Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 5

37 Mantra
6/5
Devata- विष्णुर्देवता Rishi- मेधातिथिर्ऋषिः Chhand- आर्षी गायत्री Swara- षड्जः
Mantra with Swara
तद्विष्णोः॑ पर॒मं प॒दꣳ सदा॑ पश्यन्ति सूरयः॑। दि॒वीव॒ चक्षु॒रात॑तम्॥५॥

तत्। विष्णोः॑। प॒र॒मम्। प॒दम्। सदा॑। प॒श्य॒न्ति॒। सू॒रयः॑। दि॒वी᳕वेति॑ दिविऽइ॑व। चक्षुः॑। आत॑त॒मित्यात॑तम् ॥५॥

Mantra without Swara
तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयो दिवीव चक्षुराततम् ॥

तत्। विष्णोः। परमम्। पदम्। सदा। पश्यन्ति। सूरयः। दिवीवेति दिविऽइव। चक्षुः। आततमित्याततम्॥५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(तत्) (विष्णो:) पूर्वमंत्रप्रतिपादितस्य जगदुत्पत्तिस्थितिसंहृतिविधातुः परमेश्वरस्य (परमम्) सर्वोत्कृष्टम् (पदम्) प्राप्तुमर्हम् (सदा) सर्वस्मिन् काले (पश्यन्ति) अवलोकन्ते (सूरयः) वेदविदः स्तोतारः। सूरिरिति स्तोतृनामसु पठितम्। निघं० ३ । १६ ॥ (दिवीव) आदित्यप्रकाश इव (चक्षुः) चष्टेऽनेन तत् (आततम्) व्याप्तिमत्। अयं मन्त्रः शत० ३ । ७ । १ । ८ व्याख्यातः ॥ ५ ॥
Essence
अत्र मन्त्रे पूर्वमन्त्रात् "पश्यत'’इत्यस्य पदस्यानुवृत्तिः क्रियते, पूर्णोपमालङ्कारश्चास्ति।।
[येन पूर्वोक्तेन कर्मणा सूरयः=स्तोतारो विष्णोर्यत् परमं पदं दिवि......पश्यन्ति, तेनैव तद् यूयमपि पश्यत]
निर्द्धूतमला विद्वांसः स्वविद्याप्रकाशेन यथेश्वरगुणान् दृष्ट्वा विशुद्धाचरणशीला जायन्ते तथाऽस्माभिरपि भवितव्यम् ॥ ६ । ५ ॥
Subject
तदनुष्ठानेन किं फलमित्याह।।
Meaning of Anvay
भोः सभ्यजनाः! येन पूर्वोक्तेन कर्मणा सूरयः=स्तोतारो वेदविदः स्तोतारो विष्णोः पूर्वमन्त्रप्रतिपादितस्य जगदुत्पत्तिस्थितिसंहृतिविधातुः परमेश्वरस्य यत् परमं सर्वोत्कृष्टं पदं प्राप्तुमर्हंदिवि आदित्यप्रकाशे आततं व्याप्तिमत् चक्षुः चष्टेऽनेन तद् इव सदा सर्वस्मिन् काले पश्यन्ति अवलोकन्ते। तेनैव तद् यूयमपिसततं पश्यत सम्प्रेक्षध्वम् ।। ६ । ५ ।।
[पूर्वमन्त्रात् पदानुवृत्तिमलङ्गकारं च प्राह--]
Meaning of Essence
सूरयः=निर्द्धूतमला विद्वांसः, विशुद्धाचरणशीला:।।
Special
मेधातिथिः। विष्णुः= ईश्वरः॥ आर्षी गायत्री । षड्जः ।।