Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 16

48 Mantra
7/16
Devata- विश्वेदेवा देवताः Rishi- वत्सार काश्यप ऋषिः Chhand- निचृत् आर्षी त्रिष्टुप्,साम्नी गायत्री Swara- षड्जः
Mantra with Swara
अ॒यं वे॒नश्चो॑दय॒त् पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑। इ॒मम॒पा स॑ङ्ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति। उ॒प॒या॒मगृ॑हीतोऽसि॒ मर्का॑य त्वा॥१६॥

अ॒यम्। वे॒नः। चो॒द॒य॒त्। पृश्नि॑गर्भा॒ इति॒ पृश्नि॑ऽगर्भाः। ज्योति॑र्जरायु॒रिति॒ ज्योतिः॑ऽजरायुः। रज॑सः। वि॒मान॒ इति॑ वि॒ऽमाने॑। इ॒मम। अ॒पाम्। स॒ङ्ग॒म इति॑ सम्ऽग॒मे। सूर्य्य॑स्य। शिशु॑म्। न। विप्राः॑। म॒तिभि॒रिति॑ म॒तिऽभिः॑। रि॒ह॒न्ति॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। मर्का॑य। त्वा॒ ॥१६॥

Mantra without Swara
अयँवेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इममपाँ सङ्गमे सूर्यस्य शिशुन्न विप्रा मतिभी रिहन्ति । उपयामगृहीतोसि मर्काय त्वा ॥

अयम्। वेनः। चोदयत्। पृश्निगर्भा इति पृश्निऽगर्भाः। ज्योतिर्जरायुरिति ज्योतिःऽजरायुः। रजसः। विमान इति विऽमाने। इमम। अपाम्। सङ्गम इति सम्ऽगमे। सूर्य्यस्य। शिशुम्। न। विप्राः। मतिभिरिति मतिऽभिः। रिहन्ति। उपयामगृहीत इत्युपयामऽगृहीतः। असि। मर्काय। त्वा॥१६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अयम्) ( वेनः) कमनीयश्चन्द्रः (चोदयत्) प्रेरयति अत्र लडर्थे लङडभावश्च (पृश्निगर्भाः) पृश्निरन्तरिक्षं गर्भो येषां ते पृश्निगर्भा: (ज्योतिर्जरायु:) ज्योतिषां जरायुरिवाच्छादक: (रजसः) लोकसमूहस्य (विमाने) विगतं मानं=परिमाणं यस्यान्तरिक्षस्य तस्मिन् (इमम्) प्रत्यक्षम् (अपाम्) जलानाम् (संगमे) संग्राम इव। संगम इति 'संग्रामनामसु पठितम् ॥ निघं० २ । १७ ।। (सूर्य्यस्य) मार्तण्डस्य (शिशुम्) शासनीयं=कुमारं=बालकम् (न) इव (विप्राः) मेधाविनः (मतिभिः) बुद्धिभिः (रिहन्ति) सत्कुर्वन्ति । रिहंतीत्यर्चतिकर्म्मसु पठितम्।। निघं० ३ । १४ ।। (उपयामगृहीतः) राज्याङ्गैर्युक्तः॥ (मर्काय) मृत्युनिमित्ताय वायवे (त्वा) त्वाम्।। इमं मंत्र निरुक्तकार एवं समाचष्टे--वेनो वेनते: कान्तिकर्म्मणस्तस्यैषा भवति ॥ निरु० १०।३८॥ अयं वेनश्चोदयत् पृश्निगर्भा प्राष्टवर्णगर्भा आप इति वा ज्योतिर्जरायुर्ज्योतिरस्य जरायुस्थानीयं भवति जरायुजरया गर्भस्य जरया यूयत इति वा। इममपां च संगमने सूर्य्यस्य च शिशुमिव विप्रा मतिभी रिहन्ति लिहन्ति स्तुवन्ति वर्द्धयन्ति पूजयंतीति वा॥ शिशुः शंसनीयो भवति शिशीतेर्वा स्याद् दानकर्म्मणश्चिरलब्धो गर्भो भवति । निरु० । १०। ३९॥ अयं मंत्रः शत० ४ । २ । १ । १०-११ व्याख्यातः ॥ १६ ॥
Essence
सभाध्यक्षेण सूर्याचन्द्रमसोर्गुणानिव श्रेष्ठगुणान् प्रकाशयित्वा दुष्टप्रशमनेन श्रेष्ठव्यवहारेण सज्जना आह्लादयितव्याः ।। ७ । १६।।
Subject
अथ सभाध्यक्षेण राज्ञा किं कर्त्तव्यमित्युपदिश्यते ॥
Meaning of Anvay
हे शिल्पविधिविद् विद्वन् ! त्वमुपयामगृहीतः राज्याङ्गैर्युक्तःअस्यतोऽहं रजसः लोकसमूहस्य मध्ये पृश्निगर्भाः पृश्निरन्तरिक्षं गर्भो येषां ते पृश्निगर्भा: लोका इव, ज्योतिर्जरायुः ज्योतिषां जरायुरिवाच्छादक इव, अयं वेनः कमनीयश्चन्द्रः चोदयत् प्रेरयति, इमं प्रत्यक्षं चन्द्रमपां जलानां सूर्यस्य मार्तण्डस्य संगमे संग्राम इव शिशुं शासनीयं कुमारं बालकं विप्राः मेधाविनः मतिभिः बुद्धिभिः रिहन्ति सत्कुर्वन्ति न इव, मर्काय=दुष्टानां प्रशमनाय श्रेष्ठव्यहारस्थापनाय मृत्युनिमित्ताय वायवे च विमाने विगतं मानं=परिमाणं यस्यान्तरिक्षस्य तस्मिन् त्वा=त्वां गृह्णामि ।। ७ । १६ ।।
[हे शिल्पविधिविद् विद्वन्! त्वमुपयामगृहीतोऽस्यतोऽहं......अयं वेनश्चोदयदियं चन्द्रमपां सूर्यस्य संगमे.......न= इव, मर्काय=दुष्टानां प्रशमनाय, श्रेष्ठव्यवहारस्थापनाय च........त्वा=त्वां गृह्णामि]
Special
वत्सार: काश्यपः। विश्वेदेवाः=विद्वांसः॥ आद्यस्य निचृदार्षी त्रिष्टुप्। धैवतः। उपयाम इत्यस्य साम्नी गायत्री। षड्जः।।