Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 34

37 Mantra
6/34
Devata- यज्ञो देवता Rishi- मधुच्छन्दा ऋषिः Chhand- स्वराट् आर्षी पंथ्याबृहती, Swara- मध्यमः
Mantra with Swara
श्वा॒त्रा स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्त्ताऽअ॒मृत॑स्य॒ पत्नीः॑। ता दे॑वीर्देव॒त्रेमं य॒ज्ञं न॑य॒तोप॑हूताः॒ सोम॑स्य पिबत॥३४॥

श्वा॒त्राः। स्थ॒। वृ॒त्र॒तुर॒ इति॑ वृत्र॒ऽतुरः॑। राधो॑गूर्त्ता॑ इति॑ राधः॑ऽगूर्त्ताः। अ॒मृत॑स्य। पत्नीः॑। ताः। दे॒वीः॒। दे॒व॒त्रेति॑ देव॒ऽत्रा। इ॒मम्। य॒ज्ञम्। न॒य॒त॒। उप॑हूता॒ इत्यु॑पऽहूताः। सोम॑स्य। पि॒ब॒त॒ ॥३४॥

Mantra without Swara
श्वात्रा स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीः । ता देवीर्देवत्रेमँयज्ञन्नयतोपहूताः सोमस्य पिबत ॥

श्वात्राः। स्थ। वृत्रतुर इति वृत्रऽतुरः। राधोगूर्त्ता इति राधःऽगूर्त्ताः। अमृतस्य। पत्नीः। ताः। देवीः। देवत्रेति देवऽत्रा। इमम्। यज्ञम्। नयत। उपहूता इत्युपऽहूताः। सोमस्य। पिबत॥३४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(श्वात्राः) श्वात्रं=शीघ्रं कर्मविज्ञानं वर्त्तते यासां ताः। अर्शादित्वादच्। श्वात्रमिति क्षिप्रनामसु पठितम् ॥ निघं० ५ । ३ ॥ (स्थ) भवत (वृत्रतुरः) वृत्रं=मेघं तूर्वति यास्ता विद्युत् इव (राधोगूर्त्ता:) धनवर्द्धिन्य एव (अमृतस्य) अतिस्वादिष्टस्य (पत्नी:) पत्न्यः (ताः) (देवीः) देदीप्यमानाः (देवत्रा) देवेषु पतिषु (इमम्) गृहसंबन्धिनम् (यज्ञम्) संगन्तव्यम् (नयत) (उपहूताः) सामीप्यमाहूताः (सोमस्य) सोमाद्योषधिनिष्पादितस्य सारम्।अत्र कर्मणि षष्ठी (पिबत)॥अयं मंत्रः शत० ३ । ९ । ४ । १६-१७ व्याख्यातः॥ ३४ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः।। यथा विदुष्यो विद्वत्स्त्रियः स्वधर्मव्यवहारेण स्वपतीन् प्रसादयन्ति तथैव पुरुषाः स्वाः स्त्रीस्सततं प्रसादयेयुः,
[उपहूता इवामृतस्य=सोमस्यातिस्वादिष्ठं सोमाद्योषधिरसं पिबत]
इत्थं परस्परानुमोदेन गृहाश्रमधर्ममलङ्कुर्वन्तु।। ६ । ३४ ।।
Meaning of Anvay
हे देवीः=देव्यो देदीप्यमानाः! [पत्नीः]=पत्न्यः स्त्रियःयूयं वृत्रतुर वृत्रं=मेघं तूर्वति यास्ता विद्युत् इव राधोगूर्त्ता धनवर्द्धिन्य एव सत्यो यज्ञसहकारिण्यः श्वात्राः श्वात्रं=शीघ्रं कर्मविज्ञानं वर्त्तते यासांताःस्थभवत, ताः देवत्रा देवेषु=पतिषु इमं गृहसम्बन्धिनं यज्ञं संगन्तव्यं नयत। उपहूता: सामीप्यमाहूता इव अमृतस्य—सोमस्यातिस्वादिष्ठं सोमाद्योषधिरसं सोमाद्योषधिनिष्पादितस्य सारं पिबत॥ ६ । ३४।।
[हे देवीः=देव्यः [पत्नीः]=पत्न्यः स्त्रियः! यूयं.....यज्ञसहकारिण्यः श्वात्राः स्थ, ता देवत्रा इमं यज्ञं नयत]
Special
मधुच्छन्दाः। यज्ञः=सत्सङ्गतिः॥ स्वराडार्षी बृहती। मध्यमः॥