (व्यानाय) सर्वशरीरगतवायवे (मे) मम (वर्चोदाः) दीप्तिप्रदो जाठराग्निरिव (वर्चसे) अन्नाय। वर्च इत्यन्ननामसु पठितम् ॥ निघं० २ । ७ ॥ (पवस्व) (उदानाय) (मे) मम (वर्चोदाः) वर्चो=विद्याबलं ददाति पराक्रमाय (पवस्व) (वाचे) वाण्यै (मे) मम (वर्चोदाः) सत्यवक्तृत्वप्रदः (वर्चसे) प्रागल्भ्याय (पवस्व) प्रवर्त्तस्व (क्रतूदक्षाभ्याम्) प्रज्ञाबलाभ्याम् (मे) मम (वर्चोदा:) विज्ञानप्रदः (वर्चसे) शब्दार्थसंबन्धविज्ञानाय (पवस्व) उपदिश (श्रोत्राय) शब्दज्ञानाय (मे) मम (वर्चोदाः) तज्ज्ञानदः (वर्चसे) अध्ययनदीप्त्यै (पवस्व) प्रापको भव (चक्षुर्भ्याम्) (मे) मम (वर्चोदसौ) सूर्याचन्द्रमसाविवातिथ्यध्यापकौ (वर्चसे) शुद्धसिद्धांतप्रकाशाय (पवेथाम्) प्राप्नुतम् ॥ अयं मंत्रः शत० ४ । ५ । ६ । २ व्याख्यातः ॥ २७ ॥
Essence
यो मनुष्यो विद्यावृद्धये पठनपाठनरूपं यज्ञं कर्म करोति, स सर्वपुष्टिसन्तुष्टिकरो भवत्यत एवं सर्वैरनुष्ठातव्यम् ।। ७ । २७ ।।
Subject
पुनरध्ययनाध्यापनाख्ययज्ञकर्त्तुर्विषयान्तरमाह।।
Meaning of Anvay
हे वर्चोदाः यथायोग्यं ददाति तत सम्बुद्धौअध्येतरध्यापक! त्वं [मे]=मम प्राणाय प्राणिति जीवयतीति प्राणः= हृदयस्थो वायुस्तस्मै वर्चसे विद्याप्रकाशाय पवस्व पवित्रतया प्राप्नुहि।
हे वर्चोदाः! दीप्तिप्रदो जाठराग्निरिव ! [मे] मम व्यानाय सर्वशरीरगतवायवे वर्चसे अन्नाय पवस्व।
हे वर्चोदा: वर्चः=विद्याबलं ददातीति मे=ममोदानाय वर्चसे पराक्रमाय पवस्व।
हे वर्चोदा: सत्यवक्तृत्वप्रद ! मे=मम वाचे वाण्यैवर्चसे प्रागल्भ्याय पवस्व प्रवर्त्तस्व।
हे [वर्चोदा:] विज्ञानप्रद [मे] मम [क्रतूदक्षाभ्यां] प्रज्ञाबलाभ्यां [वर्चसे] शब्दार्थसम्बन्धविज्ञानाय [पवस्व] उपदिश।
हे [वर्चोदाः] तज्ज्ञानदः [मे] मम [श्रोत्राय] शब्दज्ञानाय [वर्चसे] अध्ययनदीप्त्यै] [पवस्व] प्रापको भव।
हे वर्चोदसौ ! सूर्य्याचन्द्रमसाविवातिथ्याध्यापकौयुवां मे मम चक्षुर्भ्यां वर्चसे शुद्धसिद्धान्तप्रकाशाय पवेथां प्राप्नुतम् ।। ७ । २७ ।।
[हे वर्चोदाः! अध्येतरध्यापक! त्वं [मे]=मम प्राणाय वर्चसे पवस्व......]
Special
देवश्रवा । यज्ञपतिः=विद्यादाता गुरुः। प्राणायेत्यस्य व्यानायेत्यस्य चासुर्य्यनुष्टुप्, उदानायेत्यस्यासुर्य्युष्णिक्, वाचेम इत्यस्य साम्नी गायत्री, क्रतूदक्षाभ्यामित्यस्यासुरी गायत्री, श्रोत्रायमेद्रत्यस्यासुर्य्यनुष्टुप्, चक्षुर्भ्यामित्यस्य चासुर्य्युष्णिक् छन्दांसि। अनुष्टुभो गान्धारो गायत्र्याः षड्ज उष्णिज ऋषभश्च स्वरः।।