Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 8

37 Mantra
6/8
Devata- बृहस्पतिर्देवता Rishi- दीर्घतमा ऋषिः Chhand- प्राजापत्या अनुष्टुप्,भूरिक् प्राजापत्या बृहती, Swara- ऋषभः
Mantra with Swara
रेव॑ती॒ रम॑ध्वं॒ बृह॑स्पते धा॒रया॒ वसू॑नि। ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॑न प्रति॑मुञ्चामि॒ धर्षा॒ मानु॑षः॥८॥

रेव॑तीः। रम॑ध्वम्। बृह॑स्पते। धा॒रय॑। वसू॑नि। ऋ॒तस्य॑। त्वा॒। दे॒व॒ह॒वि॒रिति॑ देवऽहविः। पाशे॑न। प्रति॑। मु॒ञ्चा॒मि॒। धर्ष॑। मानु॑षः ॥८॥

Mantra without Swara
रेवती रमध्वं बृहस्पते धारया वसूनि । ऋतस्य त्वा देवहविः पाशेन प्रति मुञ्चामि धर्षा मानुषः ॥

रेवतीः। रमध्वम्। बृहस्पते। धारय। वसूनि। ऋतस्य। त्वा। देवहविरिति देवऽहविः। पाशेन। प्रति। मुञ्चामि। धर्ष। मानुषः॥८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(रेवतीः) रायः=प्रशस्तानि धनानि विद्यन्ते यासु ताः प्रजाः (रमध्वम्) क्रीडध्वम् (बृहस्पते) बृहत्या=वेदवाचः पते=पातः, परमविद्वन्! (धारय) अत्र अन्येषामपि दृश्यते ॥ अ० ६ । ३ । १३७ ॥ इति दीर्घः (वसूनि) (ऋतस्य) सत्यन्यायाख्ययज्ञस्य (देवहविः) यथा देवानां हविरादातुमर्हं चरित्रमस्ति तथा (पाशेन) बन्धनेन (प्रति) (मुञ्चामि) (धर्ष) धृष्णुहि। द्व्यचोतस्तिः ॥ अ० ६ । ३ । १३५ ।। इति दीर्घः। विकरणव्यत्ययेन शप च (मानुषः) सर्वशास्त्रमननशीलः।। अयं म्मंत्रः शत० ३ । ७ । ३ । १३ व्याख्यातः ॥८॥
Essence
विद्वद्भिः सुशिक्षया कुमाराणां कुमारीणां च जगदीश्वरात् पृथिवीपर्यन्तपदार्थानां बोधः सम्पादनीयो यतस्ते मूर्खत्वबन्धनं परित्यज्य सदा सुखिनः स्युरिति ॥ ६ । ८ ॥
Subject
अथ पित्रादयः स्वसन्तानान्‌ कथमध्यापकाय प्रदद्युः स च तान्‌ कथं गृह्णीयादित्युपदिश्यते॥
Meaning of Anvay
हे रेवतीः रेवत्यः=प्रजाः! राय:=प्रशस्तानि धनानि विद्यन्ते यासु ताः प्रजाः! यूयं विद्यासु, शिक्षासु रमध्वं क्रीडध्वम् ।
हे बृहस्पते बृहत्या:=वेदवाचः पते=पातः परमविद्वन्! त्वमृतस्य सत्यन्यायाऽऽख्ययज्ञस्यवसूनि [धारया] धारय। अथ शिष्यायोपदिशति गुरुः।
हे राजन् प्रजाजन वा ! मानुषः सर्वशास्त्रमननशील अहं पाशेन=अविद्याबन्धमनेन बन्धनेन देवहविः यथा देवानां हविरादातुमर्हं चरित्रमस्ति तथा यथा, तथा [त्वा]=त्वां प्रति+मुञ्चामि। त्वंविद्यासु, शिक्षासु [धर्षा] धर्ष=धृष्टो भवधृष्णुहि ॥ ६ । ८ ॥
[हे (रेवतीः)रेवत्यः=प्रजाः! यूयं विद्यासु, शिक्षासु रमध्वम्,हे राजन् प्रजाजन वा ! मानुषोऽहं पाशेन=अविद्याबन्धनेन... [त्वा]=त्वां प्रतिमुञ्चामि]
Meaning of Essence
पाशेन=मूर्खत्वबन्धनेन॥
Special
दीर्घतमाः । बृहस्पतिः=परम विद्वान्॥ प्राजापत्यानुष्टुप्। गान्धारः।
ऋतस्य त्वेत्यस्य भुरिक् प्राजापत्या बृहती। मध्यमः॥