Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 21

48 Mantra
7/21
Devata- सोमो देवता Rishi- वत्सार काश्यप ऋषिः Chhand- स्वराट् ब्राह्मी त्रिष्टुप्,याजुषी जगती Swara- धैवतः, निषादः
Mantra with Swara
सोमः॑ पवते॒ सोमः॑ पवते॒ऽस्मै ब्रह्म॑णे॒ऽस्मै क्ष॒त्राया॒स्मै सु॑न्व॒ते यज॑मानाय पवतऽइ॒षऽऊ॒र्जे प॑वते॒ऽद्भ्यऽओष॑धीभ्यः पवते॒ द्यावा॑पृथि॒वाभ्यां॑ पवते सुभू॒ताय॑ पवते॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ऽए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑॥२१॥

सोमः॑। प॒व॒ते॒। सोमः॑। प॒व॒ते॒। अ॒स्मै। ब्रह्म॑णे। अ॒स्मै। क्ष॒त्राय॑। अ॒स्मै। सु॒न्व॒ते। यज॑मानाय। प॒व॒ते॒। इ॒षे। ऊ॒र्ज्जे। प॒व॒ते॒। अ॒द्भ्यऽइत्य॒त्ऽभ्यः। ओष॑धीभ्यः। प॒व॒ते॒। द्यावा॑पृथि॒वीभ्या॑म्। प॒व॒ते॒। सु॒भूतायेति॑ सुऽभू॒ताय॑। प॒व॒ते॒। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑। ए॒षः। ते॒। योनिः॑। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑ ॥२१॥

Mantra without Swara
सोमः पवते सोमः पवतेस्मै ब्रह्मणेस्मै क्षत्रायास्मै सुन्वते यजमानाय पवतऽइष ऊर्जे पवतेद्भ्य ओषधीभ्यः पवते द्यावापृथिवीभ्याम्पवते सुभूताय पवते विश्वेभ्यस्त्वा देवेभ्यऽएष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः ॥

सोमः। पवते। सोमः। पवते। अस्मै। ब्रह्मणे। अस्मै। क्षत्राय। अस्मै। सुन्वते। यजमानाय। पवते। इषे। ऊर्ज्जे। पवते। अद्भ्यऽइत्यत्ऽभ्यः। ओषधीभ्यः। पवते। द्यावापृथिवीभ्याम्। पवते। सुभूतायेति सुऽभूताय। पवते। विश्वेभ्यः। त्वा। देवेभ्यः। एषः। ते। योनिः। विश्वेभ्यः। त्वा। देवेभ्यः॥२१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सोमः) सोम्यगुणसम्पन्नो राजा (पवते) विजानीयात्। लेट्प्रयोग: (सोमः)राजसभायाः सभासत् प्रजाजनो वा (पवते) पूतो भवेत् (अस्मै) प्रत्यक्षाय (ब्रह्मणे) परमेश्वराय वेदाय वा (अस्मै) (क्षत्राय) राज्याय क्षत्रियाय वा (अस्मै) (सुन्वते) सर्वविद्यासिद्धान्तं निष्पादयते (यजमानाय) संगच्छमानाय (पवते) (इषे) अन्नाय (उर्ज्जे) पराक्रमाय (पवते) (अद्भ्यः) जलेभ्यः प्राणेभ्यो वा (ओषधीभ्यः) सोमादिभ्यः (पवते) (द्यावापृथिवीभ्याम्) सूर्य्यभूमिभ्याम् (पवते) (सुभूताय) सुष्ठुसत्याय व्यवहाराय (पवते) (विश्वेभ्यः) समस्तेभ्यः (त्वा) त्वाम् (देवेभ्यः) दिव्येभ्यो गुणेभ्य: (एषः) राजधर्मगुणग्रहणम् (ते) तव (योनिः) वसतिः (विश्वेभ्यः) अखिलेभ्यः (त्वा) त्वाम् (देवेभ्यः) विद्वद्भयः।। अयं मन्त्रः श० ४ । २ । १२-१६ तथा ब्रा० ३ । १-९ व्याख्यातः॥ २१ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः।। यथा चन्द्रलोकः सर्वस्यै जगते हितकारी वर्त्तते, यथा च राजा सभ्यजनप्रजाजनाभ्यां सह तदुपकारायधर्मानुकूलं व्यवहारमाचरति तथैव सभ्यजनप्रजाजनौ राज्ञा सह वर्त्तेताम्।
य उत्तमव्यवहारगुणकर्म्मानुष्ठाता भवति, स एव राजा सभ्यजनश्च न्यायाधीशो भवितुमर्हति, यो धर्मात्मा जनः स एव प्रजायामग्र्यो गणनीयोऽस्त्येवमेते त्रयः परस्परं प्रीत्या पुरुषार्थेन विद्यादिगुणेभ्यः पृथिव्यादिपदार्थेभ्यश्चाखिलं सुखं प्राप्तुं शक्नुवन्ति ।। ७ । २१।।
Subject
अथ राजकृत्यमाह ॥
Meaning of Anvay
हे विद्वांसः! यथाऽयं सोमः सोम्यगुणसम्पन्नो राजा अस्मै प्रत्यक्षाय ब्रह्मणे परमेश्वराय वेदाय वा पवते विजानीयात्, अस्मै क्षत्राय राज्याय क्षत्रियाय वा पवते पूतो भवेत्,अस्मै सुन्वते सर्वविद्यासिद्धान्तं निष्पादयते यजमानाय सङ्गच्छमानाय पवते, इषे अन्नाय ऊर्ज्जेपराक्रमाय पवते, अद्भ्यः जलेभ्य: प्राणेभ्यःओषधीभ्यः सोमादिभ्यः पवते, द्यावापृथिवीभ्यां सूर्य्यभूमिभ्यां पवते, सुभूताय सुष्ठुसत्याय व्यवहाराय पवते, तद्वत् सोमः सभ्यजनः प्रजाजनः राजसभायाः सभासत् प्रजाजनो वा अप्येतस्मै सर्वस्मै पवताम्।
हे राजन् ! यस्य ते=तव एष: राजधर्मगुणग्रहणं योनिः वसतिः अस्ति, तं=[त्वा] त्वां विश्वेभ्यः समस्तेभ्यः देवेभ्यः विद्वद्भ्य वयं स्वीकुर्मः, तथा विश्वेभ्य: अखिलेभ्यः [देवेभ्यः] गुणेभ्यश्च दिव्येभ्यो गुणेभ्य: त्व=त्वामङ्गीकुर्महे ।। ७ । २१ ।।
[हे विद्वांसः! यथाऽयं सोमोऽस्मै ब्रह्मणे पवते......सुभूताय पवते, तद्वत् सोमः=सभ्यजनः प्रजाजनोऽप्येतस्मै सर्वस्मै पवताम्]
Meaning of Essence
सोमः=चन्द्रलोकः। पवते=हितकारी भवति। सुभूताय=धर्मानुकूल-व्यवहाराय ।।
Special
वत्सारः काश्यपः। सोमो:=सोम्यगुणगसम्पन्नो राजा।। स्वराड् ब्राह्मी त्रिष्टुप्। धैवतः। एष त इत्यस्य याजुषी जगती । निषादः॥