Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 35

37 Mantra
6/35
Devata- द्यावापृथिव्यौ देवते Rishi- मधुच्छन्दा ऋषिः Chhand- भूरिक् आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
मा भे॒र्मा संवि॑क्था॒ऽऊर्जं॑ धत्स्व॒ धिष॑णे वी॒ड्वी स॒ती वी॑डयेथा॒मूर्जं॑ दधाथाम्। पा॒प्मा ह॒तो न सोमः॑॥३५॥

मा। भेः॒। मा। सम्। वि॒क्थाः॒। ऊर्ज॑म्। ध॒त्स्व॒। धिष॑णे॒ऽइति॑ धिष॑णे। वीड्वीऽइति॑ वी॒ड्वी। स॒ती॑ऽइति॑ स॒ती। वी॒ड॒ये॒था॒म्। ऊ॑र्जम्। द॒धा॒था॒म्। पा॒प्मा। ह॒तः। न। सोमः॑ ॥३५॥

Mantra without Swara
मा भेर्मा सँविक्था ऊर्जन्धत्स्व धिषणे वीड्वी सती वीडयेथामूर्जन्दधाथाम् । पाप्मा हतो न सोमः ॥

मा। भेः। मा। सम्। विक्थाः। ऊर्जम्। धत्स्व। धिषणेऽइति धिषणे। वीड्वीऽइति वीड्वी। सतीऽइति सती। वीडयेथाम्। ऊर्जम्। दधाथाम्। पाप्मा। हतः। न। सोमः॥३५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मा) (भेः) मा बिभीयाः। लिङर्थे लुङ् (मा) (सम्) (विक्थाः) भयं कम्पनं च कुर्य्या:(ऊर्ज्जम्) स्वशरीरात्मबलं पराक्रमं वा (धत्स्व) (धिषणे) द्यावापृथिव्याविव (वीड्वी) बलवती। वीड्वीति बलनामसु पठितम् ॥ निघं० २ ।९॥ (सती) सद्गुणयुक्ता (वीडयेथाम्) दृढ़बलौ भवेताम् (ऊर्ज्जम्) सन्तानादिभ्योऽपि बलं पराक्रमं च (दधाथाम्) (पाप्मा) अपराध: (हतः) नष्टः (न) इव ( सोमः)॥ अयं मन्त्रः श० २। ९।४ । १८ व्याख्यातः ॥ ३५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः ॥ इत्थं स्त्रीपुरुषौ व्यवहारमनुवर्त्तेयातां यतः परस्परं भयोद्वेगौ नश्येतामात्मनो दृढोत्साहः प्रीतिर्गृहाश्रमव्यवहारसिद्धिरैश्वर्यं च वर्द्धेत।
[एवमनुवर्तिनोर्युवयोः पाप्मा हतो भवतु, सोमो न=चन्द्र इवाऽऽह्लादशान्त्यादिगुणवृन्दः प्रकाशितो भवतु]
दोषदुःखानि निवर्त्य चन्द्र इव परस्परमाह्लादकारिणौ भवेताम् ॥ ६। ३५॥
Subject
पुनः स्त्रीपुरुषौ परस्परं कथं वर्तेयातामित्युपदिश्यते॥
Meaning of Anvay
हे स्त्रि ! त्वं वीड्वी बलवती सती सद्गुणयुक्ता पत्युः सकाशान्मा भेः मा बिभीयाः, मा सम्+विक्थाः भयं कम्पनं च कुर्य्याः, ऊर्ज्जं स्वशरीराऽऽत्मबलं पराक्रमं वा धत्स्व।
हे पुरुष ! त्वमप्येवं भवेः, युवां धिषणे द्यावापृथिव्यौ इवऊर्ज्जं सन्तानादिभ्योऽपि बलं पराक्रमं च दधाथाम्, वोडयेथां दृढबलौ भवेताम्। एवमनुवर्तिनोर्युवयोः पाप्मा अपराधो हतः नष्टो भवतु । सोमो न=चन्द्र इवाऽऽह्लादशान्त्यादिगुणवृन्दः प्रकाशितो भवतु ॥ ६ । ३५ ।।
[हे स्त्रि ! त्वं.....पत्युः सकाशान्मा भेः, मासंविक्थाः, ऊर्जं धत्स्व। हे पुरुष! त्वमप्येवं भवेः]
Special
मधुच्छन्दाः। द्यावापृथिव्यौ=सूर्यलोकः पृथिवी च। भुरिगार्ष्यनुष्टुप्।गान्धारः।