Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 14

48 Mantra
7/14
Devata- विश्वेदेवा देवताः Rishi- वत्सार काश्यप ऋषिः Chhand- विराट जगती, Swara- निषादः
Mantra with Swara
अच्छि॑न्नस्य ते देव सोम सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तारः॑ स्याम। सा प्र॑थ॒मा सँस्कृ॑तिर्वि॒श्ववा॑रा॒ स प्र॑थ॒मो वरु॑णो मि॒त्रोऽअ॒ग्निः॥१४॥

अच्छि॑न्नस्य। ते॒। दे॒व॒। सो॒म॒। सु॒वीर्य्य॒स्येति॑ सु॒ऽवीर्य्य॑स्य। रा॒यः। पोष॑स्य। द॒दि॒तारः॑। स्या॒म॒। सा। प्र॒थ॒मा। संस्कृ॑तिः। वि॒श्ववा॒रेति॑ वि॒श्वऽवा॑रा। सः। प्र॒थ॒मः। वरु॑णः। मि॒त्रः। अ॒ग्निः ॥१४॥

Mantra without Swara
अच्छिन्नस्य ते देव सोम सुवीर्यस्य रायस्पोषस्य ददितारः स्याम । सा प्रथमा सँस्कृतिर्विश्ववारा स प्रथमो वरुणो मित्रो अग्निः ॥

अच्छिन्नस्य। ते। देव। सोम। सुवीर्य्यस्येति सुऽवीर्य्यस्य। रायः। पोषस्य। ददितारः। स्याम। सा। प्रथमा। संस्कृतिः। विश्ववारेति विश्वऽवारा। सः। प्रथमः। वरुणः। मित्रः। अग्निः॥१४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अच्छिन्नस्य) अखण्डितस्य (ते) तुभ्यं तव वा (देव) योगजिज्ञासो (सोम) प्रशस्तगुण शिष्य! (सुवीर्य्यस्य) शोभनानि वीर्य्याणि=पराक्रमाणि यस्मात् तस्येव (रायः) सर्वविद्याजनितस्य बोधधनस्य (पोषस्य) पुष्टे: (ददितारः) (स्याम) (सा) (प्रथमा) आदिमा (संस्कृतिः) विद्यासुशिक्षाजनितानीतिः (विश्ववारा:) सर्वैरेव स्वीकर्त्तुं योग्या (सः) (प्रथमः) ( वरुण:) श्रेष्ठ: (मित्रः) सखा (अग्निः) पावक इव देदीप्यमानः॥ अयं मन्त्रः शत० ४ । २ । १ । २२-२७ व्याख्यातः ॥ १४॥
Essence
अत्रोपमालङ्कारः॥ योगविद्यासम्पन्नमनसां योगिनां योग्यतास्ति--जिज्ञासुभ्यो नित्यं योगविद्यां प्रदाय ते सुशरीरात्मबलाः सम्पादनीयाः ।। ७ । १४ ।।
Subject
अथ शिष्यायाध्यापककृत्यमाह ।।
Meaning of Anvay
हे देव! योगजिज्ञासो! सोम! प्रशस्तगुण शिष्य ! वयमध्यापकास्ते=तुभ्यं सुवीर्यस्य शोभनानि वीर्याणि= पराक्रमाणि यस्मात् तस्य इव अच्छिन्नस्य अखण्डितस्य रायः सर्वविद्याजनितस्य बोधधनस्य पोषस्य पुष्टे: ददितारःस्याम, या प्रथमा आदिमा विश्ववारा सर्वैरेव स्वीकर्त्तुं योग्या संस्कृतिः विद्यासुशिक्षाजनिता नीतिः अस्ति, सा तुभ्यं सुखदा भवतु।
योऽस्माकं मध्ये वरुणः श्रेष्ठ: अग्निशिखि पावक इव देदीप्यमानः अध्यापकोऽस्ति, स प्रथमस्ते तव मित्रः सखा भवतु।।
७ । १४ ।।
[हे देव! वयमध्यापकास्ते=तुभ्यं........रायस्पोषस्य ददितारः स्याम]
Special
वत्सारः काश्यपः। विश्वेदेवाः=विद्वांसः । विराड् जगती। निषादः॥