Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 36

37 Mantra
6/36
Devata- सोमो देवता Rishi- मधुच्छन्दा ऋषिः Chhand- पुरोष्णिक्, Swara- ऋषभः
Mantra with Swara
प्रागपा॒गुद॑गध॒राक्स॒र्वत॑स्त्वा॒ दिश॒ऽआधा॑वन्तु। अम्ब॒ निष्प॑र॒ सम॒रीर्वि॑दाम्॥३६॥

प्राक्। अपा॑क्। उद॑क्। अ॒ध॒राक्। स॒र्वतः॑। त्वा॒। दिशः॑। आ। धा॒व॒न्तु॒। अम्ब॑। निः। प॒र॒। सम्। अ॒रीः। वि॒दा॒म् ॥३६॥

Mantra without Swara
प्रागपागुदगधराक्सर्वतस्त्वा दिश आ धावन्तु । अम्ब नि ष्पर समरीर्विदाम् ॥

प्राक्। अपाक्। उदक्। अधराक्। सर्वतः। त्वा। दिशः। आ। धावन्तु। अम्ब। निः। पर। सम्। अरीः। विदाम्॥३६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(प्राक्) पूर्वस्याः (अपाक्) पश्चिमाया: (उदक्) उत्तरस्या: (अधराक्) दक्षिणस्याः (सर्वतः) अन्याभ्यः (त्वा) त्वाम् (दिशः) (आ) समन्तात् (धावन्तु) (अम्ब) अमति=प्रेमभावेन प्राप्नोति तत्संबुद्धौ। अत्रोणादिर्वन् प्रत्यय: (निः) नितराम् (पर) पालय (सम्) (अरी:) सुखप्रापिका: प्रजाः (विदाम्) विदताम्। विद ज्ञान इत्यस्माल्लोटि प्रथमबहुवचने। लोपस्त आत्मनेपदेषु।। ७ । १ । ४१ ।। अनेन तकारलोपे सवर्णदीर्घे विदामिति रूपम् ॥ अयं मन्त्रः शत० ३।९।४।२०-२३ व्याख्यातः ॥ ३६॥
Essence
मातापित्रोर्योग्यताऽस्ति--स्वापत्यानि विद्यादिसद्गुणेषु नियोज्य निरन्तरं रक्षणीयानि।
[ता अपि त्वा=त्वां सं+विदाम्=जानन्तु]
अपत्यानां योग्यताऽस्तिसर्वतः पित्रोः सेवनं कुर्युरिति ।। ६। ३६।।
Subject
अथैतयोरपत्यानि किं किं कुर्युस्तौ कथं पालयेयुरित्याह ॥
Meaning of Anvay
हे अम्ब! अमति=प्रेमभावेन प्राप्नोति तत्सम्बुद्धौ! त्वं या अरीः=सुखप्रापिकाः प्रजास्ते प्राक् पूर्वस्याः, अपाक् पश्चिमायाः, उदक् उत्तरस्याः, अधराक् दक्षिणस्याः, सर्वतः अन्याभ्यो दिशः, [त्वा]=त्वाम् आ+धावन्तु समन्ताद् धावन्तु। तास्त्वं निः+पर=नितरां रक्ष नितरां पालय। ता अपि त्वा=त्वां सं+विदाम्=जानन्तु विदताम् ॥ ६ । ३६॥
[हे अम्ब! त्वं या अरी: सुखप्रापिका: प्रजाःतास्त्वं निः+पर=नितरां रक्ष]
Meaning of Essence
अरीः=स्वापत्यानि । निः+परः=निरन्तरं रक्ष॥
Special
मधुच्छन्दाः। सोमः=पित्रादीनां सेवा।। उष्णिक्। ऋषभः।।