Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 9

37 Mantra
6/9
Devata- सविता आश्विनौ पूषा च देवताः Rishi- दीर्घतमा ऋषिः Chhand- प्राजापत्या बृहती,निचृत् अति जगती Swara- धैवतः
Mantra with Swara
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। अ॒ग्नीषोमा॑भ्यां॒ जुष्टं॒ नियु॑नज्मि। अ॒द्भयस्त्वौष॑धी॒भ्योऽनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः। अ॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि॥९॥

दे॒वस्य॑ त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्याम्। पू॒ष्णः। हस्ता॑भ्याम्। अ॒ग्नीषोमा॑भ्याम्। जुष्ट॑म्। नि। यु॒न॒ज्मि॒। अ॒द्भ्य इत्य॒द्ऽभ्यः। त्वा॒। ओष॑धीभ्यः। अनु॑। त्वा॒। मा॒ता। म॒न्य॒ता॒म्। अनु॑। पि॒ता। अनु॑। भ्राता॑। सगर्भ्य॒ इति॑ सऽगर्भ्यः। अनु॑। सखा॑। सयू॑थ्य इति॑ सऽयू॑थ्यः। अ॒ग्नीषोमा॑भ्याम्। त्वा॒। जुष्ट॑म्। प्र। उ॒क्षा॒मि॒ ॥९॥

Mantra without Swara
देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम् । अग्नीषोमाभ्याञ्जुष्टन्नि युनज्मि । अद्भ्यस्त्वौषधीभ्योऽनु त्वा माता मन्यतामनु पितानु भ्राता सगर्भ्यानु सखा सयूथ्यः । अग्नीषोमाभ्यान्त्वा जुष्टंम्प्रोक्षामि ॥

देवस्य त्वा। सवितुः। प्रसव इति प्रऽसवे। अश्विनोः। बाहुभ्यामिति बाहुऽभ्याम्। पूष्णः। हस्ताभ्याम्। अग्नीषोमाभ्याम्। जुष्टम्। नि। युनज्मि। अद्भय इत्यद्ऽभ्यः। त्वा। ओषधीभ्यः। अनु। त्वा। माता। मन्यताम्। अनु। पिता। अनु। भ्राता। सगर्भ्य इति सऽगर्भ्यः। अनु। सखा। सयूथ्य इति सऽयूथ्यः। अग्नीषोमाभ्याम्। त्वा। जुष्टम्। प्र। उक्षामि॥९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवस्य) वेदविद्याप्रकाशकस्य (त्वा) त्वां विद्यार्थिनम् (सवितुः) सकलैश्वर्यवतः (प्रसवे) प्रसूयते विश्वस्मिन् यस्तस्मिन् (अश्विनोः) सूर्याचन्द्रमसोः (बाहुभ्याम्) तत्तद्गुणाभ्याम् (पूष्ण:) पृथिव्याः। पूषेति पृथिवीनामसु पठितम् ॥ निघं० १ । १॥(हस्ताभ्याम्) हस्त इव वर्तमानाभ्यां धारणाकर्षणाभ्याम् (अग्नीषोमाभ्याम्) एतयोस्तेजःशान्तिगुणाभ्याम् (जुष्टम्) प्रीतम् (नि) (युनज्मि) (अद्भ्यः) यथाजलेभ्यः (ओषधीभ्यः) रोगनिवारिकाभ्यः (अनु) (त्वा) त्वाम् (माता) जननी (मन्यताम्) (अनु) (पिता) जनक: (अनु) (भ्राता) बन्धुः (सगर्भ्य:) सोदर:(अनु) (सखा) सुहृत् (सयूथ्यः) ससैन्यः (अग्नीषोमाभ्याम्) पूर्वोक्ताभ्याम् (त्वा) (जुष्टम्) प्रीतम् (प्र उक्षामि) सिञ्चामि ॥ अयं मंत्रः शत० ३ । ७ । ४ । ३-५ व्याख्यातः ॥ ९॥
Essence
अस्मिन् संसारे मात्रादिभिःपित्रादिभिर्बन्धुवर्गैर्मित्रवर्गैश्च स्वापत्यादीनि सुशिक्ष्य, तै ब्रह्मचर्यं कारतिव्यं, यतस्ते सद्गुणिनः स्युरिति ॥ ६ ।९॥
Subject
पुनः स शिष्यं किमुपदिशेदित्याह ।।
Meaning of Anvay
हे शिष्य ! अहं सवितुः सकलैश्वर्यवतोदेवस्य वेदविद्याप्रकाशकस्य प्रसवे प्रसूयते विश्वस्मिन् यस्तस्मिन् अश्विनोः सूर्य्याचन्द्रमसोः बाहुभ्यां तत्तद्गुणाभ्यां पूष्णः पृथिव्याः हस्ताभ्यां हस्त इव वर्तमानाभ्यां धारणाऽऽकर्षणाभ्यां [त्वा]= त्वां त्वां विद्यार्थिनम् आददे।
अग्नीषोमाभ्याम् एतयोस्तेजः शान्तिगुणाभ्यां जुष्टं प्रीतं त्वा=त्वां त्वां विद्यार्थिनं ये ब्रह्मचर्यधर्माऽनुकूला आप=ओषधयश्च सन्ति ताभ्यो अद्भ्यः यथा जलेभ्यः ओषधीभ्यः रोगनिवारिकाभ्यो नि+युनज्मि ।
[त्वा]=त्वां मत्समीपे स्थातुं माता=जननी अनु+मन्यताम्,पिता जनको अनु+मन्यताम् सगर्भ्यः सोदरो भ्राता बन्धुः अनु+मन्यताम्, सखा सुहृद् अनु+मन्यताम् सयूथ्यः ससैन्यः अनु+मन्यताम्, अग्नीषोमाभ्यां पूर्वोक्ताभ्यां जुष्टं=प्रीतियुक्तं प्रीतं [त्वा] त्वामहं प्र+उक्षामि=तद्गुणैरभिषिञ्चामि सिञ्चामि ॥ ९॥
[हे शिष्य! अहं सवितुर्देवस्य प्रसवे....[त्वा]=त्वामाददे, त्वा=त्वां ये ब्रह्मचर्यधर्मानुकूला आप ओषधयश्च सन्ति ताभ्यो....=युनज्मि, [त्वा]=त्वां मत्समीपे स्थातुं माता=जननी, पिता, सगर्भ्यो भ्राता, सखा, सयूथ्योऽनुमन्यताम्, [त्वा]=त्वामहं प्रोक्षामि= तद्गुणैरभिषिञ्चामि]
Special
दीर्घतमाः । सविता=ऐश्वर्यवान् देवः। आश्विनौ=सूर्याचन्द्रमसौ। पूषा=पृथिवी। च। प्राजापत्या बृहती। मध्यम:। अग्नीषोमाभ्यामित्यस्य पङ्क्तिः। पञ्चमः॥ अग्निषोमाभ्यां त्वेत्यस्य याजुषी त्रिष्टुप्। धैवतः॥