Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 7 / Mantra 1

48 Mantra
7/1
Devata- प्राणो देवता Rishi- गोतम ऋषिः Chhand- निचृत् आर्षी अनुष्टुप्, Swara- पञ्चमः
Mantra with Swara
वा॒चस्पत॑ये पवस्व॒ वृष्णो॑ऽअ॒ꣳशुभ्यां॒ गभ॑स्तिपूतः। दे॒वो दे॒वेभ्यः॑ पवस्व॒ येषां॑ भा॒गोऽसि॑॥१॥

वा॒चः। पत॑ये। प॒व॒स्व॒। वृष्णः॑। अ॒ꣳशुभ्या॒मित्य॒ꣳशुऽभ्या॑म्। गभ॑स्तिपूत॒ इति॒ गभ॑स्तिऽपूतः॒। दे॒वः। दे॒वेभ्यः॑। प॒व॒स्व॒। येषा॑म्। भा॒गः। असि॑ ॥१॥

Mantra without Swara
वाचस्पतये पवव वृष्णो अँशुभ्याङ्गभस्तिपूतः । देवो देवेभ्यः पवस्व येषां भागो सि ॥

वाचः। पतये। पवस्व। वृष्णः। अꣳशुभ्यामित्यꣳशुऽभ्याम्। गभस्तिपूत इति गभस्तिऽपूतः। देवः। देवेभ्यः। पवस्व। येषाम्। भागः। असि॥१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वाचः) वाण्याः (पतये) पालकेश्वराय (पवस्व) पवित्रो भव (वृष्णः) वीर्य्यवतः (अंशुभ्याम्) बाहुभ्यामिव (गभस्तिपूतः) गभस्तिभिः=किरणैः पूत इव। गभस्तय इति रश्मिनामसु पठितम् ॥ निघं १ । ५ ॥ (देव:) विद्वान् (देवेभ्यः) विद्वद्भ्यः (पवस्व ) शुद्धो भव (येषाम्) विदुषाम् (भागः) भजनीय: (असि)॥ अयं मंत्रः शत० ४ । १ । १ । ८-११ व्याख्यातः ॥ १ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः ॥ सर्वेषां जीवानां योग्यताऽस्तिवेदपतिं सततं पूतं परमेश्वरं विज्ञाय विदुषां सङ्गमेन विद्यादिगुणेषु सुस्नाताः सत्यवागनुष्ठातारः स्युरिति ॥ ७ । १ ।।
Subject
तस्य प्रथमन्त्रे सृष्टिनिमित्तो बाह्याभ्यन्तरव्यवहार उपदिश्यते॥
Meaning of Anvay
हे मनुष्य ! त्वं वाचस्पतये वाण्याः पालकेश्वराय पवस्व पवित्रो भव, वृष्णो वीर्यवतः अंशुभ्यां बाहुभ्याम् इव बाह्याभ्यन्तरव्यवहाराय गभस्तिपूतः गभस्तिभिः=किरणैः पूतः इव देवः विद्वान् भूत्वा येषां=विदुषां भागः भजनीयः असि, तेभ्यो देवेभ्यः विद्वद्यःःा पवस्व शुद्धो भव ।। ७ । १ ।।
[हे मनुष्य! त्वं वाचस्पतये पवस्व,.....देवो भूत्वा येषां विदुषां भागोऽसि तेभ्यो देवेभ्यः पवस्व]
Special
गोतमः। प्राणः=बाह्याभ्यन्तरव्यवहारः॥ निचृदार्ष्यनुष्टुप्। गान्धारः।।