Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 13

48 Mantra
7/13
Devata- विश्वेदेवा देवताः Rishi- वत्सार काश्यप ऋषिः Chhand- निचृत् आर्षी त्रिष्टुप्,प्राजापत्या गायत्री, Swara- धैवतः, षड्जः
Mantra with Swara
सु॒वीरो॑ वी॒रान् प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम्। स॒ञ्ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या शु॒क्रः शु॒क्रशो॑चिषा॒ निर॑स्तः॒ शण्डः॑ शु॒क्रस्या॑धि॒ष्ठान॑मसि॥१३॥

सु॒वीर॒ इति॑ सु॒ऽवीरः॑। वी॒रान्। प्र॒ज॒नय॒न्निति॑ प्रऽज॒नय॑न्। परि॑। इ॒हि॒। अ॒भि। रा॒यः। पोषे॑ण। यज॑मानम्। स॒ञ्ज॒ग्मा॒न इति॑ सम्ऽजग्मा॒नः। दि॒वा। पृ॒थि॒व्या। शु॒क्रः। शु॒क्रशो॑चि॒षेति॑ शु॒क्रऽशो॑चिषा। निर॑स्त॒ इति॒ निःऽअ॑स्तः। शण्डः॑। शु॒क्रस्य॑। अ॒धि॒ष्ठान॑म्। अ॒धि॒स्थान॒मित्य॑धि॒ऽस्थान॑म्। अ॒सि॒ ॥१३॥

Mantra without Swara
सुवीरो वीरान्प्रजनयन्परीह्यभि रायस्पोषेण यजमानम् । सञ्जग्मानो दिवा पृथिव्या शुक्रः शुक्रशोचिषा निरस्तः शण्डः शुक्रस्याधिष्ठानमसि ॥

सुवीर इति सुऽवीरः। वीरान्। प्रजनयन्निति प्रऽजनयन्। परि। इहि। अभि। रायः। पोषेण। यजमानम्। सञ्जग्मान इति सम्ऽजग्मानः। दिवा। पृथिव्या। शुक्रः। शुक्रशोचिषेति शुक्रऽशोचिषा। निरस्त इति निःऽअस्तः। शण्डः। शुक्रस्य। अधिष्ठानम्। अधिस्थानमित्यधिऽस्थानम्। असि॥१३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सुवीर:) शोभनश्चासौ वीर इव (वीरान्) उत्कृष्टगुणान् (प्रजनयन्) निष्पादयन्नेव (परि) सर्वतः (इहि) प्राप्नुहि (अभि) आभिमुख्ये (रायः) धनस्य (पोषेण) पुष्ट्या (यजमानम्) दातारम् (संजग्मानः) संगतवान् (दिवा) सूर्य्येण (पृथिव्या) भूम्या सह (शुक्रः) वीर्य्यवान् (शुक्रशोचिषा) शुक्रस्य=शोधकस्य सूर्य्यस्य शोचिर्दीपनं तेनैव (निरस्तः) निःसारितोऽन्धकार इव (शण्ड:) शमादिसहितः (शुक्रस्य) शोधकस्य योगस्य (अधिष्ठानम्) अधितिष्ठन्ति यस्मिन्निति तत् (असि)।। अयं मन्त्रः शत० ४ । २ । १ । १६ व्याख्यातः ॥ १३॥
Essence
शमदमादिगुणाधिष्ठानो योगाभ्यासनिरतो योगी स्वयोगविद्याप्रचारेण जिज्ञासूनामात्मबलं वर्द्धयन् सर्वथा सूर्य इव प्रकाशमानो भवति ।। ७ । १३ ।।
Subject
उक्तयोगमनुष्ठाता योगी कीदृग् भवतीत्युपदिश्यते॥
Meaning of Anvay
हे योगिन् ! सुवीरः शोभनश्चासौ वीर इव त्वं वीरान् उत्कृष्टगुणान् प्रजनयन् निष्पादयन्नेव परि+इहि सर्वतः प्राप्नुहि, एवं यजमानं दातारम् अभिअभिमुख्येन रायः धनस्य पोषेण पुष्ट्या संजग्मानः संगतवान् दिवा सूर्येण पृथिव्या भूम्या सह शुक्रः वीर्यवान् शुक्रशोचिषा शुक्रस्य=शोधकस्ये सूर्यस्य शोचिर्दीपनं तेनेव निरस्तएव=विषयवासनारहितः निःसारितोऽन्धकार इव शण्ड: शमादिसहितः त्वं शुक्रस्य शोधकस्य योगस्य अधिष्ठानम् अधितिष्ठन्तियस्मिन्निति तत् असि ।। ७ । १३ ।।
[हे योगिन्!.....त्वं वीरान् प्रजनयन् परीहि,.......शुक्रशोचिषा निरस्त एव विषयवासनारहितः......शण्डस्त्वं शुक्रस्याधिष्ठानमसि]
Special
वत्सारः कश्यपः । विश्वेदेवाः=विद्वांसः। निचृदार्षीत्रिष्टुप् । धैवतः । शुक्रस्येत्यस्य प्राजापत्या गायत्री । षड्जः॥