Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 15

48 Mantra
7/15
Devata- विश्वेदेवा देवताः Rishi- वत्सार काश्यप ऋषिः Chhand- निचृत् ब्राह्मी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वाँस्तस्मा॒ऽइन्द्रा॑य सु॒तमाजु॑होत॒ स्वाहा॑। तृ॒म्पन्तु॒ होत्रा॒ मध्वो॒ याः स्वि॑ष्टा॒ याः सुप्री॑ताः॒ सुहु॑ता॒ यत्स्वाहाया॑ड॒ग्नीत्॥१५॥

सः। प्र॒थ॒मः। बृह॒स्पतिः॑। चि॒कि॒त्वान्। तस्मै॑। इन्द्रा॑य। सु॒तम्। आ। जु॒हो॒त॒। स्वाहा॑। तृ॒म्पन्तु॑। होत्राः॑। मध्वः॑। याः। स्वि॑ष्टा॒ इति॒ सुऽइ॑ष्टाः। याः। सुप्री॑ता॒ इति॒ सुऽप्री॑ताः। सुहु॑ता॒ इति॑ सुऽहु॑ताः। यत्। स्वाहा॑। अया॑ट्। अ॒ग्नीत् ॥१५॥

Mantra without Swara
स प्रथमो बृहस्पतिश्चिकित्वाँस्तस्माऽइन्द्राय सुतमा जुहोत स्वाहा । तृम्पन्तु होत्रा मध्वो याः स्विष्टा याः सुप्रीताः सुहुता यत्स्वाहायाडग्नीत् ॥

सः। प्रथमः। बृहस्पतिः। चिकित्वान्। तस्मै। इन्द्राय। सुतम्। आ। जुहोत। स्वाहा। तृम्पन्तु। होत्राः। मध्वः। याः। स्विष्टा इति सुऽइष्टाः। याः। सुप्रीता इति सुऽप्रीताः। सुहुता इति सुऽहुताः। यत्। स्वाहा। अयाट्। अग्नीत्॥१५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सः) ( प्रथम:) आदिम: (बृहस्पतिः) बृहत्या विद्यायुक्ताया वाचः पालक: (चिकित्वान्) विज्ञानवान् (तस्मै) (इन्द्राय) ऐश्वर्याय (सुतम्) निष्पादितं व्यवहारम् (आजुहोत) आदत्त (स्वाहा) सत्यां वाचम् (तृम्पन्तु) प्रीणन्तु (होत्राः) स्वीकर्तुमर्हाः (मध्वः) माधुर्यादिगुणोपेता: (याः) (स्विष्टाः) शोभनानीष्टानि याभ्यस्ताः (याः) (सुप्रीताः) सुप्रसन्ना: (सुहुताः) सुष्ठु हुतानि योगादानरूपाणि कर्म्माणि याभिर्योगिनीभिः स्त्रीभिस्ता: (यत्) या (स्वाहा ) शोभनया वाचा (अयाट्) अयाक्षीत् (अग्नीत्) संप्रेषितः। अयम्मन्त्रः शत० ४ । २ । १ । २७-२८ व्याख्यातः ॥ १५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ यथा योगिनो विद्वांसो योगिन्यो विदुष्यश्च परमैश्वर्यप्राप्तये प्रयतन्ते, यथा च सेवकः स्वामिसेवनमाचरति तथैवान्यैस्तत्तत्कर्मणि प्रवृत्त्य स्वाभीष्टसिद्धिः सम्पादनीया ।। ७ । १५ ।।
Subject
अथ स्वामिसेवककृत्यमाह॥
Meaning of Anvay
हे शिष्याः ! यूयं यथा स पूर्वोक्तो मित्रः प्रथमः आदिम: चिकित्वान् विज्ञानवान् बृहस्पतिःबृहत्याः=विद्ययुक्ताया वाचः पालक: यस्मै प्रयतेत, तस्मै इन्द्राय ऐश्वर्याय स्वाहा सत्यां वाचं सुतं निष्पादितं व्यवहारम् आजुहोत आदत्त तथा यत्=यः होत्राः स्वीकर्तुमर्हाः या मध्वः माधुर्यादिगुणोपेताः स्विष्टाः शोभनानीष्टानि याभ्यस्ताः याः सुहुताः सुष्ठु हुतानि=योगादानरूपाणि कर्माणि याभिर्योगिनीभिः स्त्रीभिस्ताः सुप्रीताः सुप्रसन्नाः स्त्रियोऽग्नीत् सम्प्रेषितः कश्चिद्योगी च स्वाहा शोभनया वाचा अयाट् अयाक्षीत् तथा भवन्तस्तृम्पन्तु प्रीणन्तु ।। ७ । १५ ।।
[हे शिष्या:! यूयं यथा स पूर्वोक्तो..... बृहस्पतिर्यस्मै प्रयतेत तस्मै इन्द्राय स्वाहा सुतमाजुहोत, तथा यत्=तथा होत्राः......स्त्रियो, ऽग्नीत् कश्चिद् योगी च स्वाहाऽयाट् तथा भवन्तस्तृम्पन्तु]
Special
वत्सारः काश्यपः । विश्वेदेवाः=विद्वांसः।।निचृद्ब्राह्म्यनुष्टुप्। गान्धारः।।