Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 18

48 Mantra
7/18
Devata- प्रजापतिर्देवता Rishi- वत्सार काश्यप ऋषिः Chhand- निचृत् त्रिष्टुप्,प्राजापत्या गायत्री Swara- धैवतः
Mantra with Swara
सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम्। स॒ञ्ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या म॒न्थी म॒न्थिशो॑चिषा॒ निर॑स्तो॒ मर्को॑ म॒न्थिनो॑ऽधि॒ष्ठान॑मसि॥१८॥

सु॒प्र॒जा इति॑ सुऽप्र॒जाः। प्र॒जा इति॑ प्र॒ऽजाः। प्र॒ज॒नयन्निति॑ प्रऽज॒नय॑न्। परि॑। इ॒हि॒। अ॒भि। रा॒यः। पोषे॑ण। यज॑मानम्। स॒ञ्ज॒ग्मा॒न इति॑ सम्ऽजग्मा॒नः। दि॒वा। पृ॒थि॒व्या। म॒न्थी। म॒न्थिशो॑चि॒षेति॑ म॒न्थिशो॑चिषा। निर॑स्त॒ इति॑ निःऽअ॑स्तः। मर्कः॑। म॒न्थिनः॑। अ॒धि॒ष्ठान॑म्। अ॒धि॒स्थान॒मित्य॑धि॒ऽस्थान॑म्। अ॒सि॒ ॥१८॥

Mantra without Swara
सुप्रजाः प्रजाः प्रजनयन्परीह्यभि रायस्पोषेण यजमानम् । सञ्जग्मानो दिवा पृथिव्या मन्थी मन्थिशोचिषा निरस्तो मर्को मन्थिनो धिष्ठानमसि ॥

सुप्रजा इति सुऽप्रजाः। प्रजा इति प्रऽजाः। प्रजनयन्निति प्रऽजनयन्। परि। इहि। अभि। रायः। पोषेण। यजमानम्। सञ्जग्मान इति सम्ऽजग्मानः। दिवा। पृथिव्या। मन्थी। मन्थिशोचिषेति मन्थिशोचिषा। निरस्त इति निःऽअस्तः। मर्कः। मन्थिनः। अधिष्ठानम्। अधिस्थानमित्यधिऽस्थानम्। असि॥१८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सुप्रजाः) शोभना प्रजा यस्य स सुप्रजा: स यथा स्यात्तथा (प्रजाः) प्रजा एव (प्रजनयन्) परमेश्वर इव प्रकटयन् (परि) सर्वतः (इहि) जानीहि (अभि) आभिमुख्ये (रायः) धनसमूहस्य (पोषेण) पुष्ट्या (यजमानम्) सुखप्रदम् (संजग्मानः) धीरतादिशुभगुणेष्वासक्तः (दिवा) सूर्येण (पृथिव्या) भूम्या (मन्थी) मन्थितुं शीलमस्य न्यायाधीशस्य सः (मन्थिशोचिषा) सूर्य्यदीप्त्येव (निरस्तः) नितरां प्रक्षिप्त इव (मर्कः) मृत्युनिमित्तः खल्वन्यायकारी (मन्थिनः) न्यायकारिणः (अधिष्ठानम्) आधार इव (असि)।। अयं मन्त्रः शत० ४ । २ । १ । १७-२० व्याख्यातः ॥ १८॥
Essence
अत्रोपमालङ्कारः॥ न्यायाधीशो यजमानस्य पुरोहित इव प्रजाः सततं पालयेत् ।। ७ । १८ ।।
Subject
षड्जः। न्यायाधीशेन प्रजाः प्रति कथं वर्त्तितव्यमित्युपदिश्यते॥
Meaning of Anvay
भो न्यायाधीश!सुप्रजा: शोभना प्रजा यस्य स सुप्रजाः स यथा स्यात्तथा त्वं प्रजाः प्रजा एव प्रजनयन् परमेश्वर इव प्रकटयन् रायः धनसमूहस्य पोषेण पुष्ट्या सहः यजमानं सुखप्रदम् अभि+परि+इहि आभिमुख्येन सर्वतो जानीहि, सर्वथा तस्य धनवृद्धिमिच्छ, मन्थी मन्थितुं शीलमस्य न्यायाधीशस्य सः त्वं दिवा सूर्येण पृथिव्या भूम्या संजग्मानः धीरतादिशुभगुणेष्वासक्तः भव, तद्गुणीभवेति भावः, यतस्त्वं मन्थिनः न्यायकारिणः अधिष्ठानम् आधार इव अस्यतस्ते मन्थिशोचिषा सूर्यदीप्त्येव मर्क: मृत्युनिमित्तः खल्वन्यायकारी निरस्तः नितरां प्रक्षिप्त इव भवतु ॥ ७ । १८॥
[भो न्यायाधीश! सुप्रजास्त्वं प्रजाः प्रजनयन् रायस्पोषेण सह यजमानमभिपरीहि]
Special
वत्सारः काश्यपः। प्रजापतिः=न्यायाधीशः॥ निचृत् त्रिष्टुप्छन्दः। धैवतः ॥ मन्थिनोधिष्ठानमित्यस्य प्राजापत्या गायत्री।