Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 24

48 Mantra
7/24
Devata- विश्वेदेवा देवताः Rishi- भरद्वाज ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
मू॒र्द्धानं॑ दि॒वोऽअ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒तऽआ जा॒तम॒ग्निम्। क॒विꣳ स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः॥२४॥

मू॒र्द्धान॑म्। दि॒वः। अ॒र॒तिम्। पृ॒थि॒व्याः। वै॒श्वा॒न॒रम्। ऋ॒ते। आ। जा॒तम्। अ॒ग्निम्। क॒विम्। स॒म्राज॒मिति॑ स॒म्ऽराज॑म्। अति॑थिम्। जना॑नाम्। आ॒सन्। आ। पात्र॑म्। ज॒न॒य॒न्त॒। दे॒वाः ॥२४॥

Mantra without Swara
मूर्धानन्दिवोऽअरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविँ सम्राजमतिथिञ्जनानामासन्ना पात्रञ्जनयन्त देवाः ॥

मूर्द्धानम्। दिवः। अरतिम्। पृथिव्याः। वैश्वानरम्। ऋते। आ। जातम्। अग्निम्। कविम्। सम्राजमिति सम्ऽराजम्। अतिथिम्। जनानाम्। आसन्। आ। पात्रम्। जनयन्त। देवाः॥२४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मूर्द्धानम्) शिरोवद्वर्त्तमानम् (दिवः) द्योतमानस्य सूर्य्यस्य (अरतिम्) ऋच्छति=प्राप्नोति तम् (पृथिव्याः) (वैश्वानरम्) यो विश्वान् नरानानन्दान् नयति तम्। वैश्वानरः कस्माद्विश्वान्नरान्तयति विश्व एनं नरा नयन्तीति वापि वा विश्वानर एव स्यात्।। निरु० ७ । २१॥ (ॠते) सत्ये। ऋतमिति सत्यनामसु पठितम् ॥ निघं० ३ । १० ॥ (आ) समन्तात् (जातम्) प्रसिद्धम् (अग्निम्) शुभगुणै: प्रकाशमानम् (कविम्) क्रान्तदर्शनम् (सम्राजम्) चक्रवर्त्तिनमिव (अतिथिम्) अतिथिवत्पूज्यम् (जनानाम्) सत्पुरुषाणाम् (आसन्) मुखे । अत्रास्य शब्दस्य ॥ पद्दन्नोमास्० अ० ६ । १ । ६३ ।। अनेनासन्नादेशः। सुपां सुलुक् ॥ [अ० ७ । १ । ३९ ॥ इति सप्तम्येकवचनस्य लुक् (आ) समन्तात् (पात्रम्) पाति=रक्षति समस्तं शिल्पव्यवहारं यस्तम् (जनयन्त) उत्पादयन्तु । अत्र लोडर्थे लङडभावश्च (देवाः) धनुर्वेदविदो विद्वांसः ॥ अयं मन्त्रः शत० ४ । २ । ४ । २४ तथा ब्रा० ५ । १ व्याख्यातः ॥ २४ ॥
Essence
अत्रोपमालङ्कारः॥ यथा सत्पुरुषा धनुर्वेदज्ञाः परोपकारिणो विद्वांसो धनुर्वेदोक्तक्रियाभिर्यानेषु शस्त्रास्त्रविद्यायां चानेकधाग्निं प्रदीप्य शत्रून् विजयन्ते तथैवान्यैरपि सर्वैर्जनैराचरणीयम् ॥ ७ । २४ ॥
Subject
अथ विद्वत्कृत्यमाह ।।
Meaning of Anvay
यथा देवाः=धनुर्वेदविदो विद्वांसो धनुर्वेदशिक्षया दिवः द्योतमानस्य सूर्य्यस्य मूर्द्धानं शिरोवद्वर्त्तमानं, पृथिव्या अरतिम् ऋच्छति=प्राप्नोति तम्, ऋते सत्ये आ+जातं समन्तात् प्रसिद्धं, वैश्वानरं यो विश्वान् नरान् आनन्दान् नयति तं, जनानां सत्पुरुषाणाम् अतिथिम् अतिथिवत्पूज्यम्, आसन् मुखे पात्रं पाति=रक्षति समस्तं शिल्पव्यवहारं यस्तं कविं क्रान्तदर्शनम् अग्निं शुभगुणैः प्रकाशमानं सम्राजमिव चकवर्त्तिनमिव आजनयन्त समन्ताद् उत्पातयन्तु तथा सर्वैरनुष्ठेयम् ।। ७ । २४ ।।
[यथा देवा:=धनुर्वेदविदो विद्वांसो धनुर्वेदशिक्षया.......अग्निं सम्राजमिवाजनयन्त, तथा सर्वैरनुष्ठेयम्]
Special
भारद्वाजः । विश्वेदेवाः=विद्वांसः। आर्षी त्रिष्टुप् । धैवतः ॥