Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 12

48 Mantra
7/12
Devata- विश्वेदेवा देवताः Rishi- काश्यप ऋषिः Chhand- निचृत् आर्षी जगती,निचृत् आर्षी पङ्क्ति, Swara- निषादः, पञ्चमः
Mantra with Swara
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षद॑ꣳ स्व॒र्विद॑म्। प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे॒ धुनि॑मा॒शुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से। उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र्वी॒रतां॑ पा॒ह्यप॑मृष्टः॒। शण्डो॑ दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑य॒न्त्वना॑धृष्टासि॥१२॥

तम्। प्र॒त्नथेति॑ प्र॒त्नऽथा॑। पू॒र्वथेति॑ पूर्वऽथा॑। वि॒श्वथेति॑ विश्वऽथा॑। इ॒मथेती॒मऽथा॑। ज्ये॒ष्ठता॑ति॒मिति॑ ज्ये॒ष्ठऽताति॑म्। ब॒र्हि॒षद॑म्। ब॒र्हि॒सद॒मिति॑ बर्हिः॒ऽसद॑म्। स्व॒र्विद॒मिति॑ स्वः॒ऽविद॑म्। प्र॒ती॒ची॒नम्। वृ॒जन॑म्। दो॒ह॒से॒। धुनि॑म्। आ॒शुम्। जय॑न्तम्। अनु॑। यासु॑। वर्द्ध॑से॒। उ॒प॒या॒मगृ॑हीत॒ इ॑त्युपया॒मऽगृ॑हीतः। अ॒सि॒। शण्डा॑य। त्वा॒। ए॒षः। ते॒। योनिः॑। वी॒रता॑म्। पा॒हि॒। अप॑मृष्ट॒ इत्यप॑ऽमृष्टः। शण्डः॑। दे॒वाः। त्वा॒। शु॒क्र॒पा इति॑ शुक्र॒ऽपाः। प्र। न॒य॒न्तु॒। अना॑धृष्टा अ॒सि॒ ॥१२॥

Mantra without Swara
तम्प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम्बर्हिषदँ स्वर्विदम् । प्रतीचीनँ वृजनन्दोहसे धुनिमाशुञ्जयन्तमनु यासु वर्धसे । उपयामगृहीतोसि शण्डाय त्वैष ते योनिर्वीरताम्पाह्यपमृष्टः शण्डो देवास्त्वा शुक्रपाः पणयन्त्वनाधृष्टासि ॥

तम्। प्रत्नथेति प्रत्नऽथा। पूर्वथेति पूर्वऽथा। विश्वथेति विश्वऽथा। इमथेतीमऽथा। ज्येष्ठतातिमिति ज्येष्ठऽतातिम्। बर्हिषदम्। बर्हिसदमिति बर्हिःऽसदम्। स्वर्विदमिति स्वःऽविदम्। प्रतीचीनम्। वृजनम्। दोहसे। धुनिम्। आशुम्। जयन्तम्। अनु। यासु। वर्द्धसे। उपयामगृहीत इत्युपयामऽगृहीतः। असि। शण्डाय। त्वा। एषः। ते। योनिः। वीरताम्। पाहि। अपमृष्ट इत्यपऽमृष्टः। शण्डः। देवाः। त्वा। शुक्रपा इति शुक्रऽपाः। प्र। नयन्तु। अनाधृष्टा असि॥१२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(तम्) योगम् (प्रत्नथा) प्राक्तनानां योगिनामिव (पूर्वथा) पूर्वेषां योगिनामिव (विश्वथा) सर्वेषामिव (इमथा) इदानीन्तनानामिव (ज्येष्ठतातिम्) प्रशस्तं ज्येष्ठम् (बर्हिषदम्) यो बर्हिरन्तरिक्षे सीदति तम् (स्वर्विदम्) स्वः=सुखं वेदयति तम् (प्रतीचीनम्) अविद्यादिदोषेभ्यः प्रतिकूलम् (वृजनम्) योगबलम् (दोहसे) प्रपियर्सि (धुनिम्) इन्द्रियकम्पकम् (आशुम्) शीघ्रं सिद्धिप्रदम् (जयन्तम्) उत्कर्षप्रापकम् (अनु) क्रियायोगे (यासु) कुशलासु (वर्द्धसे) शमादिषु स्वात्मानमुन्नयसि (उपयामगृहीतः) उपयामाः=शौचादयो नियमा गृहीता येन सः (असि) वर्त्तसे (शण्डाय) (त्वा) त्वाम् (एषः) योगयुक्तः स्वभावः (ते) योगविद्याध्यापकस्य तव (योनिः) सुखहेतुः (वीरताम्) वीरस्य भावम् (पाहि) रक्ष (अपमृष्टः) अपमृज्यते= दूरीक्रियतेऽविद्यादिक्लेशैर्यः सः, शुद्धः (शण्डः) शमान्वितः (देवा:) देदीप्यमाना योगिनः (त्वा) त्वाम् (शुक्रपाः) शुक्रं=योगवीर्य्यं योगबलं वा पान्ति ते (प्र) (नयन्तु) (अनाधृष्टा) समन्ताद्धर्षितुमनर्हा (असि) अस्तु॥ अयं मंत्रः शत० ४।१।६।९-१५ व्याख्यातः ॥ १२ ॥
Essence
अत्रोपमालङ्कारः॥ हे योगिन्!यथा शमादिगुणप्रसक्तः पुरुषो योगबलेनबलमुन्नेतुंशक्नोति, सा चाविद्याध्वान्तौघविध्वं- सिनी योगविद्या पुरुषानभ्येत्ययथार्थं सुखयति, तथा त्वामपि सुखयतु ।। ७ । १२ ।।
Subject
पुनर्योगिगुणाः उपदिश्यन्ते॥
Meaning of Anvay
हे योगिन् !त्वमुपयामयामगृहीतः उपयामाः=शौचादयो नियमा गृहीता येन स असि वर्त्तसे, ते=तव योगविद्याध्यापकस्य तव एष=योगस्वभावः योगयुक्तः स्वभावः योनिः=सुखहेतुरस्ति।
येन योगेन त्वमपमृष्ट: अपमृज्यते=दूरीक्रियतेऽविद्यादिक्लेशैर्यः स शुद्ध: शण्ड: शमान्वितः असि वर्त्तसे, यासु कुशलासु योगक्रियासु त्वं वर्द्धसे शमादिषु स्वात्मानमुन्नयसि, विश्वथा सर्वेषामिव प्रत्नथा प्राक्तनानां योगिनामिव पूर्वथा पूर्वेषां योगिनामिव इमथा इदानीन्तनानामिव ज्येष्ठतातिं प्रशस्तं ज्येष्ठं बर्हिषदं यो बर्हिरन्तरिक्षे सीदति तं स्वर्विदं स्वः=सुखं वेदयति तं प्रतीचीनम् अविद्यादिदोषेभ्यः प्रतिकूलम् आशुं शीघ्रं सिद्धिप्रदं जयन्तम् उत्कर्षप्रापकं धुनिम् इन्द्रियकम्पकं वृजनं योगबलं दोहसे प्रपियर्सिच, तं योगबलंशुक्रपाः शुक्रं=योगवीर्यं योगबलं वा पान्ति ते देवाः देदीप्यमाना योगिन: [त्वा]=त्वां प्रणयन्तु, तस्मै शण्डाय तुभ्यमस्य योगस्यानाधृष्टा समन्ताद्धर्षितुमनर्हा वीरता [असि] अस्तु, त्वमिमां वीरतां वीरस्य भावं पाहि रक्ष तदनु त्वामियं वीरता पातु ।। ७ । १२ ।।
[हे योगिन्!.....ते=तवैष योगस्वभावो योनिः=सुखहेतुरस्ति, येन योगेन त्वमपमृष्ट: शण्डोऽसि, यासु योगक्रियासु त्वं वर्द्धसे......प्रतीचीनं......वृजनं दोहसे, तं योगबलं शुक्रपा देवा: [त्वा]=त्वां प्रणयन्तु]
Meaning of Essence
शण्ड:=शमादिगुणप्रसक्तः पुरुषः। वर्द्धसे=विद्याबलमुन्नेतुं शक्नोषि। प्रतीचीनम्=अविद्याध्वान्तौघविध्वंसनम् ॥
Special
वत्सारः काश्यपः। विश्वेदेवाः=विद्वांसः।निचृदार्षी जगती छन्दः । निषादः स्वरः । उपयामगृहीत इत्यस्य पङ्क्तिश्छन्दः । पंचमः स्वरः ॥