Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 33

37 Mantra
6/33
Devata- सोमो देवता Rishi- मधुच्छन्दा ऋषिः Chhand- भूरिक् आर्षी बृहती, Swara- मध्यमः
Mantra with Swara
यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृ॑थि॒व्यां यदु॒राव॒न्तरि॑क्षे। तेना॒स्मै यज॑मानायो॒रु रा॒ये कृ॒ध्यधि॑ दा॒त्रे वो॑चः॥३३॥

यत्। ते॒। सो॒म॒। दि॒वि। ज्योतिः॑। यत्। पृ॒थि॒व्याम्। यत्। उ॒रौ। अ॒न्तरि॑क्षे। तेन॑। अ॒स्मै। यज॑मानाय। उ॒रु। रा॒ये। कृ॒धि॒। अधि॑। दात्रे॒। वो॒चः॒ ॥३३॥

Mantra without Swara
यत्ते सोम दिवि ज्योतिर्यत्पृथिव्याँ यदुरावन्तरिक्षे तेनास्मै यजमानायोरु राये कृध्यधि दात्रे वोचः ॥

यत्। ते। सोम। दिवि। ज्योतिः। यत्। पृथिव्याम्। यत्। उरौ। अन्तरिक्षे। तेन। अस्मै। यजमानाय। उरु। राये। कृधि। अधि। दात्रे। वोचः॥३३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यत्) (ते) तव (सोम) सकलैश्वर्यप्रेरक! (दिवि) सूर्य्ये (ज्योतिः) ज्योतिरिव (यत्) (पृथिव्याम्) (यत्) (उरौ) विस्तृते (अन्तरिक्षे) अन्तराल आकाशे (तेन) (अस्मै) (यजमानाय) परोपकारार्थयज्ञानुष्ठात्रे (उरु) बहु (राये) धनाय (कृधि) कुरु (अधि) अधिकार्थे (दात्रे) (वोच:) उच्याः। अत्र लिङर्थे लुङ्। छन्दस्य माङ्योगेऽपि ॥ ६ । ४। ७५ ॥ इत्वडभावः ॥ अयं मंत्रः शत० ३।६।४।१२-१५ व्याख्यातः॥ ३३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः ।। सभापतिः स्वराज्योत्कर्षेण विद्यादिशुभगुणकर्मसु सर्वाञ्जनान् सुशिक्ष्य निरालस्यान् सम्पादयेत्, यतस्ते पुरुषार्थमनुवर्तिनो भूत्वा धनादिपदार्थान् सततं वर्द्धयेयुरिति॥ ६ । ३३ ।।
Subject
ईदृश: सभापतिः प्रजायै किं प्रार्पयितुं शक्नोतीत्युपदिश्यते॥
Meaning of Anvay
हे सोम=सभापते सकलैश्वर्य्यप्रेरक! ते=तव यत् दिवि सूर्य्ये, यत् पृथिव्यां भूमौ यत् उरौ विस्तृते अन्तरिक्षे अन्तराल आकाशे [ज्योतिः]=ज्योतिरिव राज्यकर्माऽस्ति तेन त्वं दात्रे=अस्मै यजमानाय परोपकारार्थयज्ञाऽनुष्ठात्रे उरु बहु कृधि कुरु, राये धनाय अधि+वोचः अधिकमुच्याः च ।। ६ । ३३।।
[हे सोम=सभापते! ते=तव यत्.....[ज्योतिः]=ज्योतिरिव राज्यकर्माऽस्ति तेन त्वं दात्रे=अस्मै यजमानायोरु कृधि, रायेऽधिवोचश्च]
Meaning of Essence
राये=धनादिपदार्थानां वृद्धये॥
Special
मधुच्छन्दाः। सोम:=ऐश्वर्यदात्ता सभापतिः॥ भुरिगार्षी बृहती। मध्यमः॥