Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 22

48 Mantra
7/22
Devata- विश्वेदेवा देवताः Rishi- वत्सार काश्यप ऋषिः Chhand- विराट ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वतऽउक्था॒व्यं गृह्णामि। यत्त॑ऽइन्द्र बृ॒हद्वय॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॑रु॒क्थेभ्य॑स्त्वा दे॒वेभ्य॑स्त्वा देवा॒व्यं य॒ज्ञस्यायु॑षे गृह्णामि॥२२॥

उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृहीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। बृहद्व॑त॒ इति॑ बृहत्ऽव॑ते। वय॑स्वते। उ॒क्थाव्य᳖मित्यु॑क्थऽअ॒व्य᳖म्। गृ॒ह्णा॒मि॒। यत्। ते॒। इ॒न्द्र॒। बृ॒हत्। वयः॑। तस्मै॑। त्वा॒। विष्ण॑वे। त्वा॒। ए॒षः। ते॒। योनिः॑। उ॒क्थेभ्यः॑। त्वा॒। दे॒वेभ्यः॑। त्वा॒। दे॒वा॒व्य᳖मिति॑ देवऽअ॒व्य᳖म्। य॒ज्ञस्य॑। आयु॑षे। गृ॒ह्णा॒मि॒ ॥२२॥

Mantra without Swara
उपयामगृहीतोसीन्द्राय त्वा बृहद्वते वयस्वतऽउक्थाव्यङ्गृह्णामि । यत्तऽइन्द्र बृहद्वयस्तस्मै त्वा विष्णवे त्वैष ते योनिरुक्थेभ्यस्त्वा देवेभ्यस्त्वा देवाव्यँयज्ञस्यायुषे गृह्णामि मित्रावरुणाभ्यान्त्वा ॥

उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। बृहद्वत इति बृहत्ऽवते। वयस्वते। उक्थाव्यमित्युक्थऽअव्यम्। गृह्णामि। यत्। ते। इन्द्र। बृहत्। वयः। तस्मै। त्वा। विष्णवे। त्वा। एषः। ते। योनिः। उक्थेभ्यः। त्वा। देवेभ्यः। त्वा। देवाव्यमिति देवऽअव्यम्। यज्ञस्य। आयुषे। गृह्णामि॥२२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उपयामगृहीतः) सुनियमैरधीतविद्यः (असि) (इन्द्राय) परमैश्वर्यवते (त्वा) त्वाम् (बृहद्वते) प्रशस्तानि बृहन्ति= कर्म्माणि यस्य तस्मै (वयस्वते) बहुजीवनं विद्यते यस्य तस्मै (उक्थाव्यम्)प्रशंसार्हाणि स्तोत्राणि शस्त्रविशेषाणि वा तस्य तमिव सेनापतिम् (गृह्णामि) (यत्) (ते) तव (इन्द्र) (बृहत्) (वयः) जीवनम् (तस्मै) (त्वा) त्वाम् (विष्णवे) परमेश्वराय यज्ञाय वा (त्वा) त्वाम् (एषः) (ते) तव (योनिः) स्थित्यर्थ: स्थानविशेष: (उक्थेभ्यः) प्रशंसनीयेभ्यो वेदोक्तेभ्यः कर्म्मभ्यः (त्वा) त्वाम् (देवेभ्य:) विद्वद्भयो दिव्यगुणेभ्यो वा (त्वा) त्वाम् (देवाव्यम्) उक्तानां देवानां पालकम् (यज्ञस्य) राज्यपालनादे: (आयुषे) जीवनाय (गृह्णामि)॥अयं मंत्रः शत० ४ । २ । ३ । १०-११ व्याख्यातः ॥ २२ ॥
Essence
सर्ववेत्ता विद्वान् राज्यव्यवहारेसैन्यवीराणां पालनाय सुशिक्षितं शस्त्रास्त्रपरमप्रवीणं यज्ञकर्मानुष्ठातारं वीरपुरुषं सेनापतित्वेऽभियुञ्जीयात्। सभापतिसेनापती परस्परानुमत्याराज्यं यज्ञं च वर्द्धेयातामिति ।। ७ । २२ ।।
Subject
कीदृशं जनं सेनापतिं कुर्य्यादित्युपदिश्यते।।
Meaning of Anvay
धर्मार्थकाममोक्षानिच्छुरहं हे इन्द्र=सेनापते ! त्वमुपयामगृहीतः सुनियमैरधीतविद्यः असि, अतो बृहद्वते प्रशस्तानि बृहन्ति=कर्म्माणि यस्य तस्मै, वयस्वते बहुजीवनं विद्यते यस्य तस्मै, इन्द्राय परमैश्वर्यवते उक्थाव्यं प्रशंसार्हाणि स्तोत्राणि शस्त्रविशेषाणि वा तस्य तमिव सेनापतिंत्वा=त्वां गृह्णामि।
यत् ते तव बृहद् वयः जीवनं तस्मै=तत्पालनाय [त्वा] त्वां, विष्णवे परमेश्वराय यज्ञाय वा त्वा=त्वां गृह्णामि।
एषः=सेनाधिकारस्ते तव योनिः स्थित्यर्थः स्थानविशेषः अस्ति।
उक्थेभ्यः प्रशंसनीयेभ्यो वेदोक्तेभ्यः कर्म्मभ्यः त्वा=त्वां देवेभ्यः विद्वद्भयो दिव्यगुणेभ्यो वा देवाव्यम् उक्तानां देवानां पालकं त्वा=त्वां यज्ञस्य राज्यपालनादे: आयुषे=वर्द्धनाय जीवनाय अपि गृह्णामि ॥ ७ । २२ ॥
[हे इन्द्र=सेनापते! त्वमुपयामगृहीतोऽसि, अतो......उक्थाव्यं त्वा=त्वां गृह्णामि, देवाव्यं त्वा=त्वां यज्ञस्यायुषे वर्द्धनायापि गृह्णामि ]
Meaning of Essence
उपयामगृहीतः=सुशिक्षितः। उक्थाव्यम्=शस्त्रास्त्रपरमप्रवीणम्। देवाव्यम्=वीरपुरुषम्।
Special
वत्सारः काश्यपः। विश्वेदेवाः=विद्वांसो दिव्यगुणा वा। निचृदष्टिः मध्यमः।।