Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 6

37 Mantra
6/6
Devata- विद्वांसो देवता Rishi- दीर्घतमा ऋषिः Chhand- आर्षी उष्णिक्,भूरिक् साम्नी बृहती Swara- ऋषभः,मध्यमः
Mantra with Swara
प॒रि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्तां॒ परी॒मं यज॑मान॒ꣳ रायो॑ मनु॒ष्याणाम्। दि॒वः सू॒नुर॑स्ये॒ष ते॑ पृथि॒व्याँल्लो॒कऽआ॑र॒ण्यस्ते॑ प॒शुः॥६॥

प॒रि॒वीरिति॑ परि॒ऽवीः। अ॒सि॒। परि॑। त्वा॒। दैवीः॑। विशेः॑। व्य॒य॒न्ता॒म्। परि॑। इ॒मम्। यज॑मानम्। रायः॑। म॒नुष्या᳖णाम्। दि॒वः। सू॒नुः। अ॒सि॒। ए॒षः। ते। पृथि॒व्याम्। लो॒कः। आ॒र॒ण्यः। ते॒। प॒शुः ॥६॥

Mantra without Swara
परिवीरसि परि त्वा दैवीर्विशो व्ययन्ताम्परीमँयजमानँ रायो मनुष्याणाम् । दिवः सूनुरस्येष ते पृथिव्याँल्लोक आरण्यस्ते पशुः ॥

परिवीरिति परिऽवीः। असि। परि। त्वा। दैवीः। विशेः। व्ययन्ताम्। परि। इमम्। यजमानम्। रायः। मनुष्याणाम्। दिवः। सूनुः। असि। एषः। ते। पृथिव्याम्। लोकः। आरण्यः। ते। पशुः॥६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(परिवीः) यथा परितः=सर्वतः सर्वा विद्यातेति=व्याप्नोति तथा (असि) (परि) सर्वतः (त्वा) त्वां सभाध्यक्षम् (दैवीः) देवानां=विदुषामिमा: (विशः) प्रजाः (व्ययन्ताम्) विशिष्टतया प्राप्नुवन्तु जानन्तु वा (परि) सर्वतः (इमम्) प्रत्यक्षम् (यजमानम्) यज्ञानुष्ठातारम् (रायः) धनानि (मनुष्याणाम्) (दिव:) प्रकाशमयात् सूर्यात् [सूनुः] सूयत=उत्पद्यते किरणसमूह इव (असि) (एषः) (ते) तव (पृथिव्याम्) (लोक:) राष्ट्रम्=राज्यस्थानम् (आरण्यः) अरण्ये भवः (ते) तव (पशुः) पश्यकश्चतुष्पात् सिंहादिः॥ अयं मंत्रः शत० ३ । ७ । १-२१ व्याख्यातः ॥ ६ ॥
Essence
राज्यमाचरन्तं राजानं प्रजाजना अभ्याश्रित्य करं विनयन्तु।
[आरण्यः पशुः=सिंहादिरप्यधीनोऽस्तु]
स राजा प्रजापालनाय सिंहादिपशून् दस्युप्रभृतीँश्च निहत्य स्वप्रजा यथायोग्यं धर्मे संस्थापयेत् ॥ ६ । ६ ॥
Subject
पुनरेतदुपासकः सभाध्यक्षः कीदृगित्युपदिश्यते।।
Meaning of Anvay
हे सभाऽध्यक्ष राजन्! त्वं परिवी:=सर्वविद्याव्यापकवद् यथा परितः=सर्वतः सर्वा विद्या व्येति=व्याप्नोति तथा असि, त्वा=त्वां दैवीः देवानां=विदुषामिमा विशः प्रजाः परि+व्ययन्तां सर्वतो विशिष्टतया प्राप्नुवन्तु जानन्तु वा।
[इमं] प्रत्यक्षं [यजमानं] यज्ञाऽनुष्ठातारं [मनुष्याणां] [रायः] धनानि [परि+व्ययन्तां] सर्वतो विशिष्टतया प्राप्नुवन्तु। त्वं दिवः प्रकाशमयात् सूर्य्यात्, सूनुः सूयत=उत्पद्यते किरणसमूह (इव) इव असि । एषः ते=तव लोकः राष्ट्रम्=राज्यस्थानम् अस्तु। आरण्यः अरण्ये भवः पशु:=सिंहादिः पश्यकश्चतुष्पात् सिंहाऽऽदिः अप्यधीनोऽस्तु ॥ ६ । ६॥
[हे सभाध्यक्ष राजन्!.....त्वा=त्वां दैवीर्विश: परि+व्ययन्ताम् [मनुष्याणां] [रायः] [परिव्ययन्ताम्]]
Meaning of Essence
रायः=कराः ।।
Special
दीर्घतमाः। विद्वांसः=स्पष्टम्। आर्ष्युष्णिक्। ऋषभः। दिवः सूनुरसीत्यस्य भुरिक् साम्नी बृहती। मध्यमः॥