Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 37

37 Mantra
6/37
Devata- इन्द्रो देवता Rishi- गोतम ऋषिः Chhand- भूरिक् आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
त्वम॒ङ्ग प्रश॑ꣳसिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म्। न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑॥३७॥

त्वम्। अ॒ङ्ग। प्र॒। श॒ꣳसि॒षः॒। दे॒वः। श॒वि॒ष्ठ॒। मर्त्य॑म्। न। त्वत्। अ॒न्यः। म॒घ॒व॒न्निति॑ मघऽवन्। अ॒स्ति॒। म॒र्डि॒ता। इन्द्र॑। ब्र॒वीमि॒। ते॒। वचः॑ ॥३७॥

Mantra without Swara
त्वमङ्ग प्र शँसिषो देवः शविष्ठ मर्त्यम् । न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥

त्वम्। अङ्ग। प्र। शꣳसिषः। देवः। शविष्ठ। मर्त्यम्। न। त्वत्। अन्यः। मघवन्निति मघऽवन्। अस्ति। मर्डिता। इन्द्र। ब्रवीमि। ते। वचः॥३७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(त्वम्) (अङ्ग) संबोधने (प्र) (शंसिष:) प्रशंस लेडमेध्यमैकवचनप्रयोगः (देवः) शत्रून् विजिगीषु: (शविष्ठ) बहु शवो=बलं विद्यते यस्य स शवस्वान् सोतिशयितस्तत्सम्बुद्धौ। अत्र शव शब्दाद्भूम्न्यर्थे मतुप् तत इष्ठन्। विन्मतोर्लुक्॥ अ० ५। ३। ६५ ।। इति मतुपो लुक्। टेः॥ [अ० ६ । ४ । १५५ ।। अनेन टिलोपः (मर्त्यम्) प्रजास्थं मनुष्यम् (न) निषेधे (त्वत्) (अन्य:) (मघवन्) ईश्वर इव समृद्ध (अस्ति) (मर्डिता) सुखयिता (इन्द्र) परमैश्वर्य्यान्वित (ब्रवीमि) (ते) तुभ्यम् (वचः) प्राक्प्रतिपादितं राजधर्मानुरूपं वचः॥ अयं मन्त्रः शत० ३ । ९। ४। २४ व्याख्यातः ॥ ३७।।
Essence
अत्रोपमालङ्कारः॥ यथा पक्षपातविरहः सर्वसुहृदीश्वरस्तदनुकूल: सभापती राज्यधर्मानुवर्ती राजा प्रशंसनीयं प्रशंसन्, निन्द्यं निन्दन्, दण्डार्द्धं दण्डयन्, रक्षितव्यं रक्षन् सर्वेषामभीष्टं सम्पादयेत्।। ६ । ३७ ।।
Subject
अथ प्रजाजनाः कृतं सभापतिं कथं प्रशंसेयुरित्युपदिश्यते।।
Meaning of Anvay
हे अङ्ग! शविष्ठ! बहु शवो=बलं विद्यते यस्य स शवस्वान् सोऽतिशयितस्तत्सम्बुद्धौ! मघवन्! ईश्वर इव समृद्ध! इन्द्र=सभापते! परमैश्वर्य्याऽन्वित! त्वं मर्त्यं प्रजास्थं मनुष्यं प्र+शंसिषः प्रशंस। न त्वदन्यो मर्डिता सुखयिता देवः शत्रून् विजिगीषुः अस्ति।अतोऽहं ते=तुभ्यं वचः प्राक्प्रतिपादितं राजधर्माऽनुरूपं वचो ब्रवीमि ॥ ६। ३७ ।।
[हे......इन्द्र=सभापते! त्वं मर्त्यं प्र+शंसिषः। न त्वदन्यो मर्डिता देवोऽस्ति]
Special
गौतमः। इन्द्रः=परमैश्वर्यवान् सभापतिः॥ भुरिगार्ष्यनुष्टुप्।गांधारः॥