Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 26

48 Mantra
7/26
Devata- यज्ञो देवता Rishi- देवश्रवा ऋषिः Chhand- स्वराट् ब्राह्मी बृहती Swara- मध्यमः
Mantra with Swara
यस्ते॑ द्र॒प्स स्कन्द॑ति॒ यस्ते॑ऽअ॒ꣳशुर्ग्राव॑च्युतो धि॒षण॑योरु॒पस्था॑त्। अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृत॒ꣳ स्वाहा॑ दे॒वाना॑मुत्क्रम॑णमसि॥२६॥

यः। ते॒। द्र॒प्सः। स्कन्द॑ति। यः। ते॒। अ॒ꣳशुः। ग्राव॑च्युत॒ इति॒ ग्राव॑ऽच्युतः। धि॒षण॑योः। उ॒पस्था॒दित्यु॒पऽस्था॑त्। अ॒ध्व॒र्य्योः। वा॒। परि॑। वा॒। यः। प॒वित्रा॑त्। तम्। ते॒। जु॒हो॒मि॒। मन॑सा। वष॑ट्कृत॒मिति॒ वष॑ट्ऽकृतम्। स्वाहा॑। दे॒वाना॑म्। उ॒त्क्रम॑ण᳖मित्यु॒त्ऽक्रम॑णम्। अ॒सि॒ ॥२६॥

Mantra without Swara
यस्ते द्रप्स स्कन्दति यस्ते अँशुर्ग्रावच्युतो धिषणयोरुपस्थाति अध्वर्यार्वा परि वा यः पवित्रात्तन्जुहोमि मनसा वषट्कृतँ स्वाहा देवानामुत्क्रमणमसि ॥

यः। ते। द्रप्सः। स्कन्दति। यः। ते। अꣳशुः। ग्रावच्युत इति ग्रावऽच्युतः। धिषणयोः। उपस्थादित्युपऽस्थात्। अध्वर्य्योः। वा। परि। वा। यः। पवित्रात्। तम्। ते। जुहोमि। मनसा। वषट्कृतमिति वषट्ऽकृतम्। स्वाहा। देवानाम्। उत्क्रमणमित्युत्ऽक्रमणम्। असि॥२६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यः) यजमानः (ते) तव (द्रप्सः) यज्ञपदार्थसमूहः । अत्र वाशर्प्रकरणे खर्परे लोपः इति विसर्जनीयलोपः ।। अ० ८।३।३६॥ भा० वा० (स्कन्दति) अन्यान् प्रति गच्छति (यः) (ते) तव (अंशुः) संविभागः। अत्रामधातोरुः प्रत्ययः शकारागमश्च (ग्रावच्युतः) ग्राव्णो=मेघाच्च्युतः ग्रावेति मेघनामसु पठितम् ॥ निघं० १ । १०॥ (धिषणयोः) द्यावापृथिव्योः। धिषणे इति द्यावापृथिवीनामसु पठितम् ॥ निघं० ३ । ३० ॥(उपस्थात्) समीपस्थात् (अध्वर्य्यो:) (वा) होत्रादीनां समुच्चये (परि) सर्वतः (वा) शुद्धगुणानां समुच्चये (यः) शुद्धपदार्थसमूहः (पवित्रात्) निर्मलात् (तम्) (ते) तुभ्यम् (जुहोमि) ददामि (मनसा) सुविचारेण (वषट्कृतम्) संकल्पितमिव (स्वाहा) सत्यवाचा (देवानाम्) आप्तानां विदुषाम् (उत्क्रमणम्) ऊर्ध्वक्रमणं तेज इव (असि)॥ अयं मन्त्रः शत० ४ । २। ५ ।२५ व्याख्यातः ॥ २६ ॥
Essence
अत्रोपमालङ्कारः॥ होत्रादयो विद्वांसोऽतीवदृढ्या सामग्र्या यज्ञमनुष्ठीयमानान् सुरभियुक्तान् पदार्थानग्नौ प्रक्षिपन्ति ते जलवायू संशोध्य मेघेन सह पृथिवीं प्राप्य, सर्वान् रोगान् निवर्त्त्य, सर्वान् प्राणिन आनन्दयन्ति। अतः सर्वैर्मनुष्यैरयं यज्ञः सदा सेव्यः ।। ७ । २६।।
Subject
अथेश्वरो यज्ञानुष्ठातारमुपदिशति।।
Meaning of Anvay
हे यज्ञपते! यः यजमानः ते तव द्रप्सः यज्ञपदार्थसमूहः स्कन्दति=वायुना सह सर्वत्र गच्छति, अन्यान् प्रति गच्छति, यश्च ते तव ग्रावच्युतः ग्राव्णः=मेघाच्चयुतः अंशुः संविभागः धिषणयोः द्यावापृथिव्योः पवित्रात् निर्मलात् उपस्थात् समीपस्थात् यः शुद्धपदार्थसमूहः वा=अध्वर्थ्योः होत्रादीनां सकाशात् [परि]=परितः सर्वतः वा शुद्धगुणान् प्रकाशते, तस्मात्तमहंते तुभ्यं स्वाहा सत्यवाचा मनसा सुविचारेण वषट्कृतं सङ्कल्पितमिव जुहोमि=तत्फलप्रदानेन तुभ्यं प्रयच्छामि ददामि, यतस्त्वं यज्ञानुष्ठाता देवानाम्आप्तानां विदुषाम् उत्क्रमणम् ऊर्ध्वक्रमणं तेज इवासि ।। ७ । २६ ।।
[हे यज्ञपते! यस्ते द्रप्सः स्कन्दति=वायुना सह सर्वत्र गच्छति, यश्च ते ग्रावच्युतोंऽशुर्धिषणयोः पवित्रादुपस्थात्........प्रकाशते, तस्मात्तमहं........जुहोमि]
Special
देवश्रवा। यज्ञः=स्पष्टम् ॥ स्वराड् ब्राह्मी बृहती मध्यमः॥