Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 11

48 Mantra
7/11
Devata- अश्विनौ देवते Rishi- मेधातिथिर्ऋषिः Chhand- ब्राह्मी उष्णिक्, Swara- ऋषभः
Mantra with Swara
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती। तया॑ य॒ज्ञं मि॑मिक्षितम्। उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वै॒ष ते॒ योनि॒र्माध्वी॑भ्यां त्वा॥११॥

या। वा॒म्। कशा॑। मधु॑मतीति॒ मधु॑ऽमती। अश्वि॑ना। सू॒नृताव॒तीति॑ सू॒नृता॑ऽवती। तया॑। य॒ज्ञम्। मि॒मि॒क्ष॒त॒म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒श्विभ्या॒मि॒त्य॒श्विऽभ्या॑म्। त्वा॒। ए॒षः। ते॒। योनिः॑। माध्वी॑भ्याम्। त्वा॒ ॥११॥

Mantra without Swara
या वाङ्कशा मधुमत्याश्विना सूनृतावती । तया यज्ञम्मिमिक्षतम् । उपयामगृहीतो स्यश्विभ्यान्त्वैष ते योनिर्माध्वीभ्यान्त्वा ॥

या। वाम्। कशा। मधुमतीति मधुऽमती। अश्विना। सूनृतावतीति सूनृताऽवती। तया। यज्ञम्। मिमिक्षतम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। अश्विभ्यामित्यश्विऽभ्याम्। त्वा। एषः। ते। योनिः। माध्वीभ्याम्। त्वा॥११॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(या) (वाम्) युवयोः (कशा) वाणी। कशेति वाङ्नामसु पठितम् ।। निघं० १ । ११।। (मधुमती) प्रशस्तमाधुर्य्यगुणयुक्तेव। (अश्विना) सूर्यचन्द्रवत् प्रकाशमानौ (सूनृतावती) उषा इव (तया) (यज्ञम्) योगम् (मिमिक्षतम्) सेक्तुमिच्छतम् (उपयामगृहीतः) उपनियमैः स्वीकृतः (असि) (अश्विभ्याम्) प्राणापानाभ्याम् (त्वा) त्वाम् (एषः) (ते) तव (योनिः) गृहम् (माध्वीभ्याम्) सुनीतियोगरीतिभ्याम् (त्वा) त्वाम् ॥ अयं मंत्रः शत० ४ । १ । ५ । १७ तथा ४ । १।६।१–७।। व्याख्यातः ॥ ११॥
Essence
अत्रोपमालङ्कारः।। योगिनो मधुरवाचाध्येतृन् प्रतियोगमुपदिशेयुः।
[ते=तवैष योगो योनिरस्ति]
आत्मसर्वस्वं योगमेव मन्येरन् ।
[हे योगाध्यापक! माध्वीभ्यां सह वर्तमानं च [त्वा]=त्वां वयमुपाश्रयाम:]
इतरे जनास्तादृशं योगिनं सर्वत्राऽऽश्रयेयुरिति ॥ ७ । ११ ॥
Meaning of Anvay
हे अश्विनौ सूर्यचन्द्रवत् प्रकाशमानौ योगाध्येत्रध्यापकौ! या वां युवयोः मधुमती प्रशस्तमाधुर्यगुणयुक्तेव सूनृतावती उषा इव कशा वाणी अस्ति, तथा यज्ञं योगं मिमिक्षतं सेक्तुमिच्छतम्।
हे योगमभीप्सो! त्वमुपयामगृहीतः उपनियमैः स्वीकृतः असि, किंच ते=तवैष योगो योनिः गृहम् अस्ति, अतोऽश्विभ्यां प्राणापानाभ्यां सह वर्त्तमानं [त्वा]=त्वाम्, हे योगाध्यापक ! माध्वीभ्यां सुनीतियोगरीतिभ्यां सह वर्त्तमानं च [त्वा]=त्वांवयमुपाश्रयामः ॥ ७ । ११॥
[हे अश्विनौ=योगाध्येत्रध्यापकौ या वां मधुमती.........कशाऽस्ति तया यज्ञं मिमिक्षतम्]
Special
मेधातिथि:। अश्विनौ=योगाध्येत्रध्यापकौ॥ ब्राह्मी उष्णिक्। ऋषभः।।